________________
तिलकमञ्जरी
संज्ञा, व्यपगतपाशवन्धना ; निराबाधनिःश्वासप्रवृत्तिः, अमृतपङ्कपर्यङ्कसुप्तमिव विकचपकेरुहा, राशिकृतनिवेशमिव समासादिता, पूर्वमृदुतरस्पर्शविशेषनिर्वृतं गात्रमुद्वहन्ती ; रोदनादुपरताम् ; अविरतविलापदलितगलरन्ध्रजजरेण स्वरेण शनैः शनैरादितः प्रभति, यो मे वंशः, यथाहमुत्पन्ना, यथा वृद्धिमुपगता, यथा कृतः कलासु परिचयः, यथानुभूता यौवनविलासाः, यथा निशीथसमये सुप्तमात्रैव खेचरैरपहृत्य चित्रशालिकाशयनादेकाकिनी पञ्चशैलके 5 रत्नकूटाद्रिकटकमण्डन जिनायतनमानीता, यथा तत्र चित्रलेखारचितचतुरप्रसाधनया प्रवर्तितो गीतनृत्यादिकः प्रेक्षणकसमुचितो विधिः, यथा मनुजलोकदुर्लभलास्यप्रयोगदर्शनप्रीतेन विद्याधराधिपतिना विचित्रवीर्येण सह सविस्तरं प्रवृत्तः संलापः, यथा तदुपनीतच्छत्रचामरालंकारा सदृशनेपथ्यपार्थिवकुलकुमारिकावृन्दपरिवृता पारावारमवलोकयितुमारूढा स्फाटिक जिनायतनपर्यन्तवतिनं प्राकारम् , यथा च तन्मूलमाश्रित्य विहित- 10 स्थितौ नाव्यवस्थितो वीक्षितः स निजरूपनिर्मथितमन्मथाकारः पार्थिवकुमारः, यथा च प्रथम एव दूरदर्शितानुरागमुद्रया समुद्रपूजाव्यपदेशेन मुखनिवेशितोन्मुखशस्तस्य कन्धरायामधिरोपिता स्वहस्तेन दिव्या स्वयंवरकुसुममाला, यथा च तिलकक्रियानन्तरमेव केनापि हेतुना समुपजाताच्चित्तविप्लवादुत्प्लुत्य जलनिधौ कृतप्रपातस्य प्रीतिलचितया तस्य पृष्टतो विहितमनुपतनम् , इत्यादिकमशेषमपि पूर्ववृत्तं मदीयवृत्तान्तमुपवर्णयन्तीं; तामेव 15 बन्धुसुन्दरीमश्रौषम् ॥
२६९) 'कोऽयमाप्ततमः समीपमागतोऽस्या यस्यैनमतिरहस्यमप्यस्मदपहारवृत्तान्तमावेदयति ? कस्य चायममृतस्यन्दसुन्दरो देहसंस्पर्शः ?' इति विमृश्य मन्दमन्दोन्मीलितेक्षणा; झगिति लोचनमार्गमवतीर्णममृतकरमिव पुरुषरूपमादाय मदनोत्सवदिदृक्षया क्षितावागतम् , अतिसूक्ष्मसुकुमारसिकते श्रूयमाणशोकातकोककामिनीकरुणविरुतौ तटशिला- 20 तलास्फालवाचालवीचिमाले तत्कालमुदिताः कुमुदिनीरिव दृष्टुमाकृष्टतिर्यक्प्रसृतपादपच्छायेन गगनमध्यमध्यासिना शशधरेणाधोमुखैमयूखयष्टिभिरुत्सारिताशेषप्रदोषतमसि चन्द्रप्रभाप्राचुर्याच्च दूरापमृतसलिलेऽपि स्वच्छजलतिरोहित इवोपलक्ष्यमाणकुमुदीर्घिकातीरदेशे निषण्णम् , आगृहीतमदनज्वरातकामिसमुचितचारुशृङ्गारवेषम् , उन्मिषच्चन्द्रकान्तमुक्ताफलप्रायमणिविशेषैर्यथास्वमुचितस्थानविनिवेशितैः कटककेयूरकुण्डलादिभिभूषणैरलंकृतवपुषम् , आयामिनी- 25 भिरन्तरान्तरा लक्ष्यसरसबिसकन्दलाभिबैंकक्षकस्रग्भिः सरिद्भिरिव सागरप्रपातसमये स्पर्श तृष्णया संलग्नाभिः कृतकण्ठग्रहम् , आमोदितदिशा चन्दनविलेपनेन स्वच्छेनाप्यतिघनेनोद्भाव्यमानेन सूचितास्मद्विरहजनितोदामपाण्डुभावम् , आसक्तचञ्च्वाकारकर्णाभरणपद्मरागरत्नाकुरेण शशिहरिणहरितरोचिषा शैवलप्रवालेन कल्पितकर्णावतंसम्, एकशुकशकुन्ताक्रान्तशिखरमिव बालसहकारविटपम् , उदधिपूजाव्यतिकरे मत्करप्रकीर्णस्य हरिचन्दन- 30 द्रवस्य सुरभिसान्द्रबिन्दुजालकैरलंकृतेन तेनैव चिरंतनेन चीनवाससा प्रत्युरसमजलाट्टैणापि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org