________________
तिलकमलरी
दन्तपङ्क्तेः कस्यापि प्रान्तभूभृतः शिरसि । करिष्यसि विफलक केनापि निपुणेन विधिना विनिर्मितं महागुणरत्नानां पात्रमुदधिपारेषु विदितविलासमतिचारुतया लब्धपताकमात्मनः शरीरलाभम् । आसाइयिष्यसि च सानुशया मदनायत्ततादोषेण सततमनिन्धनेनाग्निना पच्यमाना महाहिमकरोपद्रवपीडिताल्पदिवसैरेवोपजातजराविनाशम् । तदेवं स्थिते यद्यभिमतमङ्गनेपथ्यम् , अनुरुध्यसे मम प्रार्थनाम् , अनुकम्पसे महाभागमेन, 5 सोपयोगान्करोषि निजगुणान् , आलोचयस्यात्मनो निर्वाहम् , बिभेषि भाविनो व्यसनात् , अपेक्षसे जनतः साधुवादम् , इच्छसि कनकपट्टबन्धम् , तद् विलासिनि ! मा विधेहि द्विधाभावम्। आश्रय स्वयंवरपथम् । मानयनमक्षुण्णमार्गेण । भव यात्रोन्मुखी । प्रवर्तव सहिता समस्तेनात्मपरिच्छदेन । गच्छ निर्विघ्नमस्यैव रक्षिता महीक्षितः प्रभावेन । लङ्घय निराकुला देशकालज्ञेन सूक्ष्मदर्शिना छिद्रावरणचतुरेण चारित्रवता प्रतिक्षणं 10 विनोद्यमाना मया नदीनामीशम् । प्रविश निरन्तरच्छत्रखण्डच्छादिताम्बरपतिभिः परिवृता सर्वतो दर्शितपताकाडम्बरं शिबिरम्। कुरु करग्रहणोत्सवानन्दिताभिः प्रधानदासीभिः पर्यन्तेषु संचारितचामरा चन्द्रलेखालंकृतेन मुखेन सकङ्कणा कौतुकानि । भव महानरेन्द्रपोतप्रणयिनी । प्रतीच्छ पूर्णोपयाचिताभिः प्रकृतिभिः सादरमुपनीताः पदे पदे समधुकरकाः कुसुमस्रजः । भज निराकुलमनारतोत्सवान् । प्रवर्तय तरङ्गताडचमान- 15 पृथुनितम्बफलका तीरतरुकुसुमशबलितस्रोतोजलासु वेलानदीषु जलक्रीडाम् । उपरि विततविशालसितपटा च संचर स्वयमनेनोपदिश्यमानमार्गा निसर्गशिशिरेषु वारिराशेरस्य सुवेलमलयोपान्तवर्तिषु । किं वानेन बहुना ? प्रभुरप्येष भृत्यतामुपनीय सहितः समस्तेनात्मवित्तेन तव समर्पितो मया । कुरु स्वमहिमोचितम्' । इत्युदीर्य कन्धरानिहितपाणिस्तं मे नृपकुमारं चरणयोरपातयत् ॥
२३६ ) असौ तु कृत्वा प्रणतिमुन्नमितवदनो घिलक्षया दृष्टया विलोक्य मे मुखमुद्भिन्नहासः सविलासमुल्लासितेन लीलारविन्देन ताडयित्वा शिरसि तमवोचत्'मूर्ख ! कस्यास्त्वया कारितः प्रणाममेवमत्यादरेण १ का चेयमन्यतो मुखनिबद्धकरसंपुटेन प्रसादिता भवता, यां प्रसादयितुमिदमेतावदनिबद्धमभिहितं त्वया १ जानासि तां क्व सा तिष्ठति' १ इति ब्रुवाणं तमन्तर्मुखनिरुद्धहासोद्गमः स नाविकयुवा पुनरवादीत्- 25 'कुमार ! दोषग्राही शून्यहृदयश्च त्वमिति निश्चितं मयाद्य, येन सर्वदा प्राकृतलोकसहवासिनः प्रकृतिमुग्धस्य ममाप्युचितकारितां विचारयसि । एतामपि पुरस्थितां प्रत्यक्षदेवी प्रसादितां "का त्वयेयम्' इति पृच्छसि । अहो, सालस्याग्रतो देहि दृष्टिम् । प्रकटमेवावेदयामि। येयमभ्यर्ण आस्ते नौ रतिरूपधारिण्यवनिपालनन्दनी, सा त्वदर्थे मयेत्थमभ्यर्थिता । त्वमप्यस्या एव पातयित्वा चरणयोः सह समस्तेनात्मविभवेन भृत्यतां नीतः, न कस्या- 30 श्चिदन्यस्याः' । इति गदन्तं च तं सहासमाकृष्य भाविततदीयवक्रालापसंजातहर्षः सहर्ष पुनः पुनराश्लिक्षत् ॥
.0
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org