________________
कविधनपालकृता २३५) अभाषत च सप्रश्रयो वचनम्-'आयें, कालोचित कृत्यमुपादिशन्त्या त्वया किमप्यनुगृहीतोऽहम् । को हि भवतीं विहायेदृशं वक्ति १ करोमि सर्व यत्त्वयादिष्टम्' । इत्युदीर्य घटितकरसंपुटः परस्परमुखप्रहितकौतुकस्मेरतारकाभिः' 'मुग्धो वराक' इति शनैब्रुवाणाभिदृश्यमानस्ताभिरस्मत्सहचरीभिरुच्चोच्चारिताक्षरेण वचसा वक्तुमारभत5 'तामात्मना वन्दे विदृष्टदुस्तरास्मद्व्यसनविषण्णमनसा निसर्गकरुणामन्तःसौहार्दमनु
रुध्यमानया परोपकारविधिनिबद्धावधानया निवर्तितो गमनादेतया मान्यया, प्रवर्तितश्च निःसामान्यया स्वामिभक्त्या, वक्तुमिच्छति किमप्ययं भृत्यपरमाणुः । मा कृथाः पृथुश्रोणि ! तरल इति जाडयोपहत इति जालिक इति ग्राम्य इत्यत्रज्ञाम् । नाहमीदृशः, प्रियदर्शने !
यादृशं पश्यसि माम् । अग्रेसरोऽह सर्वधीवराणाम् , प्राग्रहरो दूरदर्शिनाम् । जानाम्य10 हमनेकप्रकारा भुजङ्गानां गतीः, अवैमि दृष्टिगोचरगतानां मत्स्यादिरूपधारिणां सत्त्वानां
चेष्टाः, स्रष्टा स्वयं नागरकवृत्तस्य, प्रकृष्टः किमपि विश्लिष्टानां संधिघटनासु । विद्यते विशिष्टा वंशसंपत्तिः। अस्ति च परोपकारकरणेषु तत्परता । त्वमपि गुणवती गम्भीरा सकर्णा बहुक्षमा स्थिरा महार्था महापुरुषोद्वहनयोग्या पात्रमिति सम्यग्विज्ञाता मया ।
यत एवं विज्ञापयामि । एव तावत्स्वामितनयः, स्वामिनि ! भवत्यैव हेलोत्तालचलनरण15 न्मुखरमञ्जीरया सलीलवलगत्तुङ्गतरपयोधरकलशया मदवशाद्दर्शितासमञ्जसचेष्टया मुहुश्च
लन्त्या मुहुर्विलम्बमानया मुहुर्मुद्यन्त्या मुहुर्विभ्रमानातन्वानया प्राप्तमात्र एवात्र पराममस्वस्थतामानीतः । विसंस्थुलावयवच यावत्किल प्रतीकारहेतोः स्थानान्तर प्रापयामि, तावदयमकाण्ड एव क्षुभितेन बिभ्रतातिभीषण रूपमुच्चापेनामुना मीनध्वजेन ध्वज
इवोत्पातपवनेन सुतरां कृतः पर्याकुलः । विक्लीवीकृतं चैनमुत्कलिकाभिस्त्वमाश्वासयितुमेका 20 क्षमा । किमर्थमौदासीन्यमवलम्बसे ? रक्ष सर्वथा दुर्निवारान्मारोपद्रवान्नृपकुमारम् ।
आर्तोऽहमतिमात्रमत्रावसरे । वरगात्रि ! त्वमस्य शरणम्, त्व परित्राणम् , त्वमाश्रयः, त्वं विश्रामभूमिः, त्वमवलम्बनम्, त्वयायं गतिमान् , त्वया चेष्टावान् , त्वया कर्णधारिण्यास्य वचने प्रवृत्तिः, त्वया व्यापारितस्निग्धतारकया जीवितव्यम् , त्वयानुकूलं
वर्तमायानुकूलं दैवम् , त्वयि प्रसादवत्यां प्रसन्ना देवता, त्वयि कृतानुग्रहायामनुग्राहिका 25 ग्रहदृष्टयः । प्रसीद मानिनि ! परिहर भ्रमम् । आलोचय स्वकार्यमल्पमपि । मा दोला
यस्व । कृत्वा स्थिरमवस्थानम् , अत्रैवारस्व तावत् । मा, प्रकृतिपारिप्लवाभिराभिर्नीता तरलतां परमान्तरङ्गालीभिः, उत्पत नभसि । मा निपत सागराम्भसि । मा प्रविश रसातले । मा समाश्रय दिगन्तान् । अहृदये ! स्थानादितः प्रस्थिता न किंचित्प्रसाधयिष्यसि
स्वार्थम् । केवलं महात्मानमेनमुद्वेगावर्ते महति पातयिष्यसि, स्वयं च कन्दर्पपीडिता 30 पतिष्यसि । परित्यजन्ती च दूरारूढं मध्यस्थमधिष्ठातारं त्रातारमीदृशं पुरुषमात्मपरिजन
स्यापि शोच्यतामुपयास्यसि । लोके च लघुतां वक्रतां कठोरतामूर्ध्वमुखतामकुलीनतामचेतनतां प्रकाशयिष्यसि । प्रवर्तिता च गुरुभिबैर्वातैरनिच्छन्त्यपि पतिष्यसि जराजर्जर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org