________________
तिलकमारी
मपि स्वतन्त्रमृद्धिमन्तमत्यन्तोदात्तचरितमनेकराजन्यजन्यविजयोपार्जितख्यातिमध्यासितमहाधिकारं क्षत्रियकुमारमुद्दिशतां न लेशोऽप्यस्ति निर्वादस्य । ममैव प्रभूतजन्मान्तरोपार्जितप्राज्यपापसंभारायाः सर्वोऽयमपराधः, यया न लब्धव्यमलीकयापि प्रियसमागमाशया जनितं जीवलोकसुखम्' इति । चिन्तयन्ती निश्चितमरणा तां चेटीमवोचम्-'भद्रे ! गच्छ । विज्ञापयाम्बाम् , “अस्ति मे विलम्बः । स्तोकमुन्निद्रकेणाद्य विद्राणोद्यमा न यास्यामि 5 कंचित्कालम् । विकालवेलायां गमिष्याम्युद्यानम्" इति' । उदीर्य कात्यायनिकां व्यसर्जयम् ।।
२५२) गतायां च तस्यां बन्धुसुन्दरी मामवदत्-‘भर्तृदारिके, किं विषण्णा तिष्ठसि ? उत्तिष्ठ । कुरु यथाक्रियमाणमात्मव्यापारम् । अति हि महानुत्सवोऽयम् । आराधनीयः सर्वादरेणात्र सर्वस्यापि स्त्रीजनस्य भगवानयुग्मेषुः, विशेषतः समुपस्थितासन्नपाणिग्रहणमङ्गलानां कुमारीणाम् । न युज्यते मुहूर्तमप्यस्मिन्ननिर्वतमनोभिः स्थातुम् । 10 अस्थाने च भर्तृदारिकायाः खेदोऽयम् । यदेव गुरवः किंचिदादिशन्ति, यदेव कारयन्ति कृत्यमकृत्यं वा, तदेव निर्विचारैः कर्तव्यम् । विचारो हि तद्वचनेष्वनाचारो महान् ।' इत्यभिहिता तया विहस्य किंचिदुत्सृष्टदीर्घनिश्वासा शनैः शयनीयममुचम् । अव्रजं च पुरःप्रचलितप्रतीहारीजनोपदिश्यमानसरणिः, स्नानमण्डपिकां च ॥
२५३) तत्र च समन्ततः संसितविततकाण्डपटकायामध्यासितमणिवितर्दिका- 15 निहितहेमपीठा, सलीलमुभयहस्तोदस्तशातकुम्भकुम्भाभिर्मजनपालीभिः परिमलाकृष्टषट्पदकदम्बकेन गन्धोदकेन यथाविधि कृताभिषेका, रक्ताशोकपुष्पपाटलं परिधाय पट्टवासोयुगलम् , अग्रभागविगलदविरलवारिबिन्दुना दरसदानितेन बालवल्लरीस्तम्बविस्तारेण स्तबकितोभयांशपीठोपकण्ठा ; जरठविद्रुमच्छेदपाटलपताकापटपल्लवितशिखरस्य, स्कन्धशाखानिबद्धविविधरत्न. दाम्नो, निरन्तरन्यस्तदीपोद्दयोतदलितनीरन्ध्रविटपसंरोधसंभृतान्धकारस्य, सरसकुङ्कुमस्था- 20 सकाङ्कितस्थूलसुकुमारसरलप्रकाण्डस्य, प्रलघुना प्राकारमण्डलेन कुण्डलितपर्यन्तभूमेरुच्चमणिशिलापीठप्रकीर्णनानावर्णपुष्पप्रकरस्य, साक्षात्सुरभिमासेन मर्त्यलोकमदनोत्सवं दर्शयितुममरकाननादिवावतारितस्य कल्पवृक्षस्य, शुद्धान्तमध्यभूरुहो रक्ताशोकपादपस्य, प्रत्यग्रहरिचन्दनोपलेपसभगे मूलभागे विरचितप्रतिष्ठम् ; अचिरनिवर्तितस्नानाभिरत्युदाराभरणभूषिताङ्गयष्टिभिरनेकविच्छित्तिविरचितमण्डनाभिः सविभ्रमप्रावृतैरिन्द्रगोपकारुणधुतिभिरुत्तरीयांशुक 25 रागजलराशिमध्यमग्नमिव जीवलोकमुपदर्शयन्तीभिगृहीतविविधाङ्गरागभाजनेन सीधुभृङ्गारधारिणा विधृतकुसुमधूपपटवासपलिपटलकेन परिजनेनानुगम्यमानाभिरन्तःपुरिकाभिरागत्यागत्य निर्वय॑मानार्चम् , अभ्यर्च्य परमया भक्त्या भगवन्तं प्रद्युम्नम् ; उपपाद्य च द्यम्नमाम्नायागतेभ्यो यथाविद्यमानं विद्वद्विजेभ्यो, भवनमागत्य मानयित्वा च महाह। निवसनालंकारकुसुमताम्बूलविलेपनप्रदानेन सर्वमात्मपरिग्रहम् , अनुगम्यमाना ग्राहित- 30 सदृशनेपथ्येन प्रेयसा वयस्याजनेन, जनकं द्रष्टुमत्रजम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org