________________
कविधनपालकृता
३६२) दृष्ट्वा च मामलक्षितैरक्षिविक्षेपैरग्रतः समग्रकलाधिगमलब्धवैदग्ध्याभिः शुद्धान्तयुवतिभिरनेकधा प्रवर्तितविनोदमुपजातपरमप्रमोदा ततः प्रासादवातायनादुदतिष्ठत् । अहमपि तथा शून्यीकृतमवेक्ष्य तं गवाक्षमुद्गतोद्वेगवेगस्तदुच्छेदवाञ्छया रुषेव सर्वदा समासन्नचन्दनार्जुनतिलकमञ्जरीकमन्तःपुरोपवनमव्रजम् ।।
३६३) भ्रान्त्वा च तत्रातिचिरं, स्मरायतनरक्ताशोकतलनिषण्णम् , आसन्नसेवाचतुरकतिपयान्तःपुरचारिपरिचारकपरीतम् , अल्पवेत्रधारीवृन्दपरिगता समागता सत्वरमनन्तरा मन्दुरायाः प्रतीहारी हरिणिका नाम विहितप्रणामा मामवोचत् । 'कुमार ! संप्रति प्रासादशिखरावतीर्णा विज्ञापयति देवी तिलकमञ्जरी-"मज्जनपुरःसरमनाय माध्याहूनिक
निर्मापयतु कर्मक्रम कुमारः । प्रथममेवाद्य चिरकालादुपागता निरन्तरव्रतनियमोपचास10 क्लेशविशेषकर्षिताङ्गी न युज्यते निनिमित्तमाहारवेलातिक्रम कारयितुमार्या मलयसुन्दरी ।
पुनः कदाचिद्रष्टव्यमुद्यानम्” [इति]' । अहं तु तच्छृत्वा 'यथाह देवी' इत्यभिधाय तत्कालमेव प्रचलितः पादपतलादनुगम्यमानः सविधचारिणा जनेन तमेव प्राक्तन स्वावा. समणिमण्डपमुपागमम् । तत्र च समाहृतसमग्रस्नानमङ्गलोपकरणाभिरनुपालयन्तीभिराग
मनमुन्मुखीभिमज्जनबालिकाभिरभिनन्दितदर्शनः स्नात्वा सुचिरमुत्थाय द्विप्रकारामपि विधाय 15 भुवनत्रयगुरोरादियुगनाथस्य पूजामात्तचतुरोदारनेपथ्यः प्रथमदर्शनात्प्रभृत्यकृत्रिमारूढसख्यया सतताभिमुख्यया मृगाङ्गले खया साकमक्षक्रीडाविनोदेन क्षणमात्रमस्थाम् ।।
३६४) अथानुपदमागच्छद्भिरन्यैश्च तर्जितैर्विसर्जितैस्तिलकमञ्जरीसमासन्नलोकैः समुपहूतः प्रासादशिखरादवातरम् । उपदिश्यमानवा च तैः प्रचलितः पुरस्तादितस्ततो
दत्तदृष्टिर्दूरादेव दृश्यमानादग्रशृङ्गम् , अधिकाभिरामभास्वराभोगम् , अङ्गणोपान्तपुञ्जित20 विमानयानाभिरन्तय॑स्तदुन्दुभिशङ्खझल्लरीपटहपणवादिवाद्यविशेषाभिः कृपाणचक्रप्रासपट्टिश
प्रायपहरणदुरालोकाभिरालोक्यमानविविधध्वजच्छत्रचामरोडामराभिरनेकपर्याणपीठपर्थङ्ककङ्कटकिरीटगर्भाभिर्विहारकालोपयुक्तवस्तुसंभारनिक्षेपक्षमाभिरुभयतो विशालगम्भीराभिः शालाभिरुपशोभमानबाह्यकक्षान्तरम् , आरोपितानुरूपरत्नपर्याणैर्गरुड केसरिकुरङ्गवक्राङ्गबर्हि
णप्रमुखाकारधारिभिर्विद्याबलकृतैर्दशनायातविद्याधरवधूवाहनविशेपैरशून्यमध्यमप्राकारगोपुर25 द्वारम् , अनवरतसारणीसेकसुकुमारकृत्रिमतरङ्गिणीतीरवनषण्डैः श्रीखण्डशाखागतागतोन्नी
तवनपालबालिकानिर्दयान्दोलनविलासः कुसुमितलताकुअगुञ्जन्मधुपमधुरितमनस्विनीकोपकुटिलभ्रुकुटिभङ्गरभड्गुरप्रासाददी र्धिकाकुण्डजलमण्डपैरखण्डितमुख्यतरुमिथुनकोद्वाहमङ्गलगीतवाद्यैरुष्णांशुरथचक्रावयवैरिव स्फुरितस्फारकाञ्चनारैरसम्यग्ज्ञातदशरूपकैरिव सर्वदाडिमी
कृतवीथिभिरनल्पचारैरुरुभिरनेकनागराजादनजनितशोभैः केसरिभिः प्रकृष्टकुटजैरप्यगस्त्य. 30 भावरहितैर्जगत्त्रयजयोद्यतस्य मकरकेतोरेकान्तसहकारिभिः सहकारिभिरुपवनैरशून्यपश्चिम
भूमिकाभागम् , अङ्गीकृतानुरूपनिजव्यापाराभिः सविभ्रम भ्रमन्तीभिस्तेजोमयीभिरिव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org