________________
पिलकमारी
इति विचिन्त्य, चेलाञ्चलप्रमृष्टप्रबलरोदनोच्छूननयना स्नेहनिर्गताश्रुसलिलक्लिन्नदृष्टिभिरागत्यागत्य परिचयात्पुरोद्भवन्तीभिरवगताभिप्रायभिरिव निरुद्धयमानमार्गा वनमृगीभिः, प्रस्थिता पदानि कतिचित् , पृष्ठतः पारावारपुलिने यथोत्तर विस्तरन्तमपरस्परानुलग्नमच्छिन्नसंतानमनितलताडितानामन्तरान्तरा दलन्तीनां शुक्तिकानामारवेणानुसृतमनतिमसृणं वालुकारणितमशृणवम् ।।
5 ३०६) श्रुत्वा चोपजातकम्पा 'कष्टम् आगतः कोऽप्यनुपदी', इति चिन्तयन्ती, वेगवलितकण्ठनाला पृष्ठतो व्यलोकयम् । अपश्यं च नातिदूरे दूरदोलायमानबाहुयुगलां, क्लमविशृङ्खलपदक्षेपचटुलेन गतिमिव त्वरयितुमजस्रमायतिमता केशपाशेन पृष्ठे ताडयमानाम् , अवसस्तनिवसनग्रन्थिसंवरणविहस्तवामहस्ताम् , असक्तमुत्सर्पता दक्षिणकरेण श्रमश्वासवलगत्कुचयुगास्फालितं गलितमुत्तरीयवल्कलप्रान्तमंसदेशे निवेशयन्ताम् , आसन्न- 10 मणिशिलानिपतितप्रतिच्छायाछलेनात्मदेहमपि गतिविलम्बविद्वेषेण स्थाने स्थान इव निक्षिपन्तीम् , यथादर्शनमनुप्रस्थितेन संभ्रमस्खलितगतिना तापसीजनेन दूरविच्छिन्नेनानुगम्यमानमार्गाम् , प्रेमदोषादुत्प्रेक्षिताया मत्तषः प्रशमनाय गृहीतस्वादुसलिलपूरितकमण्डलुम् , आपतन्तीम् , आकुलाकुला तरङ्गलेखाम् ॥
३०७) उत्पन्नवैलक्ष्या च तदवेक्षणेन, 'कष्टम्, न संपन्नमिष्टम् ; अविनीत- 15 तायाश्च नीतः पात्रतामात्मा; किं करोमि ? आगतेयमन्तिके; न शक्यत इदानीमुदन्वत्पयसि पुण्येऽस्मिन्नपुण्योपहतमुज्झितु हतशरीरकमेतत्'; इति चिन्तयित्वा क्षणं दिक्षु निहितोद्विग्नदृष्टिः, झटिति संनिधावेव दृष्टस्य स्वभावाकृष्टकज्जलकूटकालिम्नः कालकूटविषराशेरिव मथनसंनिहितशिपिविष्टकवलितावशिष्टस्य विटपहारदूरावर्जितप्रान्तस्य निरन्तरतया पर्णसंहतीनामर्ककिरणैरपि मरणभीतैरिव परिहृताभ्यन्तरप्रवेशस्य मारुतापूर्णितनिखिलशाखा- 20 निवहमात्मानमपि सर्वाङ्गव्यापिना निजविषेण विह्वलीकृतमिव प्रकाशयतश्चञ्चुपुटनिविष्टचर्चितावशिष्टफलशकलैरितस्ततो मृतैश्च मूच्छितैश्च स्पन्दमानैश्च श्वसद्भिश्च निश्चेतनैर्वनशकुन्तैर्निरन्तराक्रान्तमूलदेशावकाशस्य किंपाकनाम्नो विद्रुमस्य, हृद्यस्पर्शगन्धवर्णमतिशयस्वादुरसपरिपाकं विपाकदारुणतया विषयसौख्यमिव मूर्तिमत्तया परिणतमादाय पाणिना दक्षिणेन क्षीणपुण्या फलमेकमभ्यवहृतवती ॥
३०८) भुक्तमात्र एव च तत्र शिथिलीभूतसकलपूर्वावस्थमस्वस्थतामगान्मे गात्रम् । कीलितेव कालायसकण्टकेन मन्दमपि नास्पन्दत जिह्वा । स्थगितमिव पटलेन लक्ष्यग्रहणदक्षताममुचच्चक्षुः । पिहितपुटमिव पटाञ्चलेन स्पष्टमाजिघ्रन्न गन्धं घ्राणम् । आघ्रातमिव संनिपातेन दीर्घमपि घोषमसकलविशेष नादित श्रोत्रम् । एवं च विकलीभूतसकलेन्द्रिया समुत्थितप्रबलकम्पा सर्वदेहावयवेषु मुषितनयनोन्मेषेण मूर्च्छता प्रतिक्षणमवच्छाद्यमान- 30 विज्ञाना निद्रागमेन क्षणमपि स्थातुमूर्ध्वमपारयन्ती तस्यैव विटपिनस्तले शिलातलमेकमाश्रित्य निःसहविमुक्तदेहा समुपाविशम् ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org