________________
तिलकमञ्जरी
परिणतिप्रकर्षमस्तोन्मुखो बभूव दिवसः । क्षतक्षपातमसि प्रकाशितजगन्निशान्ते शान्तिमुपगते दिवसदीपार्चिषि वृतोन्मेषशेपत्विषा तपनबिम्बेन परिगृहीता रक्तसूत्रवर्तिरिव पुरतः स्फुरितभास्वराङ्गारा वरुणदिशि गुञ्जारुणा संध्या व्यराजत । निरस्तघनरागेण तमसा बद्धमुकलाः कान्तिमुभयथापि हरितां प्रापुर ब्जिन्यः | सांध्यरागसंभेदारुणानि रविवियोगदलित रक्तारविन्दिनीहृदयरागानुरञ्जितानीव रेजुरदृष्टपारतीरोपान्तनीराणि । निम्नो- 5 न्नतविभागविश्रान्ततिमिररक्तातपच्छे नूतनद्वीपिचर्माच्छादितेव शबला शिलोच्चयक्षितिरलक्ष्यत । रणरणायमानपदचरणमालावलयित चरणानि परस्परासङ्गशङ्किना नियतियोगेन निगडितानीव दद्दशिरे कमलदीर्घिकासु चक्रनाम्नां मिथुनानि । पुरस्तादस्तभूभृतः प्रततवडवाभितापिते पतितमपरार्णवस्नेहकटाहे निरूप्य तपनतपनीयमाषकमुदीरित कलकलैर्द्विजैराकुलीकृतो जगाम श्यामतां प्रदोषः । कुसुमकोशकोडकूजञ्चञ्चरीकाणि पत्रसंकोच विरलायमान - 10 घनविटपालकानि निद्रालसनिलीननीडजाक्रान्तिलम्बलता शिखाग्राणि तनुनापि तमसा तिरोधीयन्त तमालतरुगहनानि । प्रतिप्रसूनमासीनसकलोपवनमधुकर इव निरन्तर निलीन - नीलकण्ठकलकण्ठावगुण्ठित इव चकासामास मांसली भूतकालिमा काननाभोगः । क्षणेन च कठोरतरतां कलयता कलिकालेनेव कलुषात्मना तमस्तोमेन कवलितं सकलमपि भुवनमेकवर्णमभवत् । दृष्टिविरहितेव सृष्टिरिन्द्रियाणामुद्भाव्यत । रसातलोदरगता 15 इवाज्ञायन्त ककुभः । समुद्रजलमग्नेव समदृश्यत महीं । मुरारिजठरावासित इव व्यभाव्यत समग्रोऽपि भूतग्रामः । तारकादिभिर्दिग्विभागानां पुष्पपरिमलेन विटपिनां ध्वनिना तिरश्चां चरणसंचारेण वर्त्मनां व्यज्यत विशेषः । किं च-नक्तंचरकुलानां प्रचारः, खङ्गिनामूर्ध्व चरणावस्थितिः, उलूकानां चक्षुरालोकः, चक्रनाम्नामपनिद्रत्वमद्रावभवत् । अतिभास्वरमणिप्रभोत्तम्भिताकाशमादिदेवायतनमपहाय सकलमपि विश्वमानशे 20 तिमिरराशिः ॥
२०५
३३५) एवं च विगलिते निशीथिन्याः प्रथमयामे, निखिलमपि निर्माध्य सायंतनं नियमकर्म, प्रणम्य दूरस्थमध्यादरेण गुरुजनमधिगतोदयमृगाङ्कमण्डलक्षालिततमः - पङ्कपटला मनतितुङ्गया निरन्तरसमासङ्गसंगलितसौभाग्यया सुश्लिष्टसंधानमणिशिलातलघटितया शिखरपरिपाटचा समन्ततः परिक्षिप्तपीठां मठाप्रभूमिकापृष्ठवर्तिनीमिन्दुकान्तमाणि - 25 क्यमण्डपिकामगच्छम् । तस्याश्च मणिशिलाबन्धबन्धुरेषु मन्थरपदन्यासया गत्या सविभ्रमं परिभ्रम्य पर्यन्तेषु, दृष्ट्वा च दिशि दिशि प्रदीप्तदिव्यौषधिकला पोहयोतकपिलितातुच्छकूलकच्छ मुच्छलित चन्द्रमणिकन्दरासान्द्रनिर्झरनिनादमिन्दुप्रभाप्रकाशितविभाग मे कष्टङ्ग विस्तारमुपजातहर्षोऽहमचिरनिर्वर्तितप्रदोषकृत्या मतर्किताधिगत कान्त कुशलोदन्त निर्वृता मच्छसलिलक्षालनापास्तरजसि मण्डपिकाजिरे रजतवेदिकामाश्रित्योपविष्टां मलय सुन्दरीमुपगम्यो- 30 पाविशम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org