________________
तिलकमरी
१७७ प्रमदवनपक्षद्वारकेण, अनुलग्नमेव स्वभवनोपवनस्य तं व्यपास्तनन्दनवनविभूतिम् , आभरणभूतमखिलाया अपि नगर्याः, क्रीडार्थमात्मनः कारितं तातेन, लवङ्गपुन्नागचन्दनागुरुप्रायपादपगुपिलम् अतिविपुलविशदोदारमतिशयाभिरामं, कुसुमाकराराममनज; यस्मिन्नम्बया प्रतिष्ठापितस्य भगवतः कुसुमकेतोः पूजाविधानाय कात्यायनिकामुखेन प्रातरादिष्टास्मि ।
__ २५९) तत्र च मदनयात्रायातनगरलोकालोकनशङ्कया दूरतः प्रहतमपहाय मार्ग- 5 मुत्पथेन प्रस्थिता, चन्द्रपादप्रकटितेषु प्रदेशेषु सत्वरं व्रजन्ती, विजृम्भमाणमुखरपक्षारवेषु यदृच्छयाप्युड्डीयमानेषु खगकुलेष्वितस्ततः प्रधावमानं परिजनमुत्प्रेक्षमाणा, समासन्नवल्लरीविटपेषु लग्नासूत्तरीयांशुकदशासु पृष्ठतः सहचरीभिर्धताञ्चलेति सवैलक्ष्यं विवर्तमाना, स्थाणुष्वपि पुरस्ताज्झटिति वीक्षितेषु जातवनपालपुरुषशङ्का लतागुल्मान्तरेषु निलीयमाना, निजमपि पादपातध्वानमन्यदीयमिति साध्वसादवधारयन्ती, अनभ्यस्तचरतया चरणसंस- 10 र्पणस्य दृढतरोपजातजङ्घाजाड्याप्यखण्डयन्ती गतित्वरां, क्षणेनैवातिदूरमव्रजम् ॥
२६०) क्रमेण चासाद्य तस्यारामस्य रम्यतरमभ्यन्तरोद्देशम्,उपसंहृतत्वरितगमना, दूरादेव दृष्टिपथागतेन तत्कालमाक्रान्तभुवनोदरस्य रागजलनि:चिभिरिव संनिहितमकराभिरालोहितांशुकपताकाभिः पल्लवितशिखरेण गगनोल्लेखिना वैद्रुमेण केतुस्तम्भेन प्रकाश्यमानम् , अतितुङ्गशृङ्गोच्छ्रायप्रांशुपृथुशिलाशालपरिगतम् , अमलकलधौतकलशाध्यासितसुधा- 15 धवलनिःशेषकूटं, कैश्चिदाविष्कृतप्रौढपत्रैः कैश्चिदुल्लासिताभिनवतनुच्छदैः कैश्चिदाकृष्टशिलीमुखचस्तदा त्रीणि भुवनान्यभिषेणयितुमुद्यतस्य विषमबाणस्य बलदर्शनाय मधुना स्वसैन्ययोधैरिवाहतैस्तिलकचम्पकाशोकपुन्नागनागकेसरप्रभृतिभिः प्रधानपादपैः समन्तादुपगूढम् , अतिदृढस्तम्भविततमण्डपाभिरामं, कामदेवायतनमायातवती । प्रक्षालिताध्वरेणुधूसरचरणयुगला च द्वारदीर्घिकायाम् , आदाय तदुपकण्ठजातेभ्यो लताजालकेभ्यः सुरभिपरिमलाः 20 सुमनसः कतिचिद् इतस्ततः क्षिप्तसचकितदृष्टिपाता, निभृतनिभृतैः पदस्तदभिमुखमचलम् ।।
२६१) गत्वा च स्थिता द्वारदेशे, विशुद्धहाटकघटितविकटासनपीठबन्धम् , उद्गन्धितैलाध्मातपात्रबोधितानेकस्थूलदशानां दिशि दिशि ज्वलन्तीनामायतनदीपिकानामुत्तप्तकनकांशुराशिकपिशेन सर्पता सर्वतः प्रकाशेन प्रकटिताखिलप्रतिमारूपम्, उभयतो निरूपितनिरुपमानरतिप्रीतिरूपकम् , अधिकशिशिरेण स्वच्छसुरभिणा चन्दनरसेन समस्तभुवनविजयो- 25 पार्जितेन यशसेव संपादिताप्रपदीनचर्चम् , उच्छन्ननिद्राभिराराधयितुमागतानां प्रियविमानितप्रमदानामीक्षणावलीभिरिव प्रतिबिम्बसंक्रान्ताभिः सजलकणिकाभिरसितोत्पलस्रम्भिराच्छादितसर्वाङ्ग ; गर्भगृहगर्भविरचितस्य लम्बितप्रलम्बपुष्पप्रालम्बघटितविकटभित्तेः अखण्डपुण्ड्रेक्षु काण्डकल्पितप्रकाण्डतोरणस्य, तरुणगृहिणीवियोगविघटिताध्वन्यहृदयैरिवोदामरागैरशोकपादपप्रवालैारिविरचिताविरलवन्दनमालस्य, निबिडकण्टकाचितोभयधारैरतिकठिनजनहृदयदारु- 0 दारणाय चन्द्रकिरणैरिव क्रकचतां नीतैर्विरहतान्तकीरकान्ताकपोलकान्तिभिः केतकोदरदलैः २३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org