________________
तिलकमारी
संप्रत्येव नृत्यन्त्यास्तवातिरभसेन सारसनमध्यसद्मा समुच्छलित एष पद्मरागः । तद्गृहाजैनम्' इति । पुनः पुनर्भाषमाणं तथैवाभिमुखमर्पितेक्षणा तस्य नाविकपते विहस्य सावज्ञेव तमवादिषम्-'भद्र ! किमहं न शृणोमि, येन भूयो भूयस्तमेवार्थमावर्तयसि ? सर्वमवधारितं ते वचनम् । अङ्गीकृतश्चायं नायकः। किंतु तिष्ठतु तावद्याघदहमिहस्था । स्वस्थानमुपगता तु काञ्चीमध्यमागतं ग्रहीष्याम्येनम्' । इत्यभिहितो मया स तूष्णीमभवत् ॥
२३९) ततोऽहमादाय तस्मात्पुष्पपटलकादेकमतिमनोहरं कराभ्यां कुसुमदाम, किंचिदवनमितपूर्वकाया समुद्रपूजाव्यपदेशेन, तस्य प्राकारतलवर्तिनो नृपकुमारस्य कण्ठदेशे न्यवेशयम् । उपरि कीर्णहरिचन्दनद्रवायां च मयि स राजपुरुषस्तेनानुलेपनेन तासामस्मदासन्नवर्तिनीनां राजकन्यानामलिकलेखासु तिलकानकार्षीत् । अहमपि स्वहस्तविरचितविशेषकैकस्याः सविधवर्तिन्याः कन्यकायाः करतलादादाय वदनावलोकनव्याजेन मणिदर्पण- 10 मन्तरितपार्श्वपरिजनदृष्टिपाता तिर्यक्प्रवर्तितेन चक्षुषा तस्य तत्क्षणोपजातद्विगुणसौभाग्यमङ्गलेखालावण्यमखिलमप्यपास्तशङ्का पुनः पुनरापिषम् ॥
२४०) अथ प्रीतिपुलकिततनुः स पृथ्वीपालतनयः स्तनकण्ठावलम्बिना मकरा. र्पितेन पुष्पदाम्ना तत्र क्षणे साक्षादवाप्तपाणिग्रहणमात्मानं मन्यमानो, विहस्य किंचिद्विहितनर्मा तमात्मनः प्रणयिनं कर्णधारमब्रवीत्-'तारक ! किमीक्ष्यसे वारंवारम् ? अस्याः स्रजः 15 खण्डमपि मया न विभजनीयम् । यदि पुनस्तवाभिलाषोऽत्र, तदिमामेव भङ्ग था कयापि भूयः प्रार्थयस्वेदशीमपरां पुष्पमालाम्'। इत्यभिहितोऽसौ सदुःखमवदत्-'कुमार! कमहमिह याचे ? विफलतां गतः स तावन्मम प्रयासः । सहैव परिजनेन सा तव प्रणयिनी स्वशक्त्या तिरोधाय पश्यत एव मे नीता कैश्चिदपि मायाविभिः । इहैव स्थितस्य ते हस्तगोचरगतां करिष्यामि तामिति न पूर्णा मे मनोरथाः क्षीणपुण्यस्य' इति । अहं तु 20 तच्छुत्वा 'हन्त ! किमनेन नर्मणा भाषितमिदम् , उत कथंचिदुत्पन्नविभ्रमः सत्यमवैष मां न विभावयति, तेनैतदभिधत्ते ?” इति चिन्तयन्ती दृढानुरागनिश्चलमाकृष्य तस्य क्षितिपसूनोराननाचक्षुः समन्तादवेक्षितवती । दृष्ट्वा च तत्क्षणमेव तत्प्राकारशृङ्गमुत्सङ्गमिव हिमगिरेरक्रमोच्छन्नकल्पलतावितानं ताभिरवनीपालकन्याभिः शून्यम् , उत्पन्नसाध्वसा झगिति मोहमगमम् ॥
२४१) उपलब्धचेतना च चिन्तयन्त्यनन्तरमेवोपजायमानमात्मानोपहरणसदृशं नरेन्द्रसूनुना सह वियोगमुद्वेगाग्निनिमग्नदेहा यावदतिवाहयामि क्षणमात्रम् , तावत्सोऽपि नृपकुमारः प्राकारशिखरमवलोक्य निर्जनम् , अतर्कितोदीर्णशोकः शीर्णतरुरिवातितूर्णवातापनीतजीर्णपर्णनिवहः सहसैव विच्छायतामगच्छत् । दृष्ट्वा च तन्मया स्वहस्तारोपितमुरःस्थलावलम्बि स्वयंवरदाम युगपदारकन्दितो हर्षविषादलज्जादिभिर्भावैः, कृताकारसंवृतिः, स्थित्वा 30 क्षणम् , अकाण्डविफलीभूतनिजसमीहितविषण्ण तमात्मनः प्रणयिनं नाविकयुवानमवदत्
25
२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org