________________
१७२
तिलकमञ्जरी
संगमो मे भूयात्' । इत्यभिधाय कन्धरानिवेशितपाशवलया दूरमुत्प्लुत्य तस्यैवाशोकवृक्षस्य मूलवेदिकातः क्षितितलाभिमुखमात्मानममुचम् ॥
__ २६५) मुक्तदेहायाश्च मे गात्रभारेण दूरमाकृष्टा दृष्टमत्साहसोत्पन्नसाध्वसेव सर्वतः समकम्पतासावशोकपादपशाखा । कम्पतरलितकुलायकोटरोड्डीनानि विस्तारिणा पक्षपातविरुतेन हाहारवमिव कुर्वाणानि पर्यन्तेषु बभ्रमुः ससंश्नमाणि विहंगमकुलानि । 5 तैश्च सर्वतः कृतकरुणकोलाहलैस्तथाभूतमदवस्थादर्शनोद्भूततीव्रशोकैरिव ताडयद्भिरनवरतमुभयतः प्रेङ्खता पक्षयुगलेन जठरमुद्वेज्यमाना, गात्रपरिमलामन्त्रिताभिर्विहाय सविधवर्तिनीरुद्यानवीरुधो वेगाद्वाविताभिधमरमालाभिर्मञ्जरीव प्रत्यवयवं विलुप्यमाना, तत्क्षणप्राप्तमर्त्यलोकावतारशापेव त्रिदशललना समासन्नभूतलस्पर्शा निरालम्बमम्बरे कृतस्थितिः भाराञ्चितेन संकुचता प्रतिक्षणं पाशवलयेनाकालचलितं जीवितमिव निरोद्धमतिनिबिडमापीडितशिरोधरा; 10 कण्ठरोधादूर्ध्वमनवकाशेन निष्कासनसहान्सहायानिवान्वेष्टुमन्तर्धाम्यता श्वासपवनेन निर्भरमापूर्यमाणकुक्षिकोशा; प्रियवियोगादपि दुःसहेन, गृहागतार्थिजननिराकरणादपि कष्ठतरेण, विपक्षपक्षोपसर्पणादपि संतापकेन, निशितनिस्त्रिंशदारणादपि दारुणेन, महानरकवासदुःखसंवादिना, वेदनावेगेन व्याकुलीकृता; पृष्ठत एव मे समागताम् , अन्तिकस्थामपि विसंस्थुलतया चक्षुरिन्द्रियस्य स्तोकमप्यनुपलक्षिताम् , श्रवणमार्गमवतीर्णेन विस्तारिणा करुणरटितेन 15 कथमपि चिरेण प्रत्यभिज्ञाताम् , 'हा ! किमिदनापतितम् १ किं संवृत्तम् १ किमनुष्ठितं निष्ठुरप्रकृतिना देवेन ?' इत्यभिधायाभिधाय प्रचलितकलाचिरत्नवलयावलीवाचालमग्रकरयुगलमन्योन्यमास्फालयन्तीम् , मुहुर्मोक्षणाय पाशग्रन्थेरशोकमारोढुं परिकरमाबध्नतीम् , मुहुभङ्गाय शाखायाः शिखामधोमुखमाकर्षन्तीम् , मुहुर्मूलवेदिकाग्रे निक्षिप्य चरणावाकर्षणाय मे तिर्यग्भुजयुगं प्रसारयन्तीम् , मुहुः कल्पनाय पाशस्य प्रविश्य वनं बालपर्णशालासु 20 परशुदात्रशस्त्रिकादीन्युपकरणान्यन्वेषयन्तीम् , मुहुः कण्ठबाधाप्रतिविधानाय धृत्वा जङ्घयोर्मामूर्ध्वमुक्षिपन्तीम् , मुहुरवष्टम्भाय मञ्चरणयोरधस्तादुपलशकलान्युपर्युपरि विरचयन्तीम् , अशोकशाखाधिरोहणाय विटपान्तरालपातिनो रज्ज्वायतानिन्दुकिरणानप्यवलम्बमानाम् , साहायकाय विगतचेतनेषु पाषाणपुत्रकेष्वपि दृष्टिं पातयन्तीम् , निश्रेणिकानिषण्णध्यानतया दीर्घपृथुलां केलिदीर्घिकातरङ्गश्रेणिमपि साकाङ्क्षमवलोकयन्तीम् , अदृष्टमद्रक्षणोपायतया च 25 मनसि पुञ्जितासह्यदुःखां मुहुर्मुहुर्छामनुभवन्तीम् , मोह विरतौ च साध्वसादुत्थाय बद्धप्रबलकम्पाम् ; 'किं पापकारिणि ! कृतः कारणमन्तरेण त्वयास्य सकलविश्वविश्रामवेश्मनो निजम्य विनाशो राजवंशस्य १” इति मामेव निरनुक्रोशमाक्रोशन्तीम् , 'अनार्य ! किमियं त्वया स्वकार्यसाधनाय निधनमुपनीता ?' इति तातमपि जीवितनिरपेक्षतया प्रतिक्षिपन्तीम् , 'विगतलक्षणे बन्धुसुन्दरि ! जानत्यापि जीवितमुत्सृष्टुकामा किमियमवधीरिता त्वया ,30 निर्गच्छन्ती धृता च किं न धावित्वा हठात्पृष्ठतो, विमोहितया च संकटप्रासादकुटथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org