________________
१८४
कविधनपाल कृता विकालवेलायां गमिष्याम्युद्यानम् ', इति संस्मृत्य कात्यायनिकायाः पुरः प्रयुक्त वचनमेकाकिन्याप्यनुमृतः कामदेवायतनमार्गः । कृतोऽतिगुपिलतया दिवापि संत्रासकारिणि स्त्रीणामगणितात्मविनिपातया निशा यामिह महीयसि महीपतिक्रीडावने प्रवेशः । विचरितमितस्ततः
सकष्टामेतां द्रष्टुकामया । दृष्ट्वा च कृतः पाशमोक्षणाय बहुप्रकारो यत्नः । कियद्वा 5 वर्णयाम्यसाधारणभक्तिवात्सल्यायास्तवोचितकारित्वम् ? एकमेव मनागयुक्त कृतं यदहमस्या
महानर्थहेतुरुपकारपरम्परोद्घट्टनेन वैलक्ष्यमानीतः । एतां च प्रणामकर्मणा घननिदाघधर्मा घ्रातनवशिरीषकलिकाकोमलाङ्गयष्टिं कष्टमनुभाव्य बहुमानार्थिजनपदव्यामारोपितः । सकृदनुस्मरणेनाप्यपनेतव्यरणरणकस्य, नामग्रहणेनाप्यनुग्रहं मन्यमानस्य, बाह्यपरिजनप्रयोज्येन दृष्टिदानेनापि संवर्धनीयानन्दस्य, निन्दापरं ममोपचारकरणम्' । इति ब्रुवाण च तं बन्धुसुन्दरी स्मित्वा मन्दमवदत्-'महाभाग ! मदभिप्रायेण सत्यं महानर्थहेतुरस्यास्त्वम् । अत एव नायुक्तमुपकारोघट्टनं मया विहितम् । केवलं त्वदभिप्रायमाश्रित्य पृच्छामि । सर्वकालमन्तःपुरगतायाः स्वप्नेऽप्यजातपुरुषसंनिधेरधुनैव दृष्टः कथं महानर्थहेतुरस्या भवान् ? अथ स किंचिदुद्भिन्नहासः 'छलग्राहिणि ! रहस्यमेतन्न शक्यते प्रकाशयितुम्'
इत्युदीर्य तूष्णीमभवत् । सापि 'कथमयं महानर्थहेतुः' इति विमृश्य बहुशः प्रश्नकाङ्क्षया 15 मन्मुखे चक्षुरक्षिपत् ॥
२७५) ततोऽहमुद्भिन्नहासा निभृतमुपसृत्य तां कर्णे विदितवृत्तान्तमकरवम् । सापि मद्वचःश्रवणविस्तारितेक्षणा, प्रत्यङ्गमर्पितस्तिमिततारकेण चक्षुषा निरीक्ष्य तुलितकुसुमायुधं तस्य रूपम् , अन्तः परं परितोषमवहत् । अभाषत च निभृताक्षरम् -'भर्तृदारिके !
कृतमतीव दुष्कर त्वया, यदस्य प्रथम एव विरहे न मुताः प्राणाः, न गृहीत उन्मादः, 20 न प्रतिपन्न महाव्रतम् , एवं दुःखमनुभवन्त्या दर्शितः स्नेहः' इति । उदीर्य रचितकरसंपटा
प्रणम्य तमवादीत्-'कुमार ! 'कुटिलस्वभावा स्त्रियः, निसर्गसरलः पुरुषवर्गः', इति जनप्रवादो न निरवद्य इति चिरादद्य में स्थित मनसि, यस्मादपृष्टयापि मया दृष्टमात्र. स्य ते जन्मनः प्रभृति सर्वमावेदितं निजरहस्यम् । त्वया तु पृष्टेन विदितपूर्वमेता
वदपि मे न प्रकाशितम् । अप्रकटिते तु तस्मिन्कथमहं 'सोऽयमस्याः प्रियः' इति त्वां 25 जानामि ? तत्क्षमस्व मे, यन्मनोरथशताकाङ्कितदर्शनस्य स्वतः प्रीतेन विधिना कथ
मपि समीपमानीतस्य भुवनत्रयप्रथितपार्थिवप्रथमसूनोः प्रथमदर्शने न दर्शितः प्रतनुरपि संभ्रमः, न प्रपञ्चितो वचनमात्रेणाप्युपचारः, न कृतमर्घपाद्यादिकमीषदपि पूजाविशेषविधानम्' इत्युदीर्य वेगागमनवल्गनुङ्गकुचयुगा भुजयुगं प्रसार्य संजातनिर्भरोत्कण्ठेव कण्ठे
तमतिगाढमाश्निक्षत् । उपनीय विष्टरमादरादर्घमुपपादयितुमुद्यताम् , 'अतिथिवत्सले ! मा 30 कृथाः क्लेशम् , अमुनैव ते सहजसौहार्दशोभिना संभ्रमेण कृत्यकृत्योऽस्मि, कृतमाट
म्बरेण', इति बुवाणः स तां न्यवारयत् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org