SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ १९९ mmar Annanoramannary तिलकमारी पूर्वपरिचयप्रकाशनपुरःसरेण च समाश्लेषेण कृतसमाश्वासा परां निवृतिमगच्छम् । आदरव्यापारितमतिश्च 'क्व दृष्टा मया ? क्व दृष्टा मयेयम् १" इति चिन्तयन्ती चित्रलेखेयमिति तां परिज्ञातवती ॥ ३१५) अत्रान्तरे पूरितवनान्तरालो नातिदूरे ससंभ्रमोल्लासितकनकदण्डोड्डामरकराणामग्रतः प्रधावन्तीनां वेत्रधारीणामुच्चचार मिश्रीभूतः श्रवणहारिणा चारणवधू. 5 जनजयव्याहारेण दूरनिर्यारी समुत्सारणध्वनिः ॥ ३१६) अथातिमन्थरच्छन्नगतिसूचितविलासमन्दपदविन्यासा, विधूयमानधवलचामरा, सविभ्रमोल्लासितभुजलताभिरुभयतो वारललनाभिरनादरसदानितदराश्यानस्नानाकेशपाशा, क्वचिदप्यमुक्तश्रिया विजित्य वदनारविन्देन बन्दीकृतमिन्दुमिव चन्दनतिलकबिन्दुमलकिना ललाटफलकेनोद्वहन्ती, धृतासिफलकाभिः परिवृता समन्ततः साधितमहा- 10 प्रभावविद्याविवृद्धपौरुषावलेपाभिरनेकशतसंख्याभिरङ्गरक्षाधिकारनियुक्ताभिरङ्गनाभिः, आसन्नचारिणा समारब्धसेवोचितचटुक्रियेण मुहुर्मार्गवर्तिनीर्वनलता विवर्तयता मुहुःश्वासपरिमलाकृष्टमलिपटलमुत्सारयता मुहुः कपोलतललुलितमवतंसपल्लवमुल्लासयता मुहुनूपुरस्वनानुसारिणः सरःकलहंसकानुत्त्रासयता मुहुर्लग्नमवनीरजश्चरणयोरुत्तरीयाञ्चलेन प्रणुदता खेचरेन्द्रनारीजनेनानुगम्यमाना, तीरस्थितं तत्प्रासादरत्नमवलोकयितुमुत्तरात् 15 सरस्तीरपुलिनादखिलदक्षिणश्रेणीपते विद्याधरचक्रवर्तिनश्चक्रसेनस्य महिषी पत्रलेखाभिधाना पादचारेण तत्रैवागच्छत् ॥ ३१७) ऊर्ध्वस्थितैव च सा विलोक्य तदग्रतोभूताभिः 'इदं सुन्दरम्, इदं सुन्दरम् , इह दीयतां दृष्टिः, इह दीयतां दृष्टिः' इति ससंभ्रमाभिः प्रकाश्यमानविभाग प्रधानसहचरीभिरतिचिरमुत्पन्नविस्मया परिजनमपृच्छत्–'अपि नाम ज्ञायते कस्येदम् ?' 20 इति । अथ समीपस्थिता सकलकोशागारसंरक्षणाधिकारनियुक्ता मुक्तावली नाम पालिका व्याहरत्—'देवि, तत्त्वतो न ज्ञायते । युक्त्या तु निश्चितमिदम् । यस्य मार्गणाय पूर्वद्युरितः सुवेलपर्वतं गतो गन्धर्वकः, तदेव तेनेदं हारिचन्दनं विमानमानीतम् , यतोऽत्र यद्वस्त्रयुगलमाभरणं च भर्तृदारिकया गच्छतस्तस्य प्रसादीकृतं तदिदमविकलमास्ते'। इत्युदीर्य तूष्णीकाभवत् । सा तु तन्निपुणमवलोक्य प्रत्यभिज्ञाय, सशोकेव निश्चललोचना 25 स्थित्वा मुहूर्तमवनतमुखी सखेदमवदत्-भद्रे, यथाह भवती तथैव सर्वम् । केवलमिदं न ज्ञायते, स गन्धर्वको वराकः कामवस्थां प्राप्तः' । इत्यभिदधाना चित्रलेखायाः संनिधावभवत् ॥ ३१८) सकौतुकानुरागमर्पितेक्षणा च मयि, स्थित्वा मुहूर्तमीषद्विवर्तितमुखी 'सखि ! केयमत्र भवती ? क्व वा जातपरिचया भवत्या ?” इति नीचैस्तामपृच्छत् । सा तु 30 पृष्टमात्रैव तया समुत्सृष्टदीर्घनिश्वासा प्रवर्तमानमनवरतमक्ष्णोरभीक्ष्णमुत्तरीयाञ्चलेन प्रणुदती Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy