________________
तिलकमारा
घोषः। क्षीरसागरफेनपटलानीव मथनोद्वेजितानि सकलमर्त्यलोकसरःपुण्डरीकवनानीव नाकमन्दाकिनीदर्शनोत्कण्ठितान्यशेषशरदभ्रमण्डलानीव चण्डानिलप्रहतानि तरुणपिण्डीतगरपाण्डुराण्यदृश्यन्त वेगादापतन्ति श्वेतातपत्राणि । मुखाग्रविस्फुरितफेनस्फारदशनप्रमैस्तारहषारवमिषेण विषमाश्ववाजिनां जवमिवोपहसद्भिराशामुखान्याध्यन्त । सर्वतो वियति वल्गद्भिरश्वीयैर्दिवाप्युद्गतग्रहनक्षत्रतारागणमिव व्योमाङ्गणमलक्ष्यत ब्याप्तम् । अनणुभि 5 मणिविमानैर्द्विरदमदपङ्कमलिनितेषु मार्गजलदेषु तरलानिलतरङ्गितास्तरन्त्यो विद्युत इवाद्योतन्त कदलिकाकनकवैजयन्त्यः। सान्द्रकर्पूरमृगमदामोदवाही गन्धोदकनदीप्रवाह इव पवनेरितः प्रससार दिव्यकुसुमाङ्गरागपरिमलो वाराङ्गनाजनस्य । क्षणेन च प्रशस्तहस्तश्रवणामनणुनक्षत्रमालाकलितकुम्भभ्राजिनी रजनीमिव निजप्रभान्धकारितभुवनमागां यामगजवसामारूढा प्रभालीढदशदिशारत्नाभरणकिरणोधेन सुरभिवासरारण्यवनलेखेन 10 नवपल्लवप्रकरेण निरन्तराच्छादिततनुलताप्रान्त चलितश्वेतचामरकलापा शरत्कालतटिनीव चटुलकलहंससेवितोभयतटा तमालनीलेन त्वंगता पुरः परस्परसङ्गिाना शिखण्डिपत्रातपत्रपण्डेन दूराबद्धमण्डल शाद्वलभिव व्योम्नि विस्तारयन्ती तारकाराजतनुरिवागत्य नभसा प्रतिमारूपेण सा भूम्यामवातरत् । त्यक्तयाना च देवतागारगोपुरद्वारि वारिताशेषपरिजनप्रवेशा प्रौढविद्याबलविवृद्धशौर्यावलेषाभिरुरःस्थलामुक्तमुक्ताफलखचितचाभीकरवर्मभिरनेक. 15 रत्नकिरिकामरङ्गासिपट्टप्रणयरमणीयभीषणाभिरधिकृताभिरङ्गरक्षाविधावनेकशतसंख्याभिः सर्वतो नभश्चरभटीभिर्घटितपरिवेषा विशेषचलविक्षिप्तेक्षणाभिरग्रतोऽग्रतः प्रस्तुतसमुत्सारणा मृषैव विस्तारितरोषपरुषारवाभिर्वेषधारीभिर्दूरादेव मामाबद्धलक्षेण चक्षुषा मुहुर्मुहुः सतर्षमीक्षमाणा प्रविश्य संनिधौ मलयसुन्दर्याः समुपाविशत् ॥
३५०) निषण्णां च तामासन्नसहचरीवृन्दपरिवृतां पिबन्तीयोत्सङ्गन्यन्तीव 20 गाढमाश्लिष्यन्तीव स्नेह निर्भरेण चक्षुषा सुचिरमुवीक्ष्य परिमृज्य च कराग्रेण वारंवारमसदेशे द्रविडदेशेश्वरसुता सखेदमप्राक्षीत्-'प्रियसखि ! परिक्षामपाण्डुरच्छायविग्रहा मृगा
तनुरिव दिनेनैव दुरुपलक्ष्यतां गता । कथय किं ते तागस्वास्थ्यमुपजातम् १ कथं च निर्निमित्तमेव प्रशान्तिमुपगतम् ? किं च त्यक्तसर्वान्यकरणीया प्रातरेवायतनमागता?' इत्युदीर्थ मयि निक्षिप्तलोचना लज्जावनतवदनादत्तोत्तरामेव तां पुनरवादीत्-'तिलकमञ्जरि ! - 25 विशेषदर्शितादरा क्षणमितो देहि दृष्टिम् । स एष सुगृहीतनामा भरतवर्धभूभुजो महाराजमेघवाहनस्य प्रथमसूनुरविकलचतुःषष्टिकलाश्रयतया चतुर्गुणेनाधिकः समासादितसमयकलस्य शीतरश्मेरमृतमयस्वभावः कुमारो हरिवाहनः' इति । व्याहृते तया सलीलपरिवर्तितमुखी तत्क्षणमेव सा तीक्ष्णतरलायतां बाणावलीमिव कुसुमबाणस्य, विवृत्तबालशफरस्फारसंचारो तरङ्गमालाभिव शृङ्गारजलधेः, धवलीकृतदिगन्तां ज्योत्स्नामिव लावण्य- 30 चन्द्रोदयस्थ, धैर्यध्वंसकारिणीमुल्कामिय रागहुतभुजः, संभ्रमोल्लासितैकभ्रलतामाज्ञामिव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org