________________
१९२
कविधनपालकृता __ २९८) आहूतोपढौकितां च तेनास्थानविहितात्मषधसाहसत्रपाविलक्षविक्षिप्ते. क्षणाम् 'प्रभाते विपक्षाय दीयमानः कथमात्मा मया रक्षितव्यः' इत्यनेकोपायचिन्ताचान्तसकललावण्यविच्छायमुच्छन्नचैतन्यमिव शरीरमुद्वहन्तीमवलोक्य माम् , उत्पन्नकरुणस्तातः ‘एह्येहि पुत्रि ! परिष्वजस्व मां नृशंसम्' इत्यभिदधानो बाष्पायमानदृष्टिः गृहीत्वा 5 भुजाभ्यामङ्कदेशे मामुपावेशयत् । वारं वारमुत्सृष्टदीर्घनिश्वासश्च स्मृत्वा स्मृत्वा मदीयमुद्धन्धनदुःखमधिकमात्मनश्चेष्टितेनान्वतप्यत । विसर्गेऽयमुक्तमत्संनिधेः स्निग्धता बुद्धिमत्तां च बन्धुसुन्दर्या मुहुर्मुहुः प्राशंसत् । पाशच्छेदविहितास्मत्प्राणरक्षे सिंहलेन्द्रसूनौ परां बन्धुबुद्धिमाबध्नात् । तथाविधेऽप्युपद्रवे देवादजातमरणां पुनर्जातेति माममन्यत ॥
२९९) भूयो मरणसंभावनया हृदय इव निक्षेप्तुकामरतत्कालमधिकमुल्लसितेन 10 बलवतापत्यस्नेहेन मोहितो मुहुर्मुहुर्गाढमस्वजत । व्यसृजच्च शनकैः सान्तरनुतापमा.
लापम्-'वत्से मलयसुन्दरि ! क्षमस्व मे स्खलितमेतत्, यदपरिज्ञाय हृदयभाव भवत्याः सहसैव त्वमस्माभिरस्मै शत्रुसामन्ताय दातुमध्यवसितासि । किं करोमि १ न केनापि पूर्वमावेदितो ममैष त्वदपहारवृत्तान्तः । जाने जनन्यापि ते संप्रत्ययमवगतः । अन्यथा,
तत्प्रदानसमये पृष्टयास्माभिः किमिति यथावस्थितमेव स्वरूपं नावेदित मे १ तदलमुद्वेगेन । 15 स्वस्थचित्तास्स्व । न त्वामिदानी प्राणविच्छेदेऽप्यमुष्मै संप्रयच्छामि । केवलं कंचित्काल
मनुभवितव्यो भवत्या प्रवासजनितः क्लेशायासः । सोढव्यमधिकमूढचित्तया सुहृद्धन्धुजनविप्रयोगदुःखम् । एष वज्रायुधः सिद्धादेशदैवज्ञवचनप्रत्ययेन सकलखेचरचक्रवर्त्यमात्यपदसंप्राप्तिकामः किमपि बद्धाग्रहः करग्रहविधौ वरणाय ते प्रातरेव प्रहेष्यति प्रधान
पुरुषान् । प्रतिपन्ना च भवती प्रत्यक्षदर्शना, अतिदुष्करा निषेद्धुमेषाम् । आसन्नवर्तिनि 20 च यत्र क्वापि नगरे वा, जनपदे वा तवावस्थानमहितस्य सर्वतो विहितचारसंचारस्याध्यक्षमेव । तदुत्तिष्ठ वत्से ! विधेहि प्रस्थानमधुनैव दूरदेशान्तरगमनाय' इति ।
३००) उक्तवन्तं च तातं माता मे पुनरवोचत्-'देव ! यद्यसौ दूरे गमयितव्या, तद्वरं तत्रैव पत्रलस्निग्धपादपे दक्षिणा ब्धिजलतरङ्गास्फालवाचालदेवार्चनशिलावेदिके
मलयमेखलामूलवासिनि प्रशान्तवैराख्ये वैखानसाश्रमपदे गच्छतु, यत्रार्यपुत्रेण सह मे 25 प्रथमदर्शनं संवृत्तम् । तत्र हि,
प्रातः प्रातरवेक्ष्य होमहुतभुग्धूम्यामहादुर्दिन
हृष्टस्याश्रमबहिणस्य रसितैरायामिभित्रासिताः । नीचैरेत्य समाधिनिश्चलतनोर्मध्ये जटामण्डल
यस्याबाधितबद्धनीडचटकाश्चक्रुः स्थिति भोगिनः ॥८६।। 30 तस्य भगवतो जगत्रयख्याततपसः त्रिकालगोचरज्ञानवसतेः सकलदुःखितप्राणिवत्सलस्य
कुलपतेस्तातशान्तातपस्य पादमूले स्थिता, न मे दुःखमुत्पादयति, सुखेन च दिनानि मत्प्रख्यवृद्धतापसीवृन्दपरिपालिता प्रेरयति' ॥
Education intentional
For Private & Personal Use Only
www.jainelibrary.org