________________
5
कविधनपालकृता स्कन्धशाखानिबद्धमस्या महाराजदुहितुः कन्धरापाशम् , मा विधेहि तावदन्यं व्याक्षेपम् , आवेदयिष्यामि सर्वमेतद्यदि मे मनोरथाः संपत्स्यन्ते'; इति संभ्रान्तहृदया गदन्ती गद्गदस्वरेण श्वासविधुराधरा प्राकारशिखरादवतीर्य सत्वरा मध्ये तरूणामधावत् । अहमपि तथाविधाकूतदर्शनेन क्षिप्रतरमुत्क्षिप्तपादः पदान्यनुसरन्नस्यास्त्वत्समीपमागच्छम्' ।।
[ इति समरकेतुवृत्तान्तशेषः । ] २९१) इति निवेद्य निजवृत्तान्तमुपशान्तवचसि तस्मिन् , सविस्मया बन्धुसुन्दरी क्षणमिव स्थित्वान्तरिक्षमैक्षत । बभाषे च किंचित्क्षुभितहृदया-'कुमार! कस्मान्निराकुलस्तिष्ठिसि ? उत्तिष्ठ यावदक्षीणभूयिष्ठा रात्रिः । अन्वेष्टारश्च यावदिह नापतन्ति तावदेनां प्रापय प्रच्छन्नामेव निज देशम् । अति हि विरुद्धमत्रावस्थानमस्याः। शृगु । निवेदयामि । यतः करग्रहणवार्ताश्रवणभीतयाध्यवसितमेतदुद्बन्धनविधानेन मरणमेतया, तस्यैव शत्रुसेनापतेर्वघ्रायुधस्य प्रदास्यति प्रातरेनामतिनिबिडविग्रह निपीडितो द्रविडदेशाधिपतिः । उपनीता च संधित्सुना तेन दुनिषेधाविरोधहेतुश्च । नीता तु देशान्तरमिदानीमेव, शत्रो. रपहृता भवति, सुखेन चातिवाहयति कालम् । कालान्तरे च सकलवरगुणोपेतेन निा
जसुहृदा महाराजतनयेन गत्वा त्वया गृहीतपाणिः क्रमाधिगतवृत्तान्तस्य पितुरपि परां 15 प्रीतिमावति । तदेवमत्र क्षणे निर्जनादितो वृक्षगहनादपहरणमस्या गुणवदतिमात्रमा भाति मे । तथापि त्वं प्रमाणम् ॥'
२९२) सोऽपि तच्छत्वा कृतविमर्शः–'सूतवादिनि ! युक्तवादिनि ! युक्तमभिहितम् । किं तु दुष्करभिद मादृशानाम् । अहं हि वारंवारमभ्यर्थितेन प्रतिपद्य
मित्रतां शत्रुगृहीतस्य राज्ञस्तावकस्य साहायकाय पित्रा समादिष्टः । तेनास्य सर्वथा 20 सराष्ट्रस्य सपशोः सपुत्रद्वारस्य रक्षाविधौ मया व्यापृतव्यम् । यदा तु छलेन रात्रा
वुपेत्य प्राणभूतामस्य दुहितरमपहरामि, तदा तदपकारकृत्येषु नित्यमेव निषण्णबुद्धेर्वघ्रायुधस्य मम च न व्यतिरिच्यते किंचित् । किं च हृत्वा गत इमामनवगीतचरितस्य तस्यापि पितुरात्मीयस्य दर्शयिष्यामि कथमात्मानम् ? आस्तां च तावत्स मे तातः ।
इयमप्युचितकारिणी त्वदीया सहचरी विवाहसमये ‘पश्य वरमुखम्" इति व्यापारिता 25 प्रियसखीभिः कथमानन्दनिर्भरा मे वदनमवलोकयिष्यति । तदलमनेन कर्मणा । मा
त्वरख । स क्रमः कोऽपि चिन्तनीयो येन दातुमेतामुद्यतः काञ्चीविषयाधिपोऽपि निषिध्यते । विरोधोऽपि सार्धममुना न वर्धते । इयमपि प्रीतिकारिणी पितुर्भवति ।' इत्यभिधाय, नीत्वा च कन्यान्तःपुरप्रवेशं यावदावाम् , अदृष्टमुखविकारः प्रकृतयैव गत्या स्वशिबिरं प्रति प्रस्थितः ॥
२९३) प्रस्थिते च तत्र, क्षणमात्रदत्तान्तरेणोत्पाद्य परम शैत्यमुपनीततीव्रतरदाहव्यथेन विषमज्वरेणेव पुनरपि प्राक्तनेन विरहदुःखेनाध्यासितामादाय मां, बन्धुसुन्दरी कन्यान्तःपुरमगच्छत् ॥
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org