________________
nanandan
कविधनपाल कता मात्मीयमनया" इति मन्यमानेन, पुण्यभागिना तथा प्रयतितव्य, यथा भूयोऽपि नेयं दुःखभागिनी भवति' इत्यभिधाय विहिताश्रुपाता तस्य पादयोन्यपतत् ।।
__ २७९) सोऽपि तां तथा पादपतितामवलोक्य करुणया शुचा च युगपद्. गृहीतचेताः सखेदमवदत्-'बन्धुसुन्दरि ! पृथग्जनोऽपि न वृथाभ्यर्थनः कृतो मया, किं 5 पुनः प्राणपरिरक्षणममुष्याः कृतं यया ताम् ? सद्य एवाद्य विहितोपकारां करोमि भवतीम् ।
अन्तरेणापि ते वचनमधधृत मया सर्वम् । अस्ति चाभ्युपगमः । तथापि विधिरत्र प्रमाणम्' । इत्याभिधाय तूष्णीमभूत् ।।।
२८०) ततोऽहमुपजातसमधिकधृतिः, तत्रोन्निद्रकाननद्रुमोपगूढे दूरारूढशशधराशुधोरणिध्वस्ततमसि रसितानुमितसितपतत्रिमिथुने कुमुददीर्घिकातीरसैकते कुसुमशय10 नीयोपविष्टा, समीपविनिविष्टेन मन्मुखासक्तगाढानुरक्तदृष्टिना दयितेन चतुरचटुनिवेश
पेशलैः परिहासवचनैर्विनोद्यमाना, विनिहिताङ्गयष्टिरुत्सङ्गदेशे बन्धुसुन्दर्याः, कदाचिदप्राप्तपूर्वमतिशयितगीर्वाणसदनावासमुदममन्दमानन्दमनुभवन्ती, निशीथमनयम् ॥
२८१) क्रमाधिरूढविश्रम्मा च तमहं कृतप्रश्नाया बन्धुसुन्दर्याः स्वदिग्विजयवृत्तान्तमावेदयन्तमुदधिवार्ताव्यतिकरे लब्धावसरमनुयुक्तवती-'आर्यपुत्र ! तत्कालसंभृतमद्यापि नोपरमति मे भयम् । अतः पृच्छामि । तस्मिन्नवसरे ततः पातालसदृशादम्बुराशेः केन त्वमवतारितस्तीरः ?' इत्युक्तो मया कृतस्मितः सब्रीडमवदत्-'द्रविडराजतनये ! त्वदीयवदनेन्दुदर्शनगृहीतोद्यमेन केनाप्यदृष्टेन' इति । तमहमब्रवं पुनः-'आर्यपुत्र ! सत्यमेवास्मद्विधजनाभ्युदयकाङ्खिणा पूर्वजन्मार्जितेन शुभकर्मणादृष्टेनोद्धृतस्त्वम् , तथापि परमार्थतः कथय । विस्मयो मे ॥'
२८२) स पुनरवदत्-चन्द्रमुखि ! परमार्थोऽप्यसावेव । शृणु निवेदयामि सागरप्रवेशात्प्रभृति यन्मे वृत्तम् । तदा तिरोभूतदर्शनायां त्वयि तीव्रविरहदुःखासहिष्णुतया निपतितोऽहमर्णवपयसि नूतनाम्भोधरनिनादधीराम् ; 'अहो नृपकुमार ! किमपि कमनीयदर्शनायास्तवाकृतेरतिविसदृशोऽयं व्यवहारः, कथय, किंनिमित्तमनिमित्त एवात्मानमुत्सृजता
संविधवर्ती कैवर्तजनोऽयमर्णवावर्तमकराणाममीषामामिषत्वेन त्वया प्रकल्पितो वराकः ? 25 इदं चाकस्मादनुस्मरणमात्रेणापि प्रशमिताशेषजन्तुदुरितमखिलविश्वत्रितयविश्रुतमहिम्ना महा
वीरजिनवरप्रतिमया प्रसाधितस्य सिद्धायतनस्य मैच्या पवित्रितं तीर्थमन्यतीर्थिकपरिगृहीतैरनेकसत्त्वप्रलयहेतुभिः प्रपाततीर्थैः समीकृतम् ? इति वाचमाकस्मिकीमशृणवम् । 'क एष मामुपालभते ?' इति चिन्तयन्नेवोन्मीलितलोचनो न किंचिदन्तिकस्थमीक्षितवान् ।
केवल तथैवात्मना समाक्रान्तपूर्वे पर्वतोपकण्ठावासितस्य निजसैन्यस्य नेदीयसि नदाधि30 राजोत्तारतीरे तरन्ती तामेव निजनिजस्थानोपविष्टप्रहृष्टनिःशेषनाविकां नावमद्राक्षम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org