SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ तिलकमञ्जरी २०७ ____३४०) 'क्षणेन क्षीणायां विभीषिकायामकाण्डविड्वरोडुमरितेषु दूरमुड्डीथ पुनरपि स्वानि वृक्षपण्डानि संश्रितेषु विश्रान्तवासितावेशनिभृतेष्वण्डजेप्वतीतासु कियतीष्वपि कालकलासु तम्मात्तिमिरगवलालिकजलकूटकालान्तनादिव जलदवृन्दात्तडिल्लता विनिर्गत्यैलालतासदनाद्देवी तिलकमञ्जरी तरलरत्नाभरणकिरणप्रभासंभृतेन गात्रप्रभासंभारेण सकलमुदयोतयन्ती तं वनोद्देशमवनतमुखी सलज्जेव नातिनेदीयसस्तमालतरुगुल्मस्य मूले गति- 5 विलम्बमकृत । स्थित्वा च तस्यान्तरेषु मुहूर्तमुपशान्तसंततश्वासपवनोद्मा स्वेदसलिलाजधनमण्डलासक्तमादरेण निबिडीकुत्य विस्रस्तनीविनिवसनं, नियम्य चापरेण वैदग्ध्यशसिना बन्धविन्यासेन सविलासमीषद्विवृतदोर्मूलपरिणाहामा बाहुललिकाभ्याममन्दकुसुभामोदवासितवनानिलं शिथिलतामायातमलिनिकुरुम्बनील वालवल्लरीभारमविचलविधुतलोचना लताजालकान्तरेण प्रतीपमवलोकितवती । कृत्वा च क्षणेन जृम्भारम्भनिष्पतद्वाष्पबिन्दुक्लि- 10 न्नलोचनापाङ्गमङ्गभङ्ग प्रस्थिता, तदेव चकितचविता लतालयनम् । उल्हासितस्तनांशुका च वारंवारमवलोकितकुसुमजालकाऽलीकमेव कुर्वती मार्गलतासु कुसुमावचयमागता द्वारमस्य । स्थित्वा चात्र कंचित्कालमुद्विनमानसा तदासन्नवर्तिपु तरुस्तम्बेषु सत्वरा भ्रमितुमारब्धा । क्षणेन चारुह्य तुङ्ग सरस्तीरतरमेकमधिकविस्तारित क्षणा प्रतिक्षणोदश्चितमुखी दिङ्मुखानि प्रेक्षितु प्रवृत्ता' ॥ 15 ३४१) 'तां च दृष्ट्वा तथाविधामुत्पन्नविस्मया मनस्करवम्-"हन्त ! किमियमसमञ्जसन्यस्तचरणा तरुतलेऽवेकाकिनी भर्तृ दारिका परिभ्रमति १ किं वस्तु विस्मृतं किमपि काम्यं तदन्वेषयति ? किमतर्कितस्वरूपेण तेन द्विरदपतनेन दूरीकृतमात्मीयमेवालीजनं मृगयते ? यदि वा निरन्तरतपःक्षपितवपुषामृधीणामपि मुषितथैर्याणि दृश्यन्तेऽधुना हृदयहारीणि विभ्रमचेष्टितानि यान्यस्या न तानि भवनोन्मादमपहाय प्रकारान्तरेण संभवन्ति । 20 तदवश्यमखिललोकातिशायिरूपलावण्येन पुण्यपरमाणुनि भितोदारवपुषा दिव्यपुरुषेण केनापि दर्शयित्वात्मानमपसृतेन विप्रलब्धेयम्" ।' ३४२) 'इति चिन्तयामि यावत्तावदागत्य परिवृता सा परिग्रहाग्रसरेणाभिसरलोकेन । नीता च निश्चितप्रकृतिविपर्यासमीतेनानिच्छुरपि गन्तुमनवरतविहिताभ्यर्थनेन स्वस्थानम् । तत्रापि सर्वदा शयनतलगता मुमुक्षुमतिरिव मन्दमप्यनभिनन्दितदिव्यरस. 25 पानभोजना, संनिपातविद्वैद्यवाणीव प्रकृष्टतापे यनुपदिष्टशिशिरोपचारा, निदाघपरमावस्थेव सहचरीरप्यपश्यन्ती, भीरुपरिषदिव पृष्टाप्यरतिकारणमनावेदयन्ती, चित्तज्ञमपि गतप्रज्ञ इति सावज्ञमवलोकयन्ती, प्रियभाषिणेऽपि रोषमुद्रहन्ती, केवलं यस्तस्मात्सरस्तीरतटवनादागतो यस्तद्गन्ता यस्तदुत्पन्नां वार्तामकथयद् यश्च तद्गमनार्थमुद्यममकारयत्तमेव परिजन पार्श्व कुर्वती तमेवालपन्ती तस्यैव वचनमवधारयन्ती प्राक्तनमहः स्थिता' ।। 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy