________________
15
कविधनपालकृता न्तरालपरिसर्पणेन कस्मान्न कोलाहलः कृतः” इति सानुतापमात्मानमेव प्रतिपदं निन्दतीम् । 'अतिविशदचन्द्रातपापि भगवति त्रयोदशीक्षणदे ! क्षीणपुण्याया मम त्वमपि कालरात्रिः संघृत्ता, मातर्धरित्रि ! विधुरेऽस्मिन्निमामपालयन्ती पृथ्वीपालबालिकामलीकं वहसि धात्री
शब्दम् । देवि कात्यायनि ! मदीयजीवितेन भर्तृदारिकाया रक्ष जीवितम् , आवयोर्न 5 कश्चिद्भेदः, स्वामिन्यो वनदेवताः ! निवेदयत पात्रसंक्रमेण देव्या गन्धर्वदत्तायाः सुता
वृत्तान्तम् , अत्यन्ततान्ता न शक्नोम्यहमन्तःपुरं गन्तुम् , तात पितृपते ! निर्दयप्रकृतिरपि विधेहि मयि कृपामेकवारं कृपणायां प्रियसखीप्राणदानेन, सलिलसंगत्यैव स्वच्छशिशिराशयोऽसि सततम् , अतो वरुण ! भूत्वा सकरुणः कुरु विपाशामिमाम् , पाश
मोक्षणे तवैव वैचक्षण्यम, भगवन्पवन ! रुद्धगलरन्ध्रवेदनाविरसाया भव समाश्वासहेतु. 10 रस्याः श्वासप्रसरदानेन, हताश चित्तयोने ! चैत्रोत्सवेनैव निश्चेतनीभूतो न चिन्तयस्या.
त्मानम् , अन या विना विधुरेषु कुण्ठितशरस्य कस्ते शरणम् १ दुरात्मन् ! आत्मनैव निष्पादितां विपदमीदृशीमस्याः पश्यतो मनागपि न ते विच्छायता संजाता, अशोक ! सत्यमिवाशोकस्त्वम्', इत्याद्यनेकप्रकारं संबद्धमसंबद्धं च विलपन्तीं; बलवता शोकवेगेन विधुरीकृतां बन्धुसुन्दरीमपश्यम् ।
२६६) दृष्ट्वा च तां तथाविधावस्थाम् , उपस्थिताप्रतिविधेयविपदम् , एकपद एवास्पदीकृतामखिलैरपि त्रैलोक्यवर्तिभिरसौख्यैः, शतमुखीभूतदुःखवेगां विगलितोष्णबाष्पपटलविप्लावितमुखी, कृतप्रयत्नापि दृढमतिगाढपाशग्रन्थिपीडितगलत्वादपारयन्ती वक्तुम्, उत्क्षिप्य किंचित्प्रचलितेन पाणिना दक्षिणेतरेण, रुदतीं तां न्यवारयम् ॥
_२६७) सा तु तेन प्रचलता भत्करतलेन तालवृन्तेनैव प्रबलसंदीपितशोकपावका; 20 'भर्तृ दारिके ! विरम, किं वारयसि १ देवेनैव वारिता, विरताहमद्य प्रभृति रोदनात् ,
अनाकुला प्रसाधय स्वाभिप्रेतमर्थम् , अस्मद्विधे बाह्यपरिजनेऽद्यापि कः प्रतिबन्धः ?' इति रोषादिवोदीर्य द्विगुणमापूर्यमाणबाष्परुद्धगलनिर्यदागद्गदाक्षरमुन्मुक्तगुरुतराक्रन्दा; दूरमुत्क्षिप्योत्क्षिप्य पातितेन निर्दयाघातविघटिताङ्गुलीकिसलयगलदुधिरशीकरण करयुगलेन युगपदु
त्तमाङ्गमुरस्तट' च ताडनत्रुटितहारमुक्तमुक्ताफलासारसंवर्धिताश्रुबिन्दुविसरमनवरतमाज25 ध्ने । घनतरावधूनितहस्तयाथ तथैव मया पुनः कृतनिषेधा, निर्याय तस्मादशोकतरुतलात्
'अद्यापि स्पष्टचेतना समर्था जीवितुमसौ, अवन्वेषयामि कंचित्' इति विचिन्तयन्ती, समन्ततः प्रहितलोचना, मन्मथायतनसंमुखी सत्वरमधावत् ॥
२६८) एतावन्तमेव तत्कालवृत्तमात्मनस्तस्याश्च वृत्तान्तमविशदतया स्वप्नविज्ञानसदृशमवगतवती । ततः परम् 'किं तयोक्तम् १ किमनुष्ठितम् ? कः प्रसाधितोऽर्थः ? 30 कीदृशश्च संपन्नो ममावस्थाविशेषः ?” इति प्रबलवेदनावेगजनितेन कृत्स्नकरणशक्तिच्छिदा
मूर्छागमेन मुषितविज्ञाना स्वल्पमपि नाज्ञासिषम् । केवल कियत्यापि वेलया समुपलब्ध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org