________________
तिलकमञ्जरी
१८७
'केन वयमुदधिमध्यादुद्धृताः, कथं चेयमस्माभिरचिन्तितैव नौरिह प्राप्ता' इति तारकेण सह चिन्तयन्नन्तर्विस्मितो यावत्तिष्ठामि तावदागत्य रात्रावदर्शनादनुभूततीत्रशोकेन परिवृतो राजलोकेन नीतश्च वीतगमनाभिलाषोऽपि प्रीतमनसा निवासम् ॥
२८३) तत्र चादत्तदर्शनः प्रधानलोकस्य शिथिलकृतसकलपृथ्वीव्यापारः सर्वकालमेकान्तवर्ती प्रवर्तिताविरतशीतोपचारः परिचारकजनेन 'न जाने सा बराकी गता 5 कामवस्थाम् ?' इति त्वां चिन्तयन्निमेषमध्यनुपजातनिद्रो निशाः कतिचिद्नयम् | एकदा तु प्रातरेव द्रष्टुमुपागतस्तदवस्थमवलोक्य तारकः सखेदं मामवादीत् - 'कुमार ! निष्पल्लवानि चन्दनदुमवनानि संजातानि । निःशेषितमृणाला नालशेषाः सरसीषु नलिनाकरा वर्तन्ते । कियन्तं कालमिह पर्वते कुर्वद्भिरफलं देहदाहप्रतीकारमुत्सृष्टपुरुषकारैरा सितव्यम् ? किं न चिन्त्यते कोऽपि तदवाप्त्युपायः ? किं च काञ्चीनगरगमनाय गृह्यतेऽद्यापि नोद्यमः ? 10 किं विस्मृत ं तद्युवराजस्य यत्तदा समुद्रोदरे नौस्तवछद्मना त्वदर्थे कृतप्रार्थनस्य विज्ञाय मे भावमभिमुखार्पितस्मेरनयनया “भद्र, किमहं न शृणोमि येन भूयो भूयस्तमेवार्थ - मावर्तयसि ? सर्वमवधारितं ते वचनम् । अङ्गीकृतश्चायं नायकः । किं तु तिष्ठतु तावद्यावदहमिहस्था स्वस्थानमुपगता का श्री मध्यमागत ग्रहीष्याम्येनम् ” इति यदुक्तं तया ?” इत्यभिहिते तेन किंचिदुच्छ् सितचेताः पुनरवोचम् — 'तारक ! स्मरामि सर्वम् । किं तु संदिग्धमेतत् । किं तया भवन्तमुद्दिश्य गदितम्, आहोस्वित् "आयें ! संप्रत्येव नृत्यन्त्यास्तवातिरभसेन सारसनमध्यसद्मा समुच्छलित एष पद्मरागः; तद्गृहाणैनम् ” इति पुनः पुनर्भाषमाणं तमेव पुष्पपटलकन्धरं देवलकदारकम् इति न शक्यते निर्णे । अथ तद्दर्शनोपायमपरमप्रेक्षमाणैः 'अर्थसंशये प्रवृत्तिरप्रतिषिद्धा' इति मत्वा गम्यते तत्र तदपि दुष्करमेकाकिनः । त्वदध्यासितां नावमेकामधिरुह्य प्रस्थितस्य मे सकल एव प्रतिपन्थी 20 परिग्रहजनः । सैन्यसहितस्य च परमण्डले गमनमतिविरुद्धमप्रसाधकं च प्रारब्धकार्यस्य ॥
15
"
२८४) इति व्याहरन्तमुपसृत्य वेत्रधारी मामवोचत् - 'कुमार, देवस्य चन्द्रकेतोरन्तिकादागतो लेखहारकः प्रतिहारभूमौ तिष्ठति' । 'प्रवेशय' इत्यभिहिता च सा शीघ्रमेव त प्रावीविशत् । कृतप्रणामं च सादरस्तमद्राक्षम् । अपृच्छं च- 'भद्र ! कुशली तातः'? इति । अथासौ 'यथाज्ञापयसि' इत्यभिधाय भूयः कृतप्रणामः पुरस्ताल्ले- 25 मक्षिपत् ॥
२८५) तत्र च ' शत्रुचलपीडितेन द्रविडमण्डलाधिपतिना कुसुम शेख रेण दूतमुखेन कृत्वा सख्यमुपयाचिताः स्मः । प्रतिज्ञात प्रतिश्रुतं च तस्मै तदस्माभिः । प्रेषितश्च तत्सैन्यसाहायकाय कियानपि रथाश्ववारणप्रायो दण्डः । संत्यक्ताशेषकार्येण कल्याणभागिना स्वसैन्यपरिगतेन गत्वा सत्वरमधिष्ठातव्यम्' इत्यतिक्रान्तवार्ताप्रकाशन- 30 पुरःसर पितुरादेशमभिलिखितमीक्षितवान् । उच्छ्वसितहृदयश्च तदवधारणेन सिद्धमेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org