________________
२२२
कविधनपालकृता यौवनयुवराजस्य, मुकुलितां मदेन, विस्तारितां विस्मयेन, प्रेरितामभिलाषेण, विषमितां बीडया, वृष्टिमिवामृतस्य, सृष्टिमिवासौख्यस्य, प्रकृष्टान्तःप्रीतिशंसिनी वपुषि मे दृष्टिमसृजत् ॥
३५१) दृष्ट्वा च तां प्रकटिततथाभूतविभ्रमामुपलक्षितानुरागा रूपेण वयसा 5 विभवेन वेषपरिग्रहेण प्रभुतया गृहीतवाक्यत्वेन लावण्यसौभाग्यादिगुणलक्ष्म्या च लब्ध
साम्या मृगाङ्कलेखा नाम तिलकमञ्जर्याः प्रियसखी विहस्य मन्दं मलयसुन्दरीमवोचत्'भर्तृदारिके ! यत्त्वया दिष्टम् "अमृतात्मकः कुमारः” इति, तत्तथ्यमिति निश्चितं मया स्मृत्वाद्य चतुरिकावदननिगतेषु क्षरत्सु श्रवसि मन्त्राक्षरेष्विव महाभागस्यास्य नाम वर्णेषु
तू!त्तीर्णदारुणज्वरवेदनायाः प्रलयदिनकगंशुकर्कशं क्रशिमानमायान्तमेकपद एव देव्यास्त10 मन्तःसंतापम् । आकर्ण्य चेदमीषद्विहसिताक्षी दक्षिणक्षितिपतनया 'मृगाङ्कलेखे! किमत्राश्चर्यम् ?
अविचार्यमहिमा महात्मनामनुभावः' इत्युदीर्य तूष्णीकाभवत् । तिलकमञ्जरी तु किंचिदुपजातवैलक्ष्या क्षणमधोमुखीभूय विहिताकारसंवृतिरधःकृत्य साध्वसमवलम्ब्य धैर्यमपसार्य विभ्रम निरस्य मनसिजोल्लासमवधार्य दूरारूढमात्मनः प्रभुत्वमालोच्य च सतामौचित्यकारिताम
तिप्रगल्भेव तिर्यक्प्रसारितभुजलतासरलसुकुमारारुणाङ्गुलीपरिगृहीतमुदधिवेलेव विद्रुमकन्द 15 लीवलयितमुदग्रमभिनवं शङ्खमादाय ताम्बूलदायिकाकरतलादन्तःस्फुरद्भिः स्फटिकधवलैनख. मयूखनिर्गमै दिगुणीकृतान्तर्गतस्थूलकपूरशकलं स्वहस्तेन ताम्बूलमदात् ।।
३५२) दृष्ट्वा च तां कृतसमस्तोचितक्रियामक्रमोपचीयमानहर्षरोमाश्या काञ्चीविषयाधिपसुता प्रसन्नमनसं मामवोचत्-'कुमार ! कृत्स्नेऽपि विद्याधरलोक इह लब्धपताका कलासु सकलास्वपि कौशलेन वत्सा तिलकमञ्जरी । यदि च कौतुकं ततश्चित्रकर्मणि वीणादिवाये लास्यताण्डवगतेषु नाट्यप्रयोगेषु षड्जादिस्वरविभागनिर्णयेषु पुस्तकमणि द्रविडादिषु पत्रच्छेदभेदेष्वन्येषु च विदग्धजनविनोदयोग्येषु वस्तुविज्ञानेषु पृच्छैनाम् , येन युवयोः शृण्वती चतुर परस्परालापमहमपि मुहूर्तमवगच्छामि निवृतेः स्वरूपम्' । इत्यभिहितस्तया निभृतमास्थाय कंचित्कालमहमवोचम्-'काञ्चीराजतनये! अद्यापि मञ्चित्तवृत्ते
रविज्ञातत्त्वा देवी । करोमि कथमप्रस्तुतं वस्तुविचारम् १ इतरोऽपि लोकः प्रायेण न 25 भजत्याभिमुख्यम् , न समीहते सांनिध्यम् , न बहु मन्यते स्थिरावस्थानम् , नाकर्णयति
वचनम् , न प्रयच्छत्युत्तरम् , नितरामपि कृतानुवृत्तरसंजातपरिचयस्य परस्य, किं पुननिसर्गनिस्नेह ईश्वरजनः १ तद्यदि कदाचिदत्रभवती नभःप्रचारेण प्रस्थिता, दक्षिणाशाविभूषणेषु त्रिकूटमलयादिषु नगेन्द्रेषु निश्चलनिबद्धनीडगरुडपोतोद्वासितफणिषु लवणाब्धिरोधो
वनेषु दृश्यमानदर्पान्धदिग्द्विपद्वन्द्वयुद्धेषु द्वीपान्तरेषु च विष्लुत्य तेषु तेषु प्रतिनिवृत्ता, 30 श्रमेण वा दिव्यनगरीदर्शनकुतूहलेन वा शक्रावतारादितीर्थवन्दनाभिलाषेण वाऽग्रतो दृष्टि.. पथमागतामयोध्यापुरीमलंकरिष्यत्यात्मगमनेन, बाह्योद्यानविहिताश्रया च तत्र सेवाशया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org