________________
तिलकमलरी
२९४) आरोप्य च शयनचित्रशालिकायामविलम्बितगतिस्तत्कालमेव गत्वा सर्वमपि विद्याधरापहरणादिचित्रशालिकाधिरोहणपर्यन्तमम्बाया यथावस्थित मदीयवृत्तान्तमकथयत् ॥
२९५) असावपि तम् , आकर्ण्य संभ्रान्तहृदया, विस्मयप्रमदसाध्वसादिभावशबलित' शोकमुद्वहन्ती, समुपसृत्य सविधवर्तिन द्वितीयशयनमधिशयानस्य मत्पितुः, अनुच्चो- 5 चारिताक्षरा, श्रवसि समचारयत् ॥
२९६) पितापि मे तदुपकर्णनेन सद्य एवोपजातवैवर्ण्यः स्थित्वा मुहूर्तमवनत मुखः सखेदमदत्-'देवि ! पश्य दुरात्मनो देवस्य गतिम् । एषा मलयसुन्दरी मन्त्रिमतमनुवर्तमानेन तवापि वचनमप्रमाणीकृत्य वनायुधाय विग्रहोपशान्त्यर्थ मया दातुमिष्टा । निर्दिष्टं च तत्प्रेषितप्रधानपुरुषाणां प्रभाते संप्रदानलग्नम् । अन्तरा चायमन्तरायः 10 संवृत्तः । यदि तावदवधीनमवधार्य च प्रबलवैरिवृन्दावस्कन्दपीडितानां प्रजानां क्षेमलाभमनपेक्षितापत्यप्रीतिरेनाममुष्मै प्रयच्छामि, ततो नियतमेषा जात्यैव पुरुषद्वेषिणी पुरुषान्त. रेऽवरूढगाढानुरागा शस्त्रेण वा विषेण वा वृक्षशाखोद्वन्धनेन वा प्रायोपवेशनकर्मणा वा जीवित मुञ्चति । अस्यां च पञ्चत्वमुपगतायामाकल्पमयशो दुष्कृत च मे नोपारमति । अथ न प्रयच्छामि, ततोऽधुनैव संधानमानीतो विशिख इव विघटते विपक्षः । विलक्षी- 15 भूतश्च महतीमप्रतिष्ठामुपकण्ठवर्तिषु नृपेषु प्रख्यापयति । एव स्थिते कर्तव्यमूढं मे हृदयमिदमपेक्षते तवोपदेशम् । आदिश यदत्र सांप्रतं करणीयम् ।' अम्बा तु मनसा गृहीत. क्षणापि मत्प्रदानपक्षनिराकरणे, 'पूर्वमादृतं न मे वाक्यममुना' इति किंचिदुपजातरोषेव विरतवाक्प्रवृत्तिः, स्थित्वा क्षणमधोमुखी मध्यस्थमेव वचनं व्याहरत्-'देव ! काहमुपदेशदाने ? किं वाभ्यधिकमन्यद्विज्ञापयिष्यामि ? द्वावपि व्यञ्जितौ देवेन पक्षौ । य एवात्मने 20 रोचते, य एव बहुगुणः प्रतिभाति, स एवाश्रीयते' इति ॥
२९७) इत्युक्तेऽम्बया पिता मे पुनरवोचत्-'देवि ! ममेष तावत्संकल्पः । एष वनायुधः प्रदानेन वत्साया न संप्रति स्वीकतु नाप्यदानेन निराकर्तुमुचितः । केवलमिद करणीयम् । अस्यामेव शर्वर्यामनुपलक्षिता जनेनेयमाप्तकतिपयलोकपरिवृता देशान्तरे दवीयसि विसर्यते । प्रजासु च "आयुष्मती स्मरायतनजागरणसमुत्थया झटित्येव तीव्रया 5 शूलव्यथया विसंस्थुलीकृतशरीरा संस्थिता" इति प्रकाश्यते । तत्र हि कृते जनापवादः परिरक्षितः, विपक्षश्च न विरूक्षितो भवति । अनुपलक्षितावस्थितौ चास्याम् , उत्थिते सर्वत्रैवाभावप्रवादे दीर्घविग्रहजनितनिर्वेदोऽयमपरकन्याप्रदानेन वा देशैकदेशविश्राणनेन वा कतिपयगजाश्वापवर्जनेन वातिनिपुणमुपपादितेन पणबन्धेन संधौ स्थापयिष्यते'। इत्युदी र्य कृतपार्शवलोकनो नातिदूरे निषण्णमाहूयैकमाह्वानाय मे वर्षधरमादिक्षत् ॥
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org