________________
कविधनपालकृता ३०९) अत्रान्तरे त्वरागमनगाढजाताङ्गग्लानिरन्विष्य तत इतः परागमत्तरङ्गलेखा तमुद्देशम् । आगत्य चान्त्यन्तमापूरिता कोपेन, भूत्वा पुरो निरस्तदाक्षिण्यमितरामिवातिरू:रक्षरैर्मामवादीत्-'दुर्विनीते ! क्वागता त्वमिह ? किं तवागमनकार्यमत्रोप
जातम् ? कस्तवास्मिन्नास्ते ? केन ते दुर्मतिरिय दत्ता १ ह्रीतापि न तपस्विलोकस्य निर्वि5 वेकवनचरप्रचारदूषिते सागरोपकण्ठकच्छेऽस्मिन्नेकाकिनी यदृच्छया भ्रमन्ती उत्सादिता
सगोत्रपुत्रपरिवारा, वैरिणि ! त्वयाहम् । यदि तवापतन्त्याः पथि कथंचित्क्रूरसत्त्वाद्युपद्रवसमुत्थः कोऽप्यनर्थो महानापतिष्यत् , तदा वाहमगमिष्यम् ? किमन्वभविष्यम् १ केषु तीर्थेषु पापोपलिप्तमात्मानमक्षालयिष्यम् १ किमहं पापकारिणी त्वया सहायाता ? किं करोमि ? क्व गच्छामि ? कस्य कथयामि ? केनोपायेन चापलमिदं ते निवर्तयामि ? दत्तावधानया. प्यधन्यया निष्पतन्ती तपोवनान्नोपलक्षिता । कथमिदानी प्रमादोपहतमात्मानमृषिजनस्य दर्शयिष्यामि ? कथं च कुलपति कुपितमनुनेष्यामि ? किं मुधा निधाय जानुनोरुपरि मूर्धानमवनतमुखी तिष्ठसि ? उत्तिष्ठ । गच्छाश्रमम् । दृष्टा शीलवति, ते शालीनता' । इति ब्रुवाणा कराग्रेण बाहुमूले मामग्रहीत् । उत्थाप्य च कथंचिदतिमहता प्रयासेन प्रचलिता,
नीत्वा पदानि त्रिचतुराणि, विगतचेतनामिवासमञ्जसक्षिप्तचरणां चिरेण मामुत्पन्ननिर्वेदा 15 पुनरेकत्र वृक्षमूले न्यवेशयत् । अभाषत च विषवेदनाविषण्णां मुहुर्मुहुरुच्चस्वनेन 'मलय
सुन्दरि ! मलयसुन्दरि ! किमेवमुत्सृष्टसौष्ठवा तिष्ठसि ? किं च वारंवारमालापितापि मे वाचं न प्रयच्छसि १ अपि न कुपिता त्वम् ? वत्से ! परित्यक्तनिजनिवासे चिरप्रवासोपतापितमनसि रौद्रवनवासकष्टप्रनष्टदेहवर्णलावण्ये त्वन्मुखालोचनजनितसुखमात्राधलम्बि
तजीविते दीनहशि परिजने मादृशि किं करोषि रोषम् १ किमहिताहं ते ? किमन्योऽस्ति 20 कश्चिन्मम तव स्थाने ? किं द्वेषेण निष्ठुरं त्वां तर्जयामि ? किं प्रातिकूल्येन विचरन्ती.
मितस्तो निवारयामि १ प्रस्थानसमये सबहुमानमाहूय त्वदीयपित्रा वारंवारमभ्यर्थिताहम् - "एषा मलयसुन्दरी निमेषमपि न त्वयोपेक्षितव्या, रक्षितव्या च सर्वोपद्रवेभ्यः शरीरमिव मदीयमत्यादरेण ।" तेनैष मे प्रयत्नः । अन्यथा किमहमेवं त्वां नियन्त्रयामि ?' इति तस्याः श्रवणदुःखदायिनः खेदप्रलापाननिच्छतीव श्रावयितुमपजहार चेतनां मे मूर्छा ।।
३१०) ततोऽह कियत्यापि वेलया नष्टनिःशेषविषवेगनिद्रा मनसि मुक्ता वपुषि कवलितातिबलवता जाड्येन कण्टकितसर्वाङ्गलेखा, 'तरङ्गलेखे ! किमित्यकाण्डे कमण्डलुजलेन मां सिञ्चसि ? स्वस्थचित्ताहमधुना ; दूरमुपसृतो मे संतापः' ; इति गद्गदाक्षर गदन्ती चक्षुरुदमीलयम् । अपश्यं च दिव्यदारवप्रासादकाभ्यन्तरस्थमाचन्दनप्रवालकल्पि
तोपधाने मृणालकन्दलिनि नलिनीपत्रसंस्तरे निषण्णं यथावस्थितसरलसर्वावयवमुत्तानशय30 मतिशयमृदुस्पर्शन पृथुना श्वासहार्येण पट्टांशुकप्रावरणेन चरणावधिप्रच्छादितमच्छशिशिरेण
निपतता समन्ततस्तन्तुजालविवरैर्वारिपूरेणोपरिष्टादवष्टभ्यमानमेकाकिनमात्मानम् । उत्पन्न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org