________________
२०६
कविधनपाल कृता
३३६) आसीने च मयि नातिसंनिकृष्टमध्यास्य विष्टरमुत्सुकोत्सुका समागत्य चतुरिका साकूतमवदत्-'भर्तृ दारिके ! निश्चलविधृतयाप्ययानश्वारायणो नाम कञ्चुकी कतिपरापरिस्कन्दपरिवारो द्वारि तिष्ठति । ब्रूते चषः "बलस्वस्थचित्तया तिलकमञ्जर्या
प्रेषितो मलयसुन्दरीमानेतुमहम्” इति ।' निशम्य चैतदुत्पन्नसाध्वसा द्रविडराजपुत्री 5 तामपृच्छत्-'भद्रे ! विदितमस्यास्त्वया किंचिदस्वास्थ्यकारणम् ? अन्येयुरेव निरामयशरीरा मत्सकाशमागत्य गता स्वगृहमायुधमती' ।
३३७) सा प्रत्यभाषत-'भारिक ! सम्यगहमपि न जानामि । तदपि दृष्ट श्रुत चावेदयामि । अतो दिनादतिकान्त एकदिवसव्यवहितेऽहनि प्रातरेव द्विगुणतरतरुण
तरुगणं दक्षिणमदृष्टपारसरस्तीरतटवनमितोऽहमवाजिषम् । अवचितविकचकुसुमा च कृत्वा 10 देवतार्चनं यावत्त्वत्कृते कन्दफलमूलमन्वेषयन्ती कंचित्कालमतिवाहयामि, तावद्भर्तृ दारि
कापि तिलकमञ्जरी वनविहारकौतुकहता त्वदन्तिकादुत्थाय शैलप्रस्थमवलोकयन्ती करेणुकारूढा तमेवोद्देशमुपदिश्यमानसरणिरन्तर्व शिकैरागच्छत् । आसाद्य च श्क्ष्णशितसुकुमारवालुकं पुलिनमेकमवतीर्णवत्यामत्र प्रमदपरतन्त्रः समस्तोऽपि सध्रीचीजनोऽस्याः क्रीडितुम
नेकप्रकारमारभत । कोऽपि हरिचन्दन मेषु दोलामरचयत् । कश्चिद्वल्कलविवराकृष्टेन 15 कपूरकणरेणुना गात्रमच्छरयत । अन्यः कर्णपूराशया करनखाऔलवङ्गपल्लवानग्रहीत् ।
अपरः सरस्तीरविघटितशुक्तिमुक्तमुक्ताफलैतक्रियां प्रावर्तयत् । सा तु निर्भरविकसिताभिरमरतरुवल्लीपरम्पराभिः प्रलोभिता सलीलमुत्थाय चरणचारेण पुष्पावचयमकरोत्' ।।
३३८) 'परिभ्रमन्ती च तत इतो नितान्तरमणीयमाकरमिवामोदस्य, सदनमिव पुष्पसंपदाम् , आस्पदमिव मकरकेतोः, निकेतनमिव सर्वतूनाम् , उल्लासितकराकारविट20 पाभिरुपरि निपतन्तमातपमिव निरोद्धमूर्ध्वमतिहरमारूढाभिरतिमुक्तकलताभिलवली भिस्ता.
म्बूलवल्लीभिरन्याभिश्च प्रशस्तवनलताभिनिरन्तरानद्धनिबिडभित्तिभागमतिघनतया मारुतेनापि दुःखलभ्यप्रवेशमामोदतरलितैस्तरुणतापिच्छापकपिच्छभासि च्छच्छायातमसि कूजितेन व्यङ्ग चैङ्गनिकरैरक्रमाक्रम्यमाणकुसुमस्तबकमेकमेलालतामन्दिरमविक्षन्' । .
३३९) प्रविष्टमात्रायामेव तस्यामकस्मादशनिताडनत्रुटितविकटाञ्जनशैलशिखरा25 नुकारी युगान्तघनघटाघोषभीषणेन विस्तारिणा कण्ठरसितेन रोषयन्नीपदुपजातनिद्रानन्द.
विच्छेदमद्रिकन्दरामन्दिरमृगेन्द्रधृन्दमचिन्तितावाप्तगृहिणीस्वयंाहालेपविभ्रमैः सहर्षसंक्षोभममीक्षितः क्षितिधरगुहासु शबरसेनाधिपैरतर्कित एवागत्य गगनाप्रदेशात्सरस्यपतवनतमुग्यो महावारणः । तस्य चोच्छलितसलिलच्छटास्नपिततटविटपिना जनितसकलाटवीसत्त्वसंत्रासेन
विगतहेतुना वेगपतनेन तरलितो भयविहस्तः सकलोऽपि भर्तृ दारिकापार्श्ववर्ती युवतिलोकः 30 प्रपलाय्य कश्चित्तरुतलेषु कश्चिद्वततिवलयेषु कश्चिगिरिगुहान्तरालेषु तरसा न्यलीयत' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org