________________
२०८
कविधनपालकृता ३४३) इत्युक्ते तया मुक्तसाध्वसा मलयसुन्दरी सधीरमवदत्-'भद्रे ! यद्येवम्, अल्पो व्याधिः । न किंचित्कृतेनाकालगमनेन । उत्तिष्ठ । प्रहिणु चारायणम् । त्वमपि गत्वा सत्वरभिदानीमेव मद्वचसा समाश्वासय प्रकृतितरलां तिलकमजरीम् । बेहि
चैनाम्-'अदा निरवद्यशास्त्रशस्त्रविद्यापारश्वा किमपि कुशलः कलासु सकलभारतवर्षभू5 भुजो मत्पितुरपि माननीयाज्ञस्य राज्ञो मेघवाहनस्य प्रथमसू नुरवसानभूभिः समस्ताभिरामवस्तुविस्तरकथायाः कथंचिदपि दूरदेशान्तरादागतः प्रातरेव देवताधाम्नि हरिवाहनो नाम्ना कुमारो मया दृष्टः । स च निसर्गस्वच्छहृदयो मदीयवचनानुरोधेन स्थितोऽत्रैव दिवसमद्यतनम् । आनीतं च तं निजावासमनुबन्धेन परमबन्धुकल्पमुत्सुन्य युज्यते न यातुमिति चिन्तयन्ती नाहमायाता । तेन निःस्नेहतातोपो मयि न मंभावनीयः' इति ॥
३४४) गतायां च तस्यां वृतप्रस्तावा मलयसुन्दरी शैशवानुभूतानवान्तरद्वीपजातानृष्याश्रमनिवासवृत्तानन्यांश्च चिरंतनानात्मीयसुखदुःखवृत्तान्तानावेदयन्ती स्थित्वा मुचिरमुचितसमये मठाग्रपीठादवतीर्य तामेव मध्यमभूमिकामध्यभाजमात्मीयशयनशालामजत् । अहं तु शशिकान्तमण्डपिकायां पुरस्तादेव विस्तृतायतमाश्रित्य मणिशिलापट्टमारतीणमभ्यर्णनिहितकोमलकल्पपादपांशुकप्राधारमभिनवं पल्लवशयनमगमम् ।
३४५) तत्र च विशालवेदिकापृष्ठबन्धौ सुगन्धिसग्दामकल्पितोपधाने निषण्णः, शयनसंनिधानोपविष्टया निष्कृष्टरत्नोर्मिकाधिकसुखस्पर्शकरतलयुगलया प्रतिकलपरामर्शचलितचञ्चलकलाचिकाञ्चनवलयमालया मृद्यमानचरणद्वयः शनैः शनैः संवाहनकर्मचतुरया चतुरिकया, तदुपवर्णितमनुस्मृत्य तिलकमञ्जरीमन्मथोन्मादमधिकमात्मन्युपजातबहुमानो
मुहुर्मुहुश्चिन्तितवान्-'अरे हृदय ! किमर्थमद्यापि ताम्यसि १ किंच न मुश्चसि चिरंतन20 विषादम् ? उद्वह परं परितोपमधुना । यस्याश्चित्रपटगतेनापि रूपेण तादशी पुरा विकलतां
नीतमसि, यामभिलव्य विहितानेकसंकल्पेन नितान्तमल्पापि कल्पशयतायमाना शयनतलगतेन कथमपि यापिता सा त्वया संततवितीणदेहदाधा निदाघयामिनी, यत्समागमाशया प्रतिदिवसमुन्मुखेन साकेतनगरोपवनवर्तिना वीक्षितो गन्धर्वकस्थागमनमागः, यामनुस्मृत्य
स्मरशरशरख्यतां गतेनापि रक्षता प्रयत्नेन धैर्यमतियापितो नितान्तदुर्मर्पणः स वर्षासमयः, 25 यदर्शननिराशेन मुक्त्वा गृहनिवासमङ्गीकृतो दूरदेशान्तरप्रवासः, यद्विरहवेदनाविहितसौ.
हित्येन लौहित्यमृगयावने विना मृगग्रहणसंकल्पेन कल्पितः सपरिवादिनीवादनमनुदिन विनोदः, यदन्तिकं गन्तुमभिलप्यता व्यावतनसहेनापि गच्छन्नुदीची दिशमुपेक्षितः स नक्षत्रपथचारी शिबिरवारणः, यदनुरक्तेन दृष्टा सरस्तटलतावेश्मनि सापि भुवनत्रयाति
शायिरूपा “अन्या कापि राजकन्येयम्' इति परिहता निरीहेण, यां विनिश्चित्यानुमानेन 30 दूरोज्झितापि प्रतिनिवृत्य दिनमखिलमन्विष्टा क्षुत्पिपासायासितेन, या च मौनादिकाचेष्टा
स्मरणचकितेन दृष्टापि “न पराङमुखी मयि भविष्यति' इति चिन्तिता रजनिमखिला
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org