________________
तिल कमअरी
२०३ ग्रात्मसैन्येन संग्रामः कृतस्तेन, यथा च निर्विवरशरनिपातनिर्मथितगजरथपदातिना निरस्त्रीकृत्य तेनैव निर्जितः शत्रुर्यथा च विकलीकृतेनाप्यरातिना शायितः क्षणमसौ दीर्घनिद्रया, यादृशी च सा दीर्घनिद्रानुभूता तेन, यत्र च गतेन देशान्तरगतामनुस्मृत्य भवती सुचिरमासितं विषादपरेण, यस्य च करे स्वहस्तसंचारितलिपिः स ते स्वकुशलोदन्तलेखः सविस्तरो दत्तः' इत्यादि सर्व वेभि । केवलम् “अनासन्नदेशस्थेन कथमिह 5 स्थितायास्तेन सह समागमो भावी भवत्याः” इत्येतदेवाविज्ञातमास्ते' । इत्यभिहिता तेन सा युगपदुत्तीर्णदुःखभारलघुशरीरा समुत्पत्य सुरलोकमिव गता परां निवृत्तिं प्रापत् । अभिमतसमागमोत्सुकायाश्च तस्याः सर्वदा दूरीकृतः शनैः शनैरागत्य लब्धावसर इव समीपमुपससर्पः कन्दर्पः । समागतानङ्गदर्शनागतेन्दुसंक्रमितचन्द्रिकेव द्विगुणमुल्ललास लावण्यछाया । कान्ति चन्द्रिकावतारभीतातपपरामृष्टमिव हृष्टलोचनपत्रमभवद्वदनशतपत्रम् । 10 अञ्जनरजोरागमिव निधित्सुरक्षालथत्तरङ्गायतापाङ्गमक्षियुगलम् । आनन्दबाष्पस्तनावरणवल्कलमिव त्याजयितुमुदगच्छदच्छिन्नसंततिः समन्ततः प्रकीर्णकनकचूर्णाभिरामो रोमभेदः । प्रथमसंगमप्रथितसाध्वसानीव समकम्पन्त संततस्वेदानि सर्वाङ्गानि । प्रस्तुतप्रहर्षसंवरणा च सा तत्क्षणान्तःप्रविष्टरतिचरणनूपुररणितसभिन्नेव गद्गदेन स्वरेण स्वैरमगदत'कुमार! किं तेन तव समागमप्रकारेण विज्ञातेन ? तिष्ठतु स तावत् । सुचिरमनु.. 15 भूतानि मया तजनितानि फलानि । अनेनैव निखिलजनमानसावासदुर्ललितस्य मकरकेतो. रिवास्य त्वत्प्रसादादवगतेन पुनरुज्जीवनेन रतिरिव कृतार्थामुपजाता । समासादित समस्तमभिमतम् । आस्तां दूर एवासौ। सुचिरमुपभुङ्क्तामतिप्राज्यानि जीवलोकसुखानि । अहं पुनरिहैव कथमपि पुण्ययोगादासादिते दिव्यभूभृति कृतव्रतनियमोपवासा तरुत्वग्वसनधारिणी कन्दफलमूलाशना त्रिकालमर्चयन्ती देवमेवमेवातिवाहयिष्यामि जन्म । 20 गता मे स्वविषया सर्वापि चिन्ता । केवलमिदं क्षिणोति चेतः, स ते निरन्तरप्रसादललितः कदाचिदप्यदृष्टविरहः शिबिरवर्ती प्रणयिलोकः क्षणमात्रपरिचितस्य वनपाषाणपरुषमनसो मादशस्यापि निसर्गनिःस्नेहस्य वनवासिवर्गस्य परमप्रीतिदायिना त्वदीयदर्शनेन सहसैव दूरीकृतः कां दशामनुभविष्यति ? कथं च त्वदेकावलम्बनः स ते गुरुजनः क्रमेणाकर्ण्य कष्टामिमां दुष्टवारणापहारवार्तामातहृदयोऽपि विघटमानं सुकुमारमात्म- 25 हृदयं धारयिष्यति ?' ॥ .
३३०) इति भाषिणी विहस्य सावज्ञमिव तां प्रत्यवोचम्- मलयसुन्दरि ! सुदरमपि विपण्णेन धीमता तदेव चिन्स्य वन्तु यदुपायसाध्यम् । अनेन तु नितान्तनिष्फलारम्भेण चिरमपि ध्यातेन केवलं क्लेश एव हृदयस्य' । सा व्याहरत्--'कुमार ! किमशक्यमस्य ? लेखप्रदानसाध्यमेतत्ते प्रयोजनम् । अहमपि यावदव्यवस्यामि । किं तु 3) विधिवशादवसरेऽत्र पक्षिमात्रोऽपि निकटे नास्ति कश्चिन्नभश्चरो यस्त्वदीयवृत्तान्तमावेदयेत् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org