________________
कविघमपालहता
पलब्धसंज्ञा च सत्वरमुत्थाय, "किमतः परं श्रोतव्यम् १" इति चिन्तयित्वाषधीरिततदारब्ध. वार्तापरिसमाप्तिर्निर्गता तपोधनात् ॥
३०४) गता चातिमात्रविरलतापसप्रचारं वेलातटम् , अवलोक्य च पुरस्तादतिचिरादृष्टमिष्टमिव बान्धवमम्बुराशिं शतमुखीभूतदुःखदाहा, निदाघसरिदिव प्रथमजलधरासारवारि5 वरणबन्धेन महतापि प्रयत्नेन हेलागतं बाष्पवेगमपारयन्ती धारयितुम् ,उन्मुक्तातितारकरुणपूत्कारा; 'हा प्रसन्नमुख! हा सुरेखसर्वाकार ! हा रूपकन्दर्प! हा लावण्यलवणार्णव ! हा लोकलोचनसुधावर्ष ! हा महाहवप्राप्तपौरुषप्रकर्ष ! हा कीर्तिकुलनिकेतन ! किमेकपद एव निस्नेहतां गतः १ किं न पश्यसि मामस्थान एव निर्वासितां पित्रा, विवर्जितां मात्रा,
परिहृतां परिजनेन, अवधीरितां बन्धुभिः १ एकाकिनीमदृष्टप्रवासां वनवासदुःखमनुभवन्तीम्, 10 किमागत्य नाथ ! नाश्वासयसि ? कदा त्वमीदृशो जातः १ कश्च संप्रत्यवेक्षितो मत्पक्षपाती.
यदाशया माध्यस्थमवलम्ब्य स्थितम् ? किमत्र मद्दुःखदुःखिताऽऽस्ते बन्धुसुन्दरी, या समा. गत्य मत्कृते पुनरपि करिष्यति तव प्रार्थनाम् ? कथय किमर्थमेकपद एवाहमप्रिया जाता ? किं कृतं मया ते विप्रियम् , येन सकृदपि नालपसि ? यदि च निसर्गनिष्ठुरस्तत्किमा
गत्य पाशोपद्रवादक्षिताहम् ? किं तदैव नोपेक्षिता जीवितमुत्सृजन्ती ? सांप्रत दर्शयित्वा 15 ममात्मानमावेद्य निःसामान्यमनुरागमपसृतो दर्शनपथात् । आकाप्यकल्याणभागिनी
तवाद्यापि न प्रत्येमि शत्रुसंपादितां विपदम् । अव्यापन्नविग्रह जीवन्तमिव केनापि हेतुना भवन्तमुत्पश्यामि । यद्यपि सुराङ्गनासङ्गमस्पृहः पापकारिणीमपहाय मां दिव्यलोकमुपगतः, तथाप्येकवारमागत्य तेनैव प्राक्तनेन रूपेण दर्शयात्मानम् । अनवलोकित
त्वदामना मर्तुमपि हताशा न शक्नोमि । निष्करुण “कीर्तिः प्रिया ते, नाहं, न चान्यः 20 कश्चिद्" इति किं न जानामि ? "युक्तकारी महासत्त्वः स्वार्थविमुखश्च भवान् ”, इति च
किं न वेनि १ तथाप्यनेकपापात्मना तमोरूपेण प्रेमनाम्ना महाग्रहेण गृहीता, "हस्तगोघरगतोऽपि दैवहतया न प्राप्तः पतिस्त्वम्”, इति चिन्तयन्ती शोकपरवशा निरपं विलपामि । सर्वथा कृतार्थस्त्वम् । उन्नामितस्त्वयैकेन सू नुना सिंहलेन्द्रवंशः । तवैकस्य जगति निःकलङ्क
यशः । त्वमेकः सकलभूपालराजपुत्रेषु ग्राह्यनामा । मरणमपि तवैव श्लाध्यमेकस्य, 25 येनैकाकिना तत्कालमेव निर्गत्य शिबिरादसोढपरिभवेनासंख्यसेनापरिघृढपरीतः प्रापितः
परामवनतिमरातिः । अनेन पुनरुचितकारित्वेन कृतविप्रियोऽपि नितरां प्रियोऽसि मे, यत्तदा बन्धुसुन्दरीवचनेन युतोऽपि न प्रयुक्तस्त्वयास्मदपहारः। केवलमिद' बाधते, यदुपवर्णितं तया मत्प्रदानोदन्तमाकर्ण्य तूष्णीमेव निर्गच्छता नृपोद्यानादीषदपि नाभाषिताहम्';
इत्यादि विविधं व्यलपम् ॥ 30 ३०५) अल्पीभूतशोकोद्रेका च, 'सुचिराक्रन्दितेनात्र दयितयानपात्रिकासंपर्क
सुभगे सागराम्भसि विसृज्य निर्वापयामि तीव्रदुःखानलशिखाजालकवलितानिमान्प्राणान्'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org