________________
तिलकमञ्जरी
२४३) उन्मीलितेक्षणाच क्षणान्तरे न तमुदप्रमणिसानुदीधितिध्वस्तगगनान्तरालतिमिरजालं रत्नकूटशैलम्, न तन्मूलभागसंनिविष्टम खिलविष्टपाद्भुतैकसदनं तदायतनम् , न तत्प्राकारपर्यन्तेषु सर्वतः प्रेङ्खदुच्छृङ्खलवीचिमालं तमर्णवम्, न तमभ्यर्णभाजमात्मनो गृहीतच्छत्रचामरमाद्यदर्शनेऽपि प्ररूढगाढसख्यमनवगीतनाटयगीतादिकलाकौशलमवनिपालबालिकाजनम्, न तमब्धिपतितस्य क्षितिपसूनोः समुत्तारणाय समकालकृतजलनिधिप्रपातं 5 नाविकत्रातम्, केवलं तस्यामेव प्रदोषसमयाध्यासितायां निजस्य कन्यान्तःपुरप्रासादस्य शिखरशालायां शयनतलमधिशयानमात्मानमद्राक्षम् । उत्पन्नसाध्वसा च किमेतदिति चिन्तयन्ती, स्थित्वा मुहूर्तमनेकसंकल्प पर्याकुलमानसा 'तत्कालमुपकल्पितो मया यस्तिलकः, स किं तथ्य उत मिथ्या ?' इति विज्ञातुमप्रपाणिना ललाटदेशमस्पृशम् । अपश्यं च मांसलामोदतर्पितघ्राणमङ्गुलीलग्नमार्द्रमेव चन्दनपङ्कम् । अपसृतस्वप्नदर्शनशङ्का च तदव - 10 लोकनेन सकलमपि रात्रिवृत्तान्तमवितथं मन्यमाना तम्, अपनीत सर्वाङ्गीणपट्टांशुकप्रावरणा, रणितमणिना भूषणचक्रवालेन वाचालयन्ती चित्रशालिकां, शय्याममुचम् । समासीना च शयनासन्नवर्तिनि हेमपीठे, सोत्कण्ठेन मनसा तस्य जलनिधिमध्यदृष्टस्य नरपतिकुमारस्य चिन्तयन्ती तुलितकुसुमायुधां रूपसंपदमनुरागचेष्टितानि च, निरुद्धसकलचेष्टा स्तम्भितेव लिखितेव वामहस्तविन्यस्तवदना यावत्तिष्ठामि तावदागता तत्र शैशवात्प्रभृति रूढगाढ- 15 प्रणया द्वितीयमिव हृदयमेकभूमिर्विश्रम्भस्य परं प्रगल्भा परेङ्गितावबोधे, बन्धुसुन्दरी नाम समवयाः सखी मे ॥
१७१
२४४) प्रविश्य विहितप्रणामा मत्पाश्वभूमौ संभ्रान्तपरिचारिका निहितमनतिसंनिहितमासनमभजत् । आसीना च तूष्णीमेव क्षणं, निरीक्ष्य प्रत्यङ्गमाहितेन निश्चलपक्ष्मणा विस्मयस्तिमिततारकेण चक्षुषा चिरं माम्, उत्सारितसमीपचारिपरिचारिकाजना 20 शनैरवोचत् - ' भर्तृदारिके ! महदाश्चर्यम् । अन्यः कोऽपि दृश्यत एष ते वेषपरिग्रहः । कानिचिदपूर्वाणि दिव्यलोकसंभवानीवामूनि सुमनोदामानि । न ताः सन्ति सायंतन्यो मालतीस्रजस्तमिस्रनीकाशे केशपाशे कीनाशानुजाजलस्रोतसीव त्रिस्रोतोवीचयः, याश्वित्रया विन्यासगत्या विरचिताः स्वयं मया । कथय केन परिवर्तिते शरत्काल बालातपशुचिभ्यामनिशौचसिचयाभ्यां दिनावसाननिवसिते शुकाङ्गरुचिनी ते चीनवाससी १ कुतश्चायमा- 25 सादितः सार्द्रमृगनाभिकर्पूरानुविद्धः सर्वतः प्रधावितैराकुलाकुलैरलिकदम्बकै विलुप्यमानाविरलपरिमलो विलेपनविशेषः ? सशेषनिद्रामन्थरोन्मेषेणालोहितापाङ्गवीचिना लोचनयुगेन सूचितं किं निदानमिदमतिशयेनायामिनीजागरणम् ? उल्हासितश्वासा विजृम्भितजृम्भिका प्रकाशितस्वेदकणिकोगमा च पाण्डुक्षामयोर्गण्डतलयोरकाण्ड एवेयमङ्गः किमङ्गीकृता ग्लानिः १ अन्यच्च शयनीयमिदमधिशयाना, प्रविश्य प्रथममवलोकितापि निपुणं मया त्वं न दृष्टा । 30 दृष्टा च सांप्रतम् । तत्किमेतत् ? कथय तथ्यम् । अत्यर्थमाकुलं मे हृदयम् । अन्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org