________________
१८३
तिलकमलरी विघ्नमवधारयन्ती, धृतम्रंसमानजघनस्तनांशुकेन स्वेदसलिलेनापि दूयमाना, शरीरार्धन लब्धप्रियाङ्गसङ्गामचलकन्यामप्युपहसन्ती, सहसैव विह्वलतामगच्छम् ।।
२७२) दृष्ट्वा च मां तथाविधां क्षणेनैवान्यथाभावमुपगतामुत्पन्नसाध्वसा बन्धुसुन्दरी सादरमवादीत्- 'भर्तृदारिके ! किमेव पुनरपि स्थिता त्वमस्वस्था ? कथय किं ते । वपुषि बाधाकृत् ?' इत्यसकृदनुबध्यमाना बद्धोत्कम्पया सगद्गदाक्षरोद्गारमनया शनैः शनै- 5 रुत्थाय कृतशिरोवगुण्ठना तस्य नृपकुमारस्याङ्कपर्यङ्कादेकदेशे कमलिनीपलाशशयनस्योपाविशम् ॥
२७३) अत्रान्तरे सा मुक्ततारकरुणपूत्कारा निधाय मज्जानुनोरुपरि मूर्धानम् , अनवरतनिपतद्वाष्पसंहति; अभिनवानि शुद्धान्तनिर्गमात्प्रभृतिकाननान्तरुपजातान्युदीर्योदीर्य दारुणानि दुःखानि पूर्वकालमनुभूतानि च मया सह विगतयन्त्रणानि शैशवक्रीडितानि 10 परिहासवचनानि विश्रम्भामिभाषणानि च भावयन्ती, भीषणोदीर्णशोका चिरमरोदीत् । उपनीतवदनक्षालनोदका च तेन, प्रक्षाल्य वदन प्रमृज्य चोत्तरीयपल्लवप्रान्तेन, मत्संनिधौ न्यषीदत् । उत्सृष्टदीर्घनिश्वासा च स्थित्वा कंचित्कालमवचना, मामवोचत्-‘भर्तृदारिके ! किंचिदितोमुखी भव । पश्य चातिसुन्दरोदारदर्शनमपूर्वतेजोविशेषपिशुनितमहानरेन्द्रवंशोत्पादमादरादमु महाभागम् । अद्य ते दत्त जीवितमनेन । यद्ययं तदायतनवर्ती न 15 स्यात् , आकर्ण्य वा मदीयमाक्रन्दमतिवेगादगणितनिजश्रमो नागच्छेत् , उप्लुत्य च व्योम्नि खड्गधेनुकया पाशं न विनिकृन्तेत् , पतन्ती च भूतले जातमूर्छा न प्रतीच्छेत् , उत्क्षिप्य च भुजाभ्यामेतदम्भःस्पर्शजनपवनमुपवनदीर्घिकातीरं नावतारयेत् , तदा कथं ते पुनः प्राणलाभः स्यात् १ तदेष ते परममुपकारी नृपकुमारः, न च तवैकस्यः, सर्वस्यापिसपरिग्रहस्य त्वदीयगोत्रस्य, त्वया प्रयुज्यमानामहति प्रणामादिकां सर्वामपि 20 गृहायातमान्यजनसमुचितामपचितिम् ।' इत्युदीर्य कन्धरापृष्ठलुठितपाणिः प्रथमदर्शनत्रपाविकुश्चितस्मितार्द्रनयनतारकां तस्य मां प्रणाममकारयत् ॥
२७४) सोऽपि किंचित्कृतप्रतिप्रणतिरन्तर्गतप्रेमशंसिना प्रीणयन्नमृतवारिच्छटाच्छेन विकसता दृष्टिविक्षेपेण मच्चित्तम् , इषद्वलितपदनस्तामवादीत्-बन्धुसुन्दरि ! प्रवृद्धन प्रतिदिवसममुना सौजन्येन मधुनेव परभृता मधुरभाषितां परामानीतासि, येन मामपि 25 निदेशमात्रकारिणमत्यन्तमुपकारीति कीर्तयसि । कोऽहमुपकारक्रियायामस्याः ? त्वयैव यत्कर्तव्य तदखिलमनुष्ठितम् । अनुदिन नवनवैः प्रसादविशेषैस्तथा तथोपलालितस्य तावतः सखीजनस्य परिजनस्य च मध्ये त्वमेका शरणमस्याः संजाता, यस्मान्निजेनैव सर्वलोकाभिभाविना प्रज्ञाबलेन विज्ञाय जीवितव्यनिरपेक्षमाकारमावासगमनाय पुनः पुनः कृतविसर्गयापि न त्यक्तमेतदीयचित्रशालिकाद्वारम् । 'क चलितेयम्' इति चिन्तयन्त्या च दूर-30 मनुसृता वजन्ती पृष्ठतः । समुपजातव्यामोहयापि, 'अस्ति मे विलम्बस्तावदधुना कंचित्कालं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org