________________
૨૭૨
विधनपाल कृत
देवोत्प्रेक्षते किंचित्' इति । उत्पन्नरात्रिवृत्तदिव्य सुरतसंभोगविभ्रमभ्रमया ससंभ्रममनुयुज्य - माना तया वारंवार मीषदुपजातहासा सधीरमवदम् — 'सखि ! किमेवं सखेदासि १ कृतमनिष्टशङ्कया । निरातङ्काssस्स्व । मा स्वप्नेऽपि मां प्रति कृथाः संकल्पमल्पसत्त्वसदृशमीदृशम् '। इत्युदीर्य तस्याः सर्वमेव शर्वरीवृत्तमात्मवृत्तान्तमादितः प्रभृत्यकथम् । अथ 5 सा तदाकर्णनेन परमोपजातनिर्वृतिस्तृप्तेवामृतेन कृतकृत्यमात्मानं मन्यमाना पुनः पुनरावयवत्य पृच्छती तमेव मद्वृत्तान्तमतिचिरं स्थित्वा स्वभवनमगच्छत् ॥
२४५) अहं तु संजातविस्मया, मुहुर्मुहु विमृशती 'यदद्य पर्यङ्कमधिशयाना कृतानुबन्धयाप्यनया बन्धुसुन्दर्या न पूर्वमवलोकिता, तदा च कैवर्तपतिना क्षितिपतिकुमारेण च तेन पुरतोऽपि स्थिता " परिवारसहितैव सा कैश्विदपहृत्य नीता" इति यत्सं10 भाविता, स तस्य हरिचन्दन तिलक बिन्दोर्ललाटलब्धास्पदस्य स्पष्टमनुभावः । यतः प्रमृष्टे तत्र पुनरागतायाः समागता दृष्टिगोचरमहममुष्याः' इति, विचार्य भूयोऽप्यचिन्तयम्'यद्वा किमेतेन ? " मलय सुन्दरि ! वन्दस्व सकलजनदृष्टिहारि हरिचन्दनमेतत्” इति वादिना तेन विद्याधरेण व्यक्तमेवोदिता तस्य शक्तिः' । इत्यादि तत्तद्बहुविकल्पयन्त्यनस्पेनास्पदीकृता विषादेन परिहृताभरणमण्डनाभ्यवहारा तद्दिनमनैषम् ॥
15
२४६) अन्येद्युश्च समुपागता बन्धुसुन्दरी, सुदूरमारूढशोकामा यतोष्णनिः श्वासविधुरीकृताधरामनारताश्रुधाराधौतगण्डस्थलस्थापितोभयाप्रकरतलामखिलयामिनीजागरणविद्रावदनश्रियमाहारपरिहारादधिकतर तनूदरीमवलोक्य मामेकाकिनीम्, अनुस्मृतपूर्व दिननिवेदिताशेषमवृत्तान्ता, 'हन्त ! यः स कोऽपि कण्ठे कुसुममालामारोप्य कल्पितो वरत्वेनानया नृपकुमारः, तस्मान्न शक्यते वाक्यशतैरपि निवर्तयितुमतिनिश्चल निश्चयैषा । विषादोऽप्येष 20 तत्सागरपतनजनितो नियतमस्याः' इति चिन्तयित्वा मुहूर्तम्, आर्तहृदया मामवादीत्'भर्तृदारिके ! विदितं मया ते शोककारणम् । अनाकुलाssस्स्व | भविष्यत्यवश्यं तव तेन नरपतिसूनुना सह समागमप्राप्तिः । अवितथादेशो हि तत्रभवानार्यवसुरातः । न तद्भाषितोऽर्थः कदाचिद्विसंवदति । निगदितं चानेन तव जन्मनि - " योऽस्याः कन्यकायाः पाणिं प्रहीष्यति स निःशेषभुवनेश्वरस्य भूभुजो राज्यभारमखिलमपि चिन्तयिष्यति ।” 25 चिन्तितश्च त्वयात्मनः पाणिग्राहः । तस्मादल्पमपि कार्यो न निर्वेदः । न च सुकृतकर्मणा केवलेनैव संजातसंभवानां भवादृशीनामनुबन्धमप्राप्येषु वस्तुषु विधत्ते बुद्धिः । अचिरेणैव भोग्यं त्वया सकलभुवनैश्वर्यम्' । इत्यादिदर्शित बहुविकल्पैरुपपत्तिमद् द्भिस्तदीयजल्पैः किंचिदल्पीभूतशोका तत्कालम्, आसन्नवर्तितया तस्योत्तारणसमर्थस्य कर्णधार सार्थस्य, समुद्रपतितेनाध्यनासादितविपत्तेः पुनः स्वस्थानमुपगतस्य दृश्यमानतयात्मदेहस्य, दुस्त्यजतया 30 जीवितस्य, दुर्निषेधतया प्रियजनसमागमाशाबन्धस्यावश्यमनुभाव्यतया च दुःखानामीदृशानां प्रत्यक्षवीक्षितमरणमपि तं जनं जीवन्तमुत्प्रेक्षमाणा, तत्र क्षणे मोक्तुमुचित शरीरमाहारं च न परित्यक्तवती ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org