________________
तिलकमञ्जरी
पतयः, तावदतर्किता एव गत्वा समाश्रयामः शिबिरम्। इत्यभिहितः स तेन मत्संनिधिपरित्यागकातरो न किंचिदस्य प्रत्युत्तरमदात् । पुनः पुनरनुबध्यमानश्च मधुरमधुरे ध्रुवोः कपोलयोरलकेषु च कृतासङ्गमाकृष्य कृच्छादिव मन्मुखाच्चक्षुस्तदभिमुखोऽभवत् । अभाषत च मन्दम्-'सखे तारक ! प्रतीक्षस्व तावत्क्षणमेकम् । अत्र क्षणे बलवदस्वस्थ मे शरीरम् , प्रवृत्ता शिरसि वेदना, दृढारम्भा जम्भा, विज़म्भते निकामं रणरणकदायी 5 केनापि कारणेन दारुणावेगो दाहज्वरः । यतोऽस्य विनोदनायास्मिन्नेव प्रचुरकपूरचन्दनप्रायपादपच्छायशीतले प्रदेशे मुहूर्तमेकमवस्थातुमभिलषति मे हृदयम् , तथापि त्व' प्रमाणम्' । इत्यभिदधाने तस्मिन्महाभागे स भूयोऽप्यभाषत-'कुमार! यद्यहं प्रमाणं तन्न युज्यते निमेषमात्रमपीह स्थातुम् । अतिबहुदोषमत्र प्रदेशे चिरावस्थानम् । एष च व्याधिरनावेदितोऽपि विदितो मया । निदानं चास्य विज्ञातम् । अत एव प्रतीकारहेतोः 10 स्थानान्तरमितस्त्वां नेतुमिच्छामि । योऽपि कर्पूरचन्दनच्छायशिशिरः प्रशमहेतुस्त्वया परिकल्पितः प्रदेशः, सोऽप्यस्य तव शरीरसंतापस्य सन्निपातज्वरस्येव सुतरां संतर्पकः प्रकारान्तरेण शमयितव्यः । तदलमावेगेन । यथा सामर्थ्यमवसरेऽस्य यत्नमहमेव चिन्त. यिष्यामि' । इत्यभिधाय तं त्रपानतवदनमप्रकटितस्मितः स्थानादचालयत् ॥
२३४) प्रस्थिते च तस्मिन्नरतिपरिगृहीताहमनवरतपरिवर्तितकन्धरस्य विसृजतः 15 सदैन्यमिव सदुःखमिव सप्रार्थनमिव सात्मसमर्पणमिव मदीक्षणयुगे वारंवारमनिमेषतारक चक्षुरवनिभृत्कुमारस्य तस्य, त्वरावता चित्तेन चिन्तयन्ती स्थित्युपायान्बलवदनुरागप्रेरिताप्युदासीनेव तां वसन्तसेनां पुनरखोचम् -'सखि ! निषिद्धोऽपि जाल्मः प्रस्थितोऽयं जालिकः । कृत्वा च पुरतः प्रार्थनामकृतार्थ एष व्रजति राजपुत्रः । तन्निवर्तयाभिधाय यत्किंचिदेतो, स्थिरीकुरु तावद्यावदेति प्रवेशमार्गोपदेष्टा कोऽप्यमुष्माद्देवतायतनात् । अन्यथा महन्मालि- 20 न्यमायातमस्माकम्' । इत्युक्ता च सा पुनस्तमारभत वक्तुम्-'अहो कर्णधार ! विगतकर्ण इव गाढमस्वस्थमनसः कथयतोऽपि सव्यथां निजावस्थामस्य पृथ्वीपालसूनोरनाकर्ण्य वाचं प्रचलितस्तूर्णमेव केनापि हेतुना त्वम् । एष च पयोराशिरत्र क्षणे विज़म्भमाणसमधिकाम्भःक्षोभ इव दृश्यते । यतो विततदुर्वातताडिताभिस्तरङ्गततिभिरुत्सङ्गिता गन्तुमनिच्छतीय दोलायते तवेथे यानपात्री । तद्यदि करोषि मे वचनम् , आलोचयसि नीति- 25 मार्गम् , इच्छसि कुशलमस्यात्मनायकस्य, तन्निवर्तय तावदेनम् । प्रसादय च विस्तरेण स्तावकर्वचोभिः । आचक्ष्व च समस्तमास्ते मनसि यद्विवक्षितम् । इयं हि तब गोत्रदेवता सर्वकालमेवोपासनीया, विशेषेणाद्य विषमजलदुर्गपतितस्य । किं च प्रतीक्षस्व तावत्प्रसीदन्तमुदधिम् । अतिवाहय वहन्तमेतमशुभ मुहूर्तम् । आसादयोपजायमान मनोज्ञं शकुनम् । अथ निशमिताखिलत्वन्मनोदुःखसंजातकरुणया कृतानुग्रहोऽनया गच्छ निर्विघ्नम्' । इत्यभि- 30 हितस्तया शीघ्रमेव तां नाव न्यवर्तयत् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org