________________
तिलकमारी
३०१) 'तथा' इत्यभिनन्दितालापया चोत्थाय तत्कालमेवाम्बया कृताखिलगमनमङ्गल्या, 'कष्टमाभाषितो नाभीष्टजनः' इति मनः सशल्यमुद्वहन्ती, बाष्पसलिलप्लुतेक्षणा प्रणम्य पितरमन्तःपुरान्निरगच्छम् । अपसारितच्छत्रचामराडम्बरा च निभृतपदमपक्रम्य पक्षद्वारकेणाग्रतो नातिदूरे सिन्दूरितकुम्भभागामुत्तमाङ्गनिहितसितकुसुमदामदूर्वाक्षतामभीक्ष्णचलिततीक्ष्णाङ्कुशमुखेन प्राङ्मुखीकृत्य धारितामाधोरणेन, दृष्टसकलशिष्टलो- 5 काचारया मम शरीरपरिचरणाय चापलनिवारणाय च प्रतिशिष्टया तातेन बलवदभीष्टया तरङ्गलेखाख्ययाम्बाया बालसख्या समागत्य प्रथममेवाध्यासितशारिकोटरैककोणां, करेणुकामध्यरोहम् । आत्तशस्त्रकतिपयान्तर्वशिकपदातिपरिवृता च तत्कालविनिवृत्तपौरप्रचारसुखसंचारनरपतिपथां क्रमेण नगरी निशीथिनीं चालङ्घयम् ॥
३०२) व्रजन्ती च वर्त्मनि प्रतिदिवसमविलम्बितेः प्रयाणकैरल्पेनैव कालेन 10 तत्तपोवनमासादितवती । तत्र चाद्यदिवस एव विसर्जितसहायातभृत्यलोका, विमुक्तहारनूपुरादिनिःशेषभूषणकलापा, मङ्गलमात्रमेकैकमणिवलयशेष वेषमुद्वहन्ती, प्रतिदिवसमाविष्कृताधिकाधिकवात्सल्येन तातबहुमानात्तापसजनेन सादर दृश्यमाना, मुनिकुमारिकावृन्दपरिवृता, कदाचित्कुलपतिसमादेशादतिथिवर्गमुपचरन्ती, कदाचिद्देवतार्चनकुसुमान्याहरन्ती, कदाचित्पत्रपुटकाहृतः प्रस्रवणवारिभिर्बालवृक्षकानुक्षन्ती, कदाचिदुटजाजि- 15 रोपान्तजातानां वनलतानामालवालानि विरचयन्ती, कदाचिदचिरोपलिप्तासु पर्णशालाङ्गणवितर्दिकासु दर्शितानेकललितपत्रलेखान्स्वस्तिकानभिलिखन्ती, कदाचित्प्रनष्टजननींदुग्धदुर्बलान्बालहरिणकान्बाष्पलव्यः शष्पकवलैः संवर्धयन्ती, निषिद्धचापलेन प्रियालापिना मत्कृते प्रकृतिसरसस्वादुपाकाः शाककन्दलीः सप्रपञ्च पचता प्रत्यहमपरापराणि परिणतिमुखानि शाखिनां फलानि प्रयच्छता स्वशयनीयसंनिधावतिस्पर्शवद्भिवल्कलांशुकैस्तल्प- 20 मुपकल्पयता यथावसरमभिनवाभिनवानि पौराणिकाख्यानकानि कथयता स्थविरतापसीसमूहेन विस्मारितसकलबन्धुविरहदुःखा, केवलेनैव तस्य क्षणमात्रोपलब्धसंगमस्य प्रेयसो जनस्य पुनरदर्शनेन दुःखिता, कंचित्कालमनयम् ।।
३०३) एकदा तु याममात्र वासरे समासन्नपर्णशालावस्थिताहमेकाकिनी केनचित्काञ्चिविषयादागतेन द्विजातिना कुलपतेरावेद्यमानं तदीयवृत्तान्तमशृणवम्-यथा किल 25 स मदनत्रयोदशीप्रदोषे प्रगुणितात्मपृतनावीरवर्गो विनिर्गत्य काळच्याः कृतमहासंगरः पराङ्मुखीभूतसकलसैन्यनायकेन सायकोन्मथितसारथिच्छत्रकेतुना निरस्त्रीकृतेन शत्रुणा न ज्ञायते कथंचित्समस्तैरेव सहचारिभिः सह नरेन्द्रीगेव दीर्घनिद्रायां शायितः । श्रुतिविवरमवतीर्णमात्रेणेव चानेन तस्य पापात्मनो वचनालापेन कालकूटविषकणिकलापेनेव विह्वलीकृतशरीरा दुःखभरनिरुद्धमन्तःकरणमात्मनो नियन्तुमपारयन्ती नष्टचेतना प्रेमोपदिष्टां 30 तदीयचेष्टामिव यथाश्रुतामनुचिकीर्षुरहमपि दीर्घकालं मूर्छामयीं निद्रामगच्छम् । कथंचिदु
२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org