SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २१० कविधनपाल कृता यथास्थूलं मूलेऽवतरति दृशामर्थनिकरो। यथासूक्ष्मं लक्ष्मी त्यजति विधुरस्तारकगणः । यथावृद्ध बन्धः कमलमुकुलानां विघटते यथानिम्नं भूम्ना रचयति पदं ध्वान्तनिचयः ॥९१।। अयं वारस्त्रीणां सुरतविधिवैजात्यपिशुन स्तिरोधत्ते काश्चिध्वनिबहलितः कण्ठनिनदः । असावप्यावृत्तिप्रसृतरवरेखाविलिखितै गलच्छिद्रनिद्रां ब्रजति रतिपारापतगणः ॥२॥ अवश्यायस्पन्दै रभसरतनिष्पन्दवपुषां विलासिद्वन्द्वानां द्रुतनिबिडिताश्लेषविधयः । दिशन्तो मौखर्य भवनवलभीजालकभुवां धुतक्रीडोद्यानदुमविततयो वान्ति मरुतः ॥९३।। प्रभातप्रायासौ रजनिररुणज्योतिररुणं ___ रुणद्धीदं रोदो दिशि दिशि तमस्ताम्यतितमाम् । प्रभाछिद्रश्चन्द्रो दलति दलगैत्री जलरुहां रहोऽनुत्साहस्य श्लथय नृप निद्रासुखरसम् ॥१४॥ ३४८) श्रुत्वा चैतदुपजातविस्मयोऽहमरुणप्रभोद्भद एवोस्थाय शयनात्किंचि दाबद्धकमलखण्डोन्मेषमीषदुपशान्तशोकसंचरत्कोकयोषान्विष्यमाणसहचरगनिललोलकल्लोल दोलायमानद्वित्रजलचरपतत्रिमिथुनमाबद्धपिण्डडिण्डीरशवलितशिलासोपानमालामूलमुपशान्त20 पङ्ककलङ्कशीतलस्वच्छनीरमदृष्टपारसरस्तीरमब्रजम् । तत्र च कृतावश्यकः स्नात्वा दत्तसंध्या: देवतार्धाञ्जलिरादाय सद्यः प्रबुद्धमधुकरोत्सृष्टविघटमानदलविकटकोशकोटराणि सनालदण्डानि भूयांसि कनकपुण्डरीकाणि नलिनीपलाशपुटसंदानिताश्च मकरन्दिनीरमरतरुसुमनसस्तदेव देवतायतनमागच्छम् । इच्छानुरूपरचितपूजश्च प्रणम्य परमया भक्त्या प्रथमजिनबिम्ब मविलम्बितगतिः कृतसमस्तप्रातरितिकृत्यायास्तत्क्षणोपलिप्तामितस्ततो रचितरुचिरस्वस्तिका25 मविरलन्यस्तपुष्पस्तबकशबलां सबालातपामायतनमण्डपाङ्गणसङ्गिनीमाश्रित्य विपुलामिन्द्रनीलोलास्तम्भवेदिकामासीनाया नातिसंनिधौ मलयसुन्दर्याः समुपाविशम् ॥ ३४९) निविष्टमात्रस्यैव मे हृष्टहदया निकटमागत्य चतुरिका नीचैरकथयत्-- 'कुमार ! त्वद्गुणश्रवणसंजातपरमप्रेमकौतुका प्रातरेवागमिष्यत्यद्य देवी तिलकमञ्जरी । तदत्रैवोपविष्टेन कल्याणमूर्तिना मुहूर्तमासितव्यम्' । इति वदन्त्यामेव तस्यां समकाल30 चलितसकलसेनापतिपदातिबलकलकलोपबृहितो विजृम्भितोत्तालवैतालिकत्रातजयजयध्वनि स्तारधीरेण वर्धितो धावतः पुरस्तादुदस्तकनकयष्टेः प्रतिहारलोकशब्देनोत्सारयन्निवोपहसन्निवाध्वन्यकालजलदवृन्दमसंख्यझल्लरीपटहशङ्खादिवाद्यवसंभेदपृथुरुदस्थित प्रस्थानतूर्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy