SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ कविधनपालकता २५४) स्थित्वा च तत्पादमूले मुहूर्तम् , उत्थिता पुनरलभ्यदर्शनमस्य वदनं पुनः पुनरवलोकयन्ती प्रयत्नस्तम्भिताभुरम्बाभवनमगमम् । तत्र चानुभूततत्कालसमुचितसकलमाङ्गलिक्या वारंवारमाकारिता जनन्या भुक्त्वा तया सार्धमेकभाजने भावितद्विरहदुःखदह्यमानमानसा विषमयानिव कतिचिदन्नकवलान्कृतोपस्पर्शना च स्वसंवर्धितानेकबालवृक्ष 5 काकुलं गृहोद्यानमगच्छम् ॥ . २५५) तत्र चासंपादितपादप्रहतिदोहदेष्वशोकशाखिषु खेदायतं निःश्वसन्ती, अदृष्टकोरकोद्गतिषु सहकारेषु विषादमुद्वहन्ती, अनाहितसरकगण्डूषसेकेषु बकुलखण्डेषु विफलतां कलयन्ती, अनिवर्तितोद्वाहविधिषु तरुणातिमुक्तकलतासु बाष्पजललवानुत्सृजन्ती, शुल्कसुकुमारवालुकेषु क्रीडाद्रिनदिकासैकतेषु प्रतिक्षणं कृतगतिविलम्बा, नूपुरारावकृष्टैः 10 पृष्ठतः प्रधावद्भिर्विलासदीर्घिकाहसमिथुनैरनुपदमुन्मथ्यमानहृदया; 'तात रक्ताशोक ! लोका न्तरगतापि स्मर्तव्यास्मि ? कमलदीर्घिके ! दीर्घकालं क्लेशमनुभावितासि निर्घणया निदाघमज्जनेषु, सखे शिखण्डिन् ! अस्तं गता ते हस्ततालताण्डवक्रीडा, वत्सकलहंस ! निरुत्सवस्ते गमिष्यति मानसागमनदिवसः; मा कृथाः कोकमिथुनक ! मद्वियोगे शोकम् , जात शुकपोत ! मा तानि विस्मरिष्यसि मत्सुभाषितानि' इति भाषमाणा ; परिभ्रम्येतस्ततः, 15 अस्तगिरिशिरःस्रस्ततेजसि तिग्मभानौ स्वनिवासमागमम् ॥ २५६) तत्र च प्रवर्तितविचित्रचैत्रोत्सवेन पिनद्धविविधालंकारवाससा जननीजनेन सादरस्नेहमाकारिता, प्रवृत्तासु निर्भरं गीतनृत्तगोष्ठीषु स्थित्वा मुहूर्तम् , अस्वस्थहृदया सौधशिखरमध्यरोहम् । द्वारदेशादेव च विसर्जितवयस्यजना, प्रविश्य बन्धुसुन्दरीद्वितीया शयनचित्रशालाम् , अकृतसंलापैव साध तया स्थित्वाल्पकालम् , अलसवलितेक्षणा तामवोचम् 20 -'सखि ! त्वमपि गच्छ गृहम् । इच्छामि क्षणमात्रमहमितस्ततः परिभ्रमणखेदितशरीरा निद्रातुम् ॥ २५७) सा तु तेनाकालप्रेषणेनात्मनो मम च तेन प्रकृतिविपर्यासदर्शनेन जातशङ्का, तूष्णीमेव कंचित्कालं विलम्ब्य ध्यात्वा च किंचिन्निश्चललोचना चित्तेन, मत्स मीपादुदचलत् । निरगाच्च निगडितेव स्तिमितविन्यस्तचरणा वारंवारमवलोकयन्ती पृष्ठतः, 25 कथंचिच्चित्रवलभिकायाः ॥ २५८) नातिचिरनिर्गतायामेव चास्याम् , उत्थाय शयनान्निबिडनियमितापीडकुसुमा, दृढनिबद्धनिवसनग्रन्थिः, आप्रपदीनपरिणाहेन प्रतनुना चीनांशुकपटेन प्रच्छाद्य सर्वतः प्रमृतकिरणराभरणमणिभिद्योतमानं तदानीमिदं हतशरीरम् , अतियत्नवारितचरणमणिनू पुरा रवाणि निक्षिपन्ती मन्दं मन्दं पदानि, द्वारदेशमागमम् । अवतीर्य च प्रासादशिखरादितस्ततो 30 निहितसंत्रासतरलचक्षुरतिक्रम्य कक्षान्तराणि, तत्क्षणप्रवृत्तनिर्भरक्रीडारसे कन्यान्तःपुरे नृत्तगीताक्षिप्तमनसा परिजनेन समीपवर्तिनाप्यनुपलक्ष्यमाणा, रक्षणपदातिशून्येन निर्गत्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy