________________
१७०
कविधनपा लकृता 'तारक' ! किमर्थ विषीदसि वृथा ? कस्तवात्र दोषः १ किं करोति सततमवहितोऽपि पुरुषश्छन्नवपुषां प्रकृत्यैव मायिनाम् ? कृत त्वया यत्कर्तव्यम् । आविष्कृतः स्नेहस्य भक्तेरभियुक्ततायाश्च क्रमः । प्रापितो मतिविशेषः प्रकर्षम् । आनीतमवधिमप्रयत्नेन
कार्यमारब्धम् । आहितो हेलयैवातिदुष्करो मे कन्यारत्नलाभः । यत्तु घटितोऽप्यसौ 5 झटिति विघटितस्तद्विधातुरस्मद्भाग्यदोषपोषितपुरुषकारस्य दौरात्म्यम् , न ते बुद्धिगुणस्य । तदलमनुतापेन । गच्छ त्वमेभिर्निजसहायैः सह स्कन्धावारम् । कारय किरातयोधायोधनेषु दृष्टनिर्व्याजभुजपराक्रमाणामनुजीविना जीवनमुदारम् । दापय निर्देशेन मे स्वदेशमुद्दिश्याधुनैव प्रयाणमखिलसेनापरिवृद्धं दृढवर्माणम् । कुरु चमूपुरःसरानमात्यसामन्तदण्ड
नायकान् । उत्साहय सहायविकलं कुलीनसेवकव्यूहम् । संवाहय छन्नमन्नदानेनाख10 ण्डदण्डयात्राकर्शितशम्बलमनीकदुर्बललोकम् । आलोकय त्वरितमेव गत्वा तातम् ।
अर्पय द्वीपान्तरजयार्जितं तदधिकारिभ्यः कृत्स्नमप्यनश्वरं कृत्वा कस्वरम् । उपनयाविलम्बमम्बाजनस्य यथास्वमङ्कितं नामभिरिहत्यमकलङ्कमाणिक्यमुक्ताफलविभूषणं भूषण कलापम् । प्रवितर यथायोग्यमुद्धतारातिनगरलुण्टासु लुण्टायकैराहृतानि प्रशस्तताडीपत्र
विन्यस्तलोचनलेह्यलिपिविशेषाणि पिण्डीकृत्य पण्डितेभ्यः समस्तानि पुस्तकरत्नानि । अपर 15 मपि मत्कृत्यमवधार्य निजयैव प्रज्ञया कुरुष्व निःशेषम् । मया तु न प्रदेशादितः
पदमपि प्रतीपं गन्तव्यम् । यन्त्रितोऽहमत्रैवानया तत्करद्वयीनिबिडसंदानितया करेणुरिव कण्ठरजवा स्वयंवरणमालया । न शक्रोमि वध्यस्रजमिवोद्वहन्निमां कन्धराबद्धां बन्धुलोक तं दृष्टुम् । तदेष बद्धो मया ते पश्चिमः प्रार्थनाञ्जलिः । न कार्यः कार्यवेदिना मम
स्कन्धावारगमनायानुबन्धः । किं चाङ्कदेशापहृतकलत्रेण निष्फलशस्त्रधारिणा विपक्षपक्ष20 प्रतीकाराक्षमेण नीतेनापि साध्यं मया ? यस्माद्गतेनापि तत्राकृत्रिमप्रियतमानुरागस्मरण
दारुणक्रकचदारितहृदयमर्मणा द्वित्रैरेव दिवसैः प्रवासनीयाः प्राणाः, तद्वरमिहैव दिव्य देवतायतनसंपर्कपूते निरुपहतपाथसि समन्मथव्रीडमवलोकयन्त्यास्तानि तानि मदनुरागललितानि मुहुर्मुहुः प्रतिफलितया भिन्नफलिनीश्यामावदातया तस्याः शरीरलतया कृतावगाहे
वाहिनीपतिस्रोतसि प्रियाबाहुपाशमिव शमितवेदन दधानेन वक्षसा कुसुमदामवैकक्षक, 25 कल्मषमषीमलीमसानाममीषां कृतो मोक्षः', इत्युदीर्य विहितार्णवप्रणामः ! 'हा ! हा !
कुमार ! किमिदं त्वयारब्धम् १ अलमलं साहसेन । विरम मुहूर्तम् । आकर्णय वचनमस्माकम्' इति निवार्यमाणोऽपि तेन प्रणायिना कर्णधारेण, जलनिधावात्मानमक्षिपत् ॥
२४२) निपतिते च तत्राहमप्याबद्धमरणाध्यवसाया 'समुद्रजलनिमग्नमप्येनमालिङ्ग-थ सफलीभूतजीविता निखिलदुःखायासगेहं देहमिह उत्सनामि' इति, स्वभाव. 30 कातरतया स्त्रीहृदयस्य दृढनिमीलिताक्षियुगला, ततः सालशिखरादुत्प्लुत्य जलनिधावात्मान
ममुषम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org