________________
कविधनपाल कृता
क्षुधा च क्षीणसामर्थ्य तीर्थवन्दनार्थमागतमतिथिलोक शाकफलमूलादिभिः सादरमुपचरन्ती, तदुपनीतशेषेण वन्यान्नेन विरलविरलमात्मदेहं वर्तयन्ती, निशासु च स्थण्डिलनिषण्णा परिगता परमवैराग्येण प्रदीप्तमिव सर्वतो दुःखदहनैर्जीवलोकमालोकयन्ती विगलितानुबन्धा बन्धुजनदर्शने, जातविद्वेषा विषयसुखोपभोगे, भग्नाभिलाषा जीवितव्ये, व्यपेत स्पृहा 5 सुहृत्संप्रयोगे, विप्रयोगावसानतां संयोगानामवश्यमनुभाव्यतामनुभवनीयानामशक्यप्रतीकारतां कर्मशक्तेर्दुःखदानव्यसनितां स्नेहस्य निःसारतां संसारस्य विरसितां विलासानामनिमित्तभङ्गुरतां भागधेयानामविधेयतां विधेर्विचित्रतां कालपरिणतेरशरणतां प्राणिसार्थस्य पुण्यभागितामसङ्गानां धन्यतां धर्मनिरतामन्तरान्तरा भावयन्ती, क्षपयामि सांप्रतमनघलोकिता कृतान्तेन कालमिति निजवृत्तान्तमावेद्य तूणीकाऽभवत् ॥ [ इति तापसकन्यारूपायाः मलयसुन्दर्याः वृत्तान्तः । ]
३२९) अहं तु तेनानत्रसानोद्वेगकारिणा चरितेन तस्यास्तुपारानिलेनेव नलिनाकरः परं ग्लानिमगमम् । अकरवं च चेतसि - 'अहो निरवधिप्रचारो विधिः । नास्त्यगोचरः पुराकृतकर्मणाम् । अशक्यप्रतीकाश कृतान्तशक्तिः । अव्याहता गतिः सर्वत्र भवितव्यतायाः, येन भुवनत्रयख्यात भूपतिकुलोद्भवानामसदृशानुभाव शुभलक्षणाश्रिष्टव
२०२
10
15 पुषामनुसृतनीतिमार्गाणामुपशमादिगुणजुपामीदृशानामप्याकृतिविशेषाणामेवंविधान्यापतन्ति व्यसनानि' इति । कृतविमर्शः स्थित्वा क्षणमवोचम् - 'मलयसुन्दरि । किमर्थमपगतसकलदोषानुसङ्गमेवमेवात्मानमवसादयसि १ मा विषीद । मा खेदमुद्वह । मा कृतान्तमाक्रोश | मा कर्मणां देहि दोषम् । इह हि संसारसद्मनि समासादितावतारः स्वभावविमलोऽपि जन्तुरे कचैव जन्मनि दशावशेन दीपाकुर इवानेकानि रूपान्तराण्यनुभवति । तथा हि20 विपुलेश्वरकुलोत्पन्नोऽपि नाप्नोति निरपायानि विषयास्वाद सौख्यानि । असंख्यपरिवारोऽपि क्षणेनैकाकितां याति । निःप्रत्याशतां गतोऽपि सर्वलोकातिगमकस्माद्वस्तु लभते । लब्धाभिमतलाभोऽपि झगिति वियुज्यते तेन । जाताप्रतिविधेयविरहोऽपि भूयः समागच्छति तेनाभिवाञ्छितेन संबंधम् । अनिरामयशरीरोऽपि मरणावहां विपदमासादयति । लब्ध्वापि परमामकल्पतां कल्याणपरम्परामधिगच्छति । तदेतदमृतविषभूतं वस्तुरूपमधिगम्य कस्माद्वि25 पादिनी भवसि १ कथय दिव्येषु वा मानुषेषु वा यस्यैकयैवावस्थया व्यतीतः कालः, यश्चातिपुण्यवानपि प्रागनुभूय सौख्यानि पश्चान्न दुःख प्राप्तः । सर्वथा धैर्य । धारय परममन्तः परितोषम् । अन्तमुपगतः संप्रति प्रतिकूलचारी विषमयः स ते विषमदशाविपाकः । सिद्धा शून्यसिद्धायतनसेवा । समाप्तिमुपगतमाप्तोषदिष्ट' मन्त्रजपकर्म । फलोन्मुखीभूतो विरसवनफलाहारः । स्फुरितमाजन्मपरिपालितेन पतिव्रताव्रतेन । तिष्ठति 30 स ते दीर्घायुरघटितक्लेशो जीवितेशः । पृच्छ प्रथमदर्शनात्परेण वृत्तां मामेव तद्वार्ताम् ।
"यथा दक्षिणसमुद्रान्तरद्वीपे दिव्यजिनगृहप्राकार शिखरस्थिता नाव्यवस्थितस्य दृष्टिपथमागता यथा काञ्चीनगरवासितेन निर्गत्य नृपगृहोपवनमध्यादर्धरात्रसमये सज्जितसम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org