________________
कविधनपालकता
१६८
२३७ ) अहं तु प्रकृतिमुग्धापि तेनानिमित्तार्शितादरेण तस्य क्षितिपसूनोस्त. थाविधेन सहसालिङ्गनेन भिन्नहृदया विहस्य चिन्तितवती-'अहो समस्तोऽपि कर्णधारस्यास्य मत्प्रयोजनोऽयमारम्भः । तथा हि-पूर्वमेवास्य मेदिनीपालसूनोः प्रकर्षमागत
मुपलभ्यानुरागमप्रयुक्तेनाप्यनेन 'प्रकृतिदुःप्रवेशे त्वदीयमनसीव देवतागृहेऽत्र प्रवेष्टुमय5 मिच्छति' इति मे कृतं दौत्यम् । ततः 'प्रतिपालय क्षणमात्रम् , अत्र क्षणे बलवदस्वस्थं मे
शरीरम्' इति निषिद्धगमनेनापि 'विदितो मयायं तव व्याधिः, अहमेवैनमपनेष्यामि' इत्यभिधाय भर्तुर्बलात्प्रचलितेन कृतनिवारणाहम् 'एतदर्थिनीयम्' इति निश्चिता । पश्चाद्वसन्तसेनावचनमवलम्ब्य तूर्णमेव विनिवृत्तेन प्रस्तावमुपलभ्य नौग्रसादननिभेन प्रवर्तिता बहुलप्रकारम् ।
तथा हि-नानीतमात्मनः प्रार्थनालाघवम् । प्रकाशिता निजनायकस्य गुणाः। दूषितमन्य10 पक्षाश्रयणम् । कृतं ममोपलोभनम् । व्यामोहितः पाश्ववर्ती जनः । न जनितं कस्यापि
वैलक्ष्यम् । अभिहितमनाकुलेन सर्व सविस्तरमात्मप्रयोजनम् । समर्पितो निरपवादः स्वामी । सर्वथा कृतार्थ एव पार्थिवसुतः, यस्यात्यन्तदूरवर्ती प्राकृतजनोऽप्येवंभूतः'। इति विचिन्त्य भूयश्चिन्तितवती-'अनेन तावन्महात्मना कृतं स्वामिभक्तेरात्मबुद्धेश्च समुचितम् । मया
तु किमिदानी कर्तव्यम् ? यदि तावदस्य वचनमनुवर्तमाना नरपतिकुमारमेनं समाश्रयामि, 15 ततः स्वापत्यदुर्विनयजनितोद्वेगस्य गुरुजनस्य कोपोत्पादनादधर्मः । अथ बिभ्यती तस्माद
वधीरयामि, ततोऽस्य जातिमात्रव्यवहितस्य प्रज्ञानिधेमहापुरुषस्य प्रथमप्रणयभङ्गोऽस्य चात्यन्तमनुरक्तस्य राजसूनोविमानना । यदि पुनरयं भत्प्रणामविफलताजनितवैलक्ष्यः सविधवर्तिनोऽस्यापि नाविकजनस्य लज्जया जलनिधौ पतति, तन्न पातकमनेकेष्वपि जन्मान्तरेषु
याति प्रशमम् । तदलमतिभूयसा विचारेण । स्वीकरोम्येनम् । अविरुद्धो हि राजकन्या20 जनस्य स्वयंवरविधिः । कथं पुनरेतावतो जनस्य मध्ये वर्तमानया हासकरमेतत्साहसं
कर्तव्यम् ? कथं च दुर्गस्थयायमनुगन्तव्यः ? किं वानुगमनेन ? दुरस्थिताप्यनुपलक्षितानेन सहचरीलोकेन केनापि विधिना नयाम्यात्मानमस्य कलत्रभावम् । अप्राप्तसंगमयापि वरमस्य भुवनश्लाध्यसंबन्धस्य सर्वगुणनिधेर्गेहिनीशब्द ऊढः , न मूढमनसान्येन सहित
योपभुक्तमाजन्म भोगसुखम्' इति ॥ 25 २३८) चिन्तयन्त्यामेव मयि तस्माजिनालयादनुल्बणोदारवेषधारी दर्शनीया
कारेण रुचिरवाससा वामभुजनिवेशनिश्चलमनुलेपनपूर्णपर्णपुटसनाथमभिनवं पुष्पपटलकं दधानेन देवलकदारकेणानुगम्यमानः तपनवेगनामा राजपुरुषः समेत्य सादरमवादीत्'मलयसुन्दरि ! गृहागेदमानीतं मया जिनप्रतिमासमालभनावशिष्टमुत्कृष्टपरिमलमखिलजन
दृष्टिहारि हरिचन्दनम् । वन्दस्व तिलकविधिना । बधान चैतानि भगवतः पूजार्थमाहृतानि 30 दिव्यतरुकुसुमदामानि शिरसि । इति गदिते तेन सत्वरः स देवलकदारकः समुत्सारिता
ईकर्पटाच्छादनं पुरो मे पुष्पपटलकमकार्षीत् । अभाषत च हर्षोत्सेकैचोभिः-'आर्ये !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org