________________
कविधनपालकता गमाय कथमपि कृतप्रश्नायाः प्रीतिपिशुनितानि ते नितान्तमल्पाक्षराणि लज्जाजल्पितानि, मृतस्यापि मे न स्मृतेरपयास्यन्ति । किं करोमि ? दूरदेशान्तरस्थितिस्त्वन्मुखावलोकनसुखप्रतिबन्धिनी जाता । चेतसा तु सर्वदा समीपेऽहम् । अत्रैव गाढकण्ठग्रहपुरःसर बन्धुसुंदरी विज्ञाप्यते ।
श्रुत्वात्यद्भुतमस्मदाजिललितं वैतालिकेभ्यः प्रगे
प्रीतात्काश्चिनराधिपात्तव सखीं प्राप्यादरप्रार्थिताम् । वोढास्मीति मनोरथः स्थगयतो वाच्यं तदा योऽभव
नाधन्यस्य जितेऽपि विद्विषि स मे देवेन संपादितः ॥८७॥ तथापि देव्याः शरीरे दृढमप्रमत्तया भवितव्यम्' इति । स च लेखः सलिललव10 प्रलुप्ताक्षरतया स्थानस्थानेषु दुर्विबोधिभावार्थोऽपि भावितः सर्वोऽपि । उत्पत्तिस्थानं तु सर्वादरव्यापृतदृशापि न मयाभ्यूहितं तस्य ॥
३१३) ततोऽहं दुःखभागिनी तस्य लेखस्य दर्शनेन पुनरुपजातजीविताभिलाषा, 'जीवति प्रियो मम' इति सानन्दा, 'स्मरति पूर्वमनुभूतानां मत्समागमसुखानाम्' इति
साश्रुपाता, 'प्रनष्टजीवितानां दुर्घट पुनः प्राणनम्' इति निराशा, 'ह्यस्तनतिथिन्यासला. 15 छिता लेखोत्पत्तिः' इति सविस्मया, 'मत्खलीकरणाय माया न कस्यापि केली किल
स्येयम्' इति सवितर्का, 'स्वयमजातानुभवस्य दुरभिलेखा वचनपद्धतिरसौ' इति सावष्टम्भा, 'दुर्लभः पुनरीदृशे पुण्यसरसि शरीरत्यागः' इति मरणोन्मुखी, 'महती प्रियस्य मत्प्राणपरिरक्षणविधौ बन्धुसुन्दरी प्रति प्रार्थना' इति सविलम्बा, इत्यनेकविकल्पकवलित
मनोवृत्तिरात्मनः कर्तव्यमालोचयन्ती तिष्ठामि यावत् , तावदनिलोल्लासिताभिः कल्लोल20 ततिभिस्ताड्यमानं तीरमगमज्जवेन तदारुभवनम् । ततोऽहमवतीर्य तस्मादत्र दिव्ये सरसि
विहितस्नाना कृताभिमतदेवतार्चनक्रिया तटासन्नवर्तिनस्तरोरेकस्य मूलमाश्रित्य चिन्ता. निःसहशरीरा समुपाविशम् ॥
३१४) अत्रान्तरे चतुरोदारवेषा यहच्छया सरस्तटलताषण्डेषु कुसुमान्यवचिस्वती देवतार्चननिमित्तमागता तमुद्देशमेका द्वित्रपरिचारिकापरिवारा स्तोकपरिणतप्रौढयौवना 25 योषित् । ऊर्ध्वस्थितैव च सा समुपजातप्रत्यभिज्ञेव निश्चलतारकेण चक्षुषा सुचिरमवलोक्य
मामुद्धरस्वरेण ध्वनिना ससंभ्रमा समभाषत-'वत्से मलयसुन्दरि ! कुतस्त्वम् ? कथमेकाकिनी पतिता शून्यायामिहाटव्याम् ? केनेयमीदृशी तव संपादितावस्था १ हा ! हताऽसौ येन दुर्मेघसा तान्यपनीय चिरंतनानि सिचयरत्नानि कल्पतरुलतायामिव सर्पकचु
कशल्कानि वल्कलान्यमूनि तव तनौ समारोपितानि । उत्तिष्ठ पुत्रि ! परिष्वजस्व क्षणमात्र 30 जातमित्रभावं जनमिमम्' इति ब्रुवाणैव सा स्वयमुत्थाप्य मामशिथिलव्यापारितभुजद्वया
कण्ठे गृहीतवती । अहं तु तत्कालदुर्लभेन प्रकटितान्तःप्रीतिना तस्यास्तेन वचनविन्यासेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org