________________
१८४
कविधनपालकता त्वदीयदर्शनं समर्थयमानः प्रहर्षनिर्भरः स्थित्वा मुहूर्तमीपत्कृतस्मितस्तारकमवोचम्'सखे, तातलेखार्थेन स्थापितास्तावद्वयं त्वदीयवचसि । उत्तिष्ठ । काञ्चीगमनसज्जो भव' । इत्यभिधाय तत्रैव क्षणे प्रयाणघोषणापटहमदापयम् । उच्चलितसकलनौदण्डश्च प्रत्यहम
खण्डितैः प्रयाणैर्लङ्घयित्वा लवणजलनिधिं जनपदांश्च कतिचित्क्रमेण काश्चीमागमम् । 5 आकर्णितमदागमनवातोपजातप्रीतिना च त्वत्पित्रा प्रत्युद्गम्य दूरमुपदर्शितादरेण प्रवेशितः शुचावेकत्र सावकाशे प्रदेशे स्कन्धावारमामुचम् ॥
२८६) तत्र च त्वदुपलम्भाशया दिङ्मुखख्यातरूपसंपदा राजकन्यानां विद्धरूपाण्यादरप्रवर्तितश्चित्र ऋद्धिरभिलिख्याभिलिख्योपनीतान्यजसमवलोकयतः कथानिबद्धं
यथावृत्तमात्मीयमुदधिवृत्तान्तमखिलसामन्तान्तःपुरेषु चिरंतनाख्यानकव्यपदेशेन स्व10 प्रयुक्ताभिः कथकपुरंधिभिः प्रकाशयतः प्रधानदेवतायतनेषु नरपतिप्रासादशिखरेषु नगर.
पालोद्यानेषु प्रेक्षाजनसमाजेषु मज्जनायातपौरवनितासमाकुलेषु च स्रवन्तीपुलिनेषु द्विधापि संचारिततारकस्य मे गताः कतिपयेऽपि दिवसाः ।।
२८७) अद्य तु प्रातरेव प्रासादतलगतोऽहं शिबिरासन्नवर्तिना रथ्यामार्गेण ब्रजन्तमुज्जवलविचित्रवस्त्रधारिणमनेकविच्छित्तिविरचितप्रसाधनमनघरत्नाभरणभूषिताङ्गमनणु15 माणिक्यखण्डखचितपणेषु वाजिषु वारणेषु गतिकम्परणित किंकिणीकलापेषु याप्ययानेषु
चाधिरूढमङ्गनासमूहमवलोक्य जातकुतूहलस्तारकमच्छम्-'भद्र ! जानासि क्वायं जनसमूहः प्रस्थितः' ? स मामवादीत्-'युवराज, ज्ञातमेवैतत् । अस्ति रम्यतानिरस्तनन्दनवनवैभवमितो नातिदूरे नरेन्द्रभवनोपवनसंसक्तमतिशयस्निग्धसुकुमारद्रुमं कुसुमाकरा
भिधानं काननम् । तत्र निजसौभाग्यखर्वितसमस्तान्तःपुरपुर न्ध्रिगर्वया गन्धर्वदत्ताख्यया 20 महादेव्या कारिते देवस्य मकरकेतोरायतने प्रवृत्ताद्य चैत्री यात्रा । तां द्रष्टुमुच्चलित
एष पौरयोषिजनः । न चायमेतावानेव । अन्योऽपि नगरनारीजनो राजलोकश्चानेकसहस्रसंख्यस्तत्र यास्यति । कुमारस्यापि यदि नरेन्द्रानुवृत्त्या यदि भक्त्या यदि लोकमार्गानुसरणेन यद्यन्यदेशयात्रास्थितिविलोकनकुतूहलेन युज्यते गन्तुम् , प्रस्तुतस्यापि प्रयोजनस्य सिद्धावयमेवावसरः । यद्यत्रापि शैथिल्यं तदा कोऽन्यः प्रक्रमो भविष्यति, यत्र तदर्शन 25 भावि ?' अहं तु 'युक्तमयमाह' इति मनसाभिनन्दिततदीयवचनस्तत्क्षणमेवोत्थाय कृत
मज्जनो गृहीतरुचिरवेषः समारोपितवर्यकनकपर्याणां करेणुकामधिरुह्य कृपाणकुन्तपाणिना तरुणवण्ठप्रायेण पदातिलोकेन परिमितेनैवानुगम्यमानो मनोभवायतनमिदमभ्यागमम् । अवतीर्य च कृतप्रवेशः प्रणम्य दूरस्थित एव मन्मथम् , उन्मथ्यमानहृदयस्त्वदर्शनोत्कण्ठया द्वारदेशाभ्यासगतमन्यतममुत्तमं मत्तवारणकमध्यासितवान् ।
२८८) तत्र च समासन्नचारिणा परिचारकेण तूर्णमुपनीतायामलघुतरविस्तारायां नेत्रविस्तारिकायामुपविष्टः प्रत्येकमनुरागशून्येनापि चेतसा निष्पतन्तमापतन्तं च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org