________________
१७८
कविधनपालकृता कल्पितावचूलचामरस्य, मकरन्दपाननिश्चलनिलीनैः कजलकालकान्तिभिर्मधुकरकुलैः प्रत्यग्रघटितानामग्निना मुकुलपत्रिणां तैदण्यमाधातुमाहतैः खादिरैरिवागारैः सर्वतः कर्बुरीकृतोपहारपुष्पप्रकरस्य, दृश्यमानानेककुटिलमार्गेण निसर्गमलिनात्मना मानतन्तुसंतानेनैव
कामिनीहृदयेभ्यः समाकृष्टेन कृष्णागुरुधूपधूमेन निर्भरव्याप्तकुक्षेः, पुष्पगृहकस्य मध्ये, 5 स्वायुधागारदर्शनबुद्ध येव बद्धास्पदम् ; अलिन्दकालिखितबहुवर्णचूर्णपत्रवल्लिना, स्थानस्थानविनिहिताखण्डशालितण्डुलस्तूपेन, पटवितानकप्रान्तलम्बितोन्नालनालिकेरकदलकलुम्बिना, निरन्तरन्यस्तमाक्षिकेक्षुरसकुम्भेन, शातकुम्भकरकोत्सर्पिसरकगन्धाकृष्टरणदलिपटलवाचालितेन, विततपुटकिनीपत्रपुटकार्पितसकर्पूरताम्बूलवीटकेन, प्रकटितानेककूष्माण्डतुण्डीरकत्रपुसवार्ताकशाकपणेन क्वचिदनतिकोमलै रङ्गीफलैः क्वचिदधिगतस्तोकपाकावस्थैः कपित्थैः क्वचित्पीनपरिमण्डलाङ्गैर्मातुलुङ्गैर्यथाकालमात्मना निर्वर्तितानां बालयुवतिप्रौढवनितापयोधराणां प्रतिच्छन्दकैरिव यौवनेनोपदर्शितैरुपेतेन, फेनिकाशोकवर्तिखण्डवेष्टमोदकप्रायपक्वान्नबहुलेन, बलिकर्मणा कल्माषितसमग्राग्रिमभूमिभाग ; भगवता समस्तसुरसङ्घवन्दिताज्ञेन मघवताप्यलचितशासनं ; कुसुमशरासनं देवमद्राक्षम् ॥
२६२) दृष्ट्वा च किंचिदुपशान्तसंतापा, तन्मुखार्पितप्रीतिनिश्चलेक्षणा, विलम्ब्य 15 क्षणमात्रम् , अभ्यन्तरप्रविष्टामन्तर्निविष्टः कदाचित्कोऽपि मां पश्येद्, इति विशङ्कमाना, द्वारदेशस्थितैवोत्सृष्टकुसुमाञ्जलिः प्रणाममकरवम् ॥
२६३) कृतमरणसंकल्पा च निर्गत्य तेनैव मार्गेण, गत्वा बहिःप्राकारवलयात्पदानि कतिचित् , कमलदीर्घिकानघभूषणस्य पुण्यपरिणाहभाजः कतिपयदिनारूढयौवनप्रौढे
र्गाढसुकुमारच्छदच्छन्ननिखिलशाखासंचयस्य सर्वतः संचरद्भिः कुसुमसौरभावकृष्टैः षट्20 चरणचक्रेरक्रमाक्रम्यमाणदक्षिणानिलचलितचारुविटपस्य रक्ताशोकशाखिनः स्कन्धशाखायामायतेनविस्तारिणा स्ववेषाडम्बरावरणपटेन पाशमघटयम् ॥
२६४) 'प्रातः प्रमीतामसम्यगावृतवपुषमवलोक्य मां नरलोकत्रपामेष्यति इति शङ्कया निबिडनीविबन्धनमपि पुनः पुनर्गाढीकृत्य निवसनम् , अशिथिलकञ्चुकावृत्तस्यापि
कुचमण्डलस्योपरि विधाय चिरमुत्तरीयेण बन्धुरं गात्रिकबन्धम् , अमन्दसंदानितमपि सय25 नमापीड्य पुष्कलैः पुष्पदामभिः केशभारम्, अभिष्टुतेष्टदेवता, कृतगुरुजनप्रणतिः, असंपादि
तोचितफले बाह्येऽपि परिजने जातानुतापा, विपक्षवर्गेऽपि भावितप्रीतिः, प्राङ्मुखीभूय सादरमन्तरिक्षबद्धलक्षा कृताञ्जलिः, अवदम्-'भगवन्तः सकलजन्तुग्रामकर्मसाक्षिणः सहस्राक्षपुरःसरा लोकपालाः ! " तस्य तत्कालमात्मनो वरत्वेन प्रतिपन्नस्य नृपकुमारस्य
दर्शनात्प्रभृति न मया पुमानन्यश्चक्षुषापि साकाङ्क्षमवलोकित" इत्यस्य सत्याभिभाषणस्य, 30 अस्य च क्रोधवैलक्ष्यनिर्वेदादिभिर्भावैरदूषितस्य, निजचारित्ररक्षणार्थमेव केवलमध्यवसितस्य
जीवितपरित्यागस्य च यद्यस्ति कोऽप्यनुभावः, तत्तेनैव नृपकुमारेण सह जन्मान्तरेऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org