________________
२१४
कविधनपाल कृता
३५५) गतायां च तस्याभल्पखेचरीवृन्दपरिगता गृहीतवेत्रच्छत्रचामरेण पश्चाप्रधावता परिजनेनानुगम्यमाना मृगाङ्कलेस्वा सभागत्य सत्वरमवादीत-'भर्तृदारिके ! तिष्ठत्वेष तावदुचितानुचितयोर्विचारः । उत्तिष्ठ शीघ्रम् । एपा द्वारतोरणस्तम्भलग्ना
सुचिरमूर्धावस्थानखिन्माभिर्नभश्चरेन्द्रकुलकुमारीभिः परिवृता बहिः प्रतिपाल यन्ती त्वदा5 गमनमास्ते देवी । ब्रवीति च “न तावन्मया गन्तव्यं न यावदार्या समागता" इति' ।
तच्छ्रत्वा मल यसुन्दरी 'मृगाङ्कलेखे ! न शक्यते किमपि मेऽन्यथा कर्तुम् , अनुवर्तनीया तिलकमञ्जरी' इत्युदीर्य चतुरिकासमेता सलज्जमचलत् । मृगाङ्कलेखा तु कृतमुखस्मिता ममाकृष्य पाणि पाणिपल्लवाग्रण विष्टरान्मामचलयत् । अगच्छञ्च तिलकमञ्जरीसमीपम् ॥
३५६) सा तु प्रीतिविकसितेक्षणा निरीक्ष्य माममुक्तहस्ताग्रया मृगाङ्कलेखया 10 वारंवारमाकृष्यमाणमीषत्कृतस्मिता सयनमाबध्य विगलितोचय पुनः पुनः सिचयमासन्न
परिवारलोकोक्षिप्तमूर्तिर्मल यसुन्दरीद्वितीया द्विरदवधूमारोहत । निधाय च समासन्नमा. त्मपरिजनं मत्समीपे, पुरोभूय प्रचलिता चलितयानवाहनेन सर्वतः परिवृता मान्यविद्याधरकन्यकाजनेन स्वावासमगमत् । अहमप्यसयवेगमारुह्य विमानमस्याः स्थिरनिबद्धासनः संनिधानासीनया सदशरूपवेषाभिरामरामाजनसमेतया मुहुर्मुहुः प्रयुक्तैः प्रीतिपेशलैः परिहासवचनैः प्रतिपथं विनोद्यमानो मृगाकलेखया क्षणेनैव विजयार्धदक्षिणश्रेणिभूषणं रथनूपुरचक्रवालसंज्ञं विद्याधरराजराजधानीनगरमासनम् ॥
३५७) प्रविष्टमात्रमेव च तत्र मामितस्ततः प्रहितकौतुकोत्तानलोचनमचेतनमिवालक्षितस्पर्शमश्रुतालापमव्याहृतप्रतिवचनमालोक्य निर्मरमुदितमानसा मृगाङ्कलेखा 'कुमार!
दृष्टं नगरम् ?' इति मधुरमप्राक्षीत् । अहं तु सर्वाभिमाधिना भव्यतातिशयेन तस्यापहृत20 हृदयः सखेदमिव निःश्वस्य दीर्घमानन्दघघरया गिरा स्वैरमयदम्-'इन्दुवदने ! स्वच्छन्दया
गत्या मन्दमप्यारक्षिलोकेनानुपलक्षितैः परिभ्रम्य सर्वतो निरस्तशङ्कः प्रत्यापणं प्रतिरथ्यं प्रतिगृहं प्रतिदेवतायतनं प्रत्यारामं प्रतिनायकं प्रतिप्रमः च यन्नावलोक्यते तदपि किं दृष्टमिति शिष्टैर्यपदिश्यते ?
३५८) निशम्य चेदं सा पुनः प्रायोचत्-'कुमार ! नैतदुष्करम् । एवमपि दृश्यते ।' 25 इति ब्रुवाणा गात्रसंघट्टरणिततारक्याणमणिधण्टैश्चण्डडिण्डिभारावडमरितविपक्षवारणैः
संनिकृष्ट धृष्टाधोरणगणप्राजनप्राञ्जलीकृतप्रसः पृष्ठानुलग्नभनोत्साहकतिपयाप्तपदातिभिः स्कन्धासीनभयवि इस्तैकैकह स्तिपकैश्चिरावस्थानदुस्थदुर्गस्थमार्गस्थमार्गलोकावलोकितैः परिचिताङकुशप्रचारैरपि निरङ्कुशप्रचारैः प्रकटकुम्भकूटधारिभिरप्यनामृतघटैः प्रभिन्नकर्णकरटैरपि
विराजिश्रवणशक्षैः सुवर्गदरतकोशोपशोभितैरपि नीरदप्रतिमेालतां वहद्भिरप्यनुदिनं न 30 व्यालानां स्थितिमनुभवद्भिः सरोगैरपि निरामयाङ्गैः स्तम्भमुक्तैः सदर्पभापतद्भिश्य प्रकाम
पीवरकरैः करेणुभिदुरवतारेण निरन्तरप्रचारप्राणिशतसंकुलेनापि पञ्चजनाधिष्ठितेनाश्चाका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org