________________
तिलकमञ्जरी
तेनाप्यायतेन गत्वा राजमार्गेण प्रविश्य राजकुलाभ्यन्तरमतिक्रम्य विस्तारवत्यपि नितातदुःप्रवेशान्यनेक कक्षान्तराणि तोरणोपान्तपुञ्जित निरन्तरोत्खातशत्रख्यात वंशान्तर्व शिकनरं कन्यान्तः पुरमगच्छत् ॥
३५९) प्रविष्टा च तत्र सर्वत्राभिरामं वामभागे तिलकमञ्जरीमन्दिरस्य निरन्तरानुलग्नमनतितुङ्गप्राकारपरिगत मुद्दग्रशिखरानेक सुन्दरत्रासादमासाद्य निजनिवासभवनं विमा- 5. नादवातरत् । प्रविश्य च निरन्तरन्यासशालिना मणिशिलातलसंक्रमेण क्रमेणाधिरूढमानीय मामुपरितलक मगलकुट्टिमतलस्योत्तुङ्गकनकस्तम्भराजीविराजिनः प्रकाशविपुला यतावकाशस्य शयनचित्रशालिकाङ्गणरत्नमण्डपस्याधस्तात्स्वहस्त संचरितेनाचिरधौतेन शुचिना समन्तादुत्तरच्छदपटेनाच्छादिते मृदावपि तापनीये महति पट्टपर्यङ्के न्यवेशयत् ॥
३६० ) उपास्य च सुचिरमन्तिकन्यस्तविष्टरोपविष्टा प्रक्षाल्य च स्वयं परिजना - 10 हृतेन स्वच्छवारिणा मच्चरणयुगलमादरार्पितप्रचुरपुष्पताम्मूला तिलकमञ्जरी पार्श्वमगमत् । सा तु प्रविष्टमात्रै सद्मनि प्रतिदिनमेव दर्शनोत्कण्ठितायाः प्रथमागमनलजितां मलयसुन्दरीं सहसैव गत्वा मातुरन्तःपुरगतायाः सादरमदर्शयत् । स्वयं च मद्दर्शनाशया 'दीर्घाध्वलङ्घनेन खिन्नामि इत्यलीकमेवादिष्ट शिशिरोपचारा त्रिचतुराप्त सहचरीसमेता सौधशिखराग्रसङ्गिनीं शयनचित्रशालामगच्छत् ॥
"
२१५
"
Jain Education International
३६१) तस्यां च तत्क्षणोद्घाटितकपाट प्रकटितोत्तराशे दक्षिणेतरभित्तिभागाश्रयिण सुश्लिष्टमणिभूमिकान्ते शशिकान्तवातायने चित्तज्ञेन विरचितविचित्रविन्यासैश्चतुरपरिचारिकाजनेन सरोजिनी पत्रशयनीयमधिशयाना, पन्नगाङ्गनेव चन्दनाङ्गरागिणी, निदाघान्तविवकरमूर्तिरिव धृतदशा शान्त परिस्रवन्नव जलार्द्रा शुका, शुकाङ्गनीलसजलशैवलप्रवालकल्पितकर्णपूरा, नूपुरस्थान संदानितसनिद्रकैरवमुकुल मण्डलीका, जघनमण्डलनद्धनी रन्ध्रकुवलयदाम - 20 रसनागुणा, श्रवणपाशदोलायमान कुमुदिनीकन्ददन्तपत्रा, कण्ठभुजकराप्रादिभिः शरीरावयवैरखिलमपि हारकेयूरकटकप्रभृत्याभरणजालं मार्णालमुद्वहन्ती, साक्षादिवामृतजलधिजलदेवता, ऋतेत्यर्तिमायतं निःश्वसन्ती, विनापि वेदनां वदनमाकूणयन्ती, अन्तरेणापि तापमङ्घ्रिपवतले रत्नदर्पणं दापयन्ती, अबहुमन्यमानापि पवनस्पर्शमनुवेलमभिनवानि कदलीपत्रतालवृन्तान्युत्क्षेपयन्ती, उभयतो निविष्टेन वेदितुमिवायाममक्ष्णोरुपरि वारंवार मारोपित - 25 जलार्द्रनीरजक्लद्वया, मातुमिव विस्तार मुरसिजपीठपृष्ठे प्रतिष्ठित विशालनलिनी पलाशा, शिक्षितुमिव तदीयरेखामधिललाट मालिख्यमानमलय जललाटिका, लब्धुमिव निःश्वाससौरभो -
मुरसि विक्षिप्यमाणत्रचुरकर्पूर चूर्णमुष्टिः, स्प्रष्टुमिव गात्रयष्टिमारन्धमधुर संवाहना, स्वयं प्रियसखीगणेन क्षणं संमुखपरावर्तिताङ्गा, क्षणमुत्तरीयेणार्थावगुष्ठितोत्तमाङ्गा, क्षणमुपविश्य मत्तवारणके कृतावष्टम्भा, क्षणमुत्थाय प्रकटिताङ्गभङ्गमारब्धजृम्भाविजृम्भितपृथु - 30 श्रमव्यथैवापृष्टमन्मथोपदिष्टमभिनवं रसविशेषमनुभवन्ती, सुचिरमस्थात् ॥
For Private & Personal Use Only
15
www.jainelibrary.org