________________
कविधनपालकृता विधृतसमानोच्चये काञ्चिधामनि, मुहुः सत्वरमितस्ततः प्रचलितायाः प्रतिवेलविघटमानवेलाञ्चलदरदर्शिातावूरुदेशे, दृष्टिमापतन्ती न वारयितुमशकत् ।।
२३१) क्षणाच्च तेन प्रचलितसविभ्रमकभ्रवा व्यापारितः स्वभावमधुरस्वरः स्वैरमु. त्थाय पादितिशयमनोज्ञाकृतियुवा कैवर्त एकः प्रणम्य सप्रश्रयं मामघोचत्–'देवि ! 5 सकलपृथ्वीपालमौलिमालाप्रणामलालिता ः सिंहलद्वीपाधिपस्य राज्ञश्चन्द्रकेतोरात्मजः समरकेतुनामा कुमार एष सागरान्तरद्वीपविजयप्रसङ्गेन कथमपि प्रदेशमिममायातः । दृष्टं चास्मिन्नदृष्टपूर्वमन्तःकरणमिव तावकीनमकृतपुण्यजनदुष्प्रवेशमिदं देवतायतनम् । अत्र च प्रवेष्टुमयमिच्छति । तदादिश्यतां कोऽपि निजपरिजने योऽस्यावतारमार्गमुपदिशति' ।
इत्युदीर्य वचनमुपरतवाचि तस्मिन्नभ्यर्णवर्तिनीमवन्तिविषयाधिपस्य राज्ञः परमसंमता10 मतिप्रगल्भवचसं वसन्तसेनाभिधानां विलासिनीमवदम्-'सखि ! निवेदय यथावृत्तमद्यतनमस्मवृत्तान्तमस्य महाभागस्य' इति ।
२३२) अभाषत च सा—'भद्र ! किं कथयामि ? अभाजनमयं जनो भवत्समीहितावेदनसुखस्य । न हि सा भाग्यसंपन्मम, ययास्य भवत्स्वामिनो मनोभिमतमर्थ
साधयामि । अद्यैव रात्रावियमिहानीता नायिका नः केनापि । असावपि दिगन्तविख्या15 तयशसां महामण्डलपतीनामात्मजः सर्वोऽपि वैदेशिकः कन्याजनः । त्रिभुवनातिशायि
सौन्दर्यसंपदे तदप्यदृष्टपूर्व रूपमिव नृपकुमारस्यास्य दिव्य देवतायतनमस्याः । कथमेतदीयान्विशेषानवगच्छति ? कथं चास्य तव नायकस्य प्रवेशे नितान्तमपि सस्पृहा मार्गमुपदिशति ? किं च, संप्रति गता तावदन्यचिन्ता, आत्मापि चिन्त्यो वर्ततेऽस्याः ।
किमत्रैव जलधौ कालमतिवाहयिष्यामि १ किमतोऽपि दूरं यास्यामि १ किमन्यदीयावास20 विहितस्थितिरनभिप्रेतमात्मनो दशान्तरमनुभविष्यामि ? किं वा भूय एव स्वभवन नेतव्या ?
को हि जानाति सम्यग्देवगतिम् ?' इत्युदीय त्ष्णीमास्थितायां तत्र कृतविलक्षस्मितो नाविकः स तमवादीत्—'कुमार, स्थितं तावदेवतादर्शनम्' ॥
२३३) असौ तु दूराकृष्टधन्वना कुसुमकार्मुकेण मदर्शनैकशरणः कृतः । तेन विच्छिन्नवाञ्छितार्थविरसेनापि वचसा श्रुतेन मनागपि न खेदमवहत् , प्रत्युत तदेव 25 बह्वमन्यत । स्थित्वा च क्षणं स नाविकः पुनरवोचत्-'युवराज ! दृष्टेयमदृष्टपूर्वा
मानुषैरमरसद्मनिवासिनामपि विस्मयकारिणी भूमिः । अवलोकितानि कल्पलतावनद्धविद्रुमपादपानि वनानि, वीक्षिता दर्शनेनैव सर्वहृदयसंज्वरद्रुहश्चन्द्रोदयक्षरितचन्द्रकान्तकन्दरानिर्झरसहस्रकल्पिताकालदुर्दिना महागिरेरस्य सानवो, निवृत्तकौतुकैरपि किमद्यापि
विलम्ब्यते १ प्रसीद, यामः प्रतीपम् । पृष्ठतस्त्वामनवलोकयन्नाकुलो भविष्यत्यशेषः परि 30 जनः । विक्लवत्वमुपयास्यन्ति सेवकाः । तदद्यापि यावत्प्रयाणखेदनिःसहो राजकुलममात्य
लोको न याति, यावच्च वृत्तान्तमुपलभ्य भवतः सर्वतो जातसंक्षोभा न प्रधावन्ति भूमि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org