________________
तिलकमञ्जरी विस्मया च 'कस्येदं दारुभवनम् , केन वाहमिह निक्षिप्ता ?' इति चिन्तयन्ती मुहूर्तमतिष्ठम् । अवलोकयितुकामा च तन्निवासिनं जनमुत्थाय शयनादासन्नदृष्टेन सोपानसंक्रमेण चकितचकितोपरितनी भूमिमध्यरोहम् । तत्राप्यदृष्टमानुषप्रचारा गवाक्षमधिरुह्याग्रतो दत्तचक्षुरद्राक्षमस्यैव रसातलगम्भीरवारेरदृष्टपाराख्यस्य दिव्यसरसः क्षीरसागरस्येव मन्दरमुदरभागे मन्दिरम् ॥
३११) तत्प्लवमानमवलोक्य चोपजातविस्म या मनस्यकरवम्-'हन्त, कः प्रदेश एषः ? न तदिह तपोवनम् । न तन्निवासी तापसजनः । न सा गवलशिखिगल. श्यामलया मलयगिरिमूलवनमालया समन्ततो मालिता लवणजलराशिवेला । न तत्र स्थिताहम् । न सा मत्पार्श्ववर्तिनी तरङ्गलेखा । सर्वमिदमन्यत् । न विज्ञायते किमिति । अथवा ज्ञातमेव । तथा तथोपजनितैः पुरा मे मानसैः शारीरैश्च दुःखनिवहैरजातपरि- 10 तोषो विधिरेष विविधं विजृम्भते । न जाने कियन्मयाद्यापि दुष्कृतस्य फलमुपभोतव्यम्, केषु देशान्तरेषु गन्तव्यम् , कान्यवस्थान्तराण्यनुभवितव्यानि, किं कालावधिबन्धुजनवियोगो विसोढव्यः । मरणमपि पापकारिण्या न संपद्यते । तथा हि-पूरितसप्तपातालमुदधिजलमपि नड्वलं जातम् । प्राणनाशाय निबिडमाहितः कण्ठदेशे पाशोऽपि पुष्पमाला संवृत्ता । नितान्त कटुकिंपाकफलरसोऽपि रसायनत्वेन परिणतः । कृतमतिक्रान्तवस्तुचिन्तया। 15 यावदिह स्थिता दैत्यस्य वा यातुधानस्य वान्यस्य वा कस्यापि दुष्टात्मनो दृष्टिगोचरे न पतामि, तावदिह तीराश्रमनिवासिमुनिपरम्परास्नानपुण्यीकृतपयसि दिव्ये महासरसि शरीरमुत्सृजामि, येन जन्मान्तरेऽपीदृशस्य प्रियवियोगदुःखस्य भाजनं न भवामि' इति । कृतमरणनिश्चया तेनाञ्चलगलज्जलबिन्दुना दिव्यांशुकपटेन स्तनतटावरणाय गात्रिकां बद्धमारब्धवती ॥
20 ३१२) दृष्टवती च तस्यैकदेशे दृढतरग्रन्थिसंयतमतिपृथुलताडीपत्रसंचारितसुरेखाक्षरं लेखमेकम् । उदकभिन्नं च तं सयत्नमुद्वेष्टय कौतुकेन स्वैरं स्वैरमवधारितवती
-'स्वस्ति । महाराजाधिराजचन्द्रकेतुचरणारविन्दमधुकरो युवराजसमरकेतुः काञ्च्यां सकलदक्षिणक्षोणिपालशिखरमहाराजकुसुमशेखरवंशकुमुदाकरशशिकलां मलयसुन्दरी सप्रेमबहुमानमात्मीयदेहारोग्यवार्तया सुखयति । स्मरामि तस्यातिचारुचन्द्रोद्गतेरमृतोत्पत्तिदिवस- 25 स्येव परमानन्दहेतोरनङ्गोत्सवदिनप्रदोषस्य, यत्र गाढविरहदुःखातमानसेन मया जन्मान्तरेऽप्यसंभावितपुनदर्शना, कृशोदरि ! विनैव यत्नमवलोकितासि । कृतार्थ मे करतलद्वन्द्वम् , येन मन्द मन्दमारब्धसंवाहनेन लब्धः स्वेच्छया तुलिततापाहतशिरीषकुसुमशेखरसौकुमार्यो, विलासिनि ! विपाशितायास्तवाङ्गसंस्पर्शः । तत् तत्कालनिर्जन नरेन्द्रभवनोद्यानम् , सा कृत्तकरिदन्ताव दाता प्रदोषपन्द्रिका, स सूक्ष्मसितसुकुमारवालुकः कुमुदीर्घिकातीरभागः, सा 30 त्वदासनपरिग्रहगुरुकृते कमलिनीपलाशशयनैकदेशे स्थितिः, तानि च ममाम्भोधिनिर्गमाव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org