________________
तिलकामारी
स्तस्यापि त निजसखीजन प्रियमपि सरोषमीक्षमाणा ; 'काहम् , क्वागता, क्व स्थिता, को मे देशः, के ज्ञातयः, किं मया प्रस्तुतम् , किमारब्धम् ' इत्यजातस्मृतिः; अशृण्वती शब्दमचेतयन्ती स्पर्शमनुपजिघन्ती गन्धम् ; केवल तस्यैव रूपलेखावलोकने तस्यैवावयवपूर्णतानिवर्णने तस्यैव यौवनोदभेदभव्यताभावने तस्यैव विभ्रमक्रमनिभालने निलीनचित्ता; दूरस्थिताप्यसाधारणप्रेमदर्शनोत्पन्नकारुण्येन केनाप्युत्क्षिप्य तत्समीप गमितेव, तद्भुजा- 5 श्लेषस्य भाजनीकृतेव, तत्संभोगसौख्यमनुभावितेव, निष्पन्दसकलावयवा, स्यन्दमानानन्दजलविद्युषा ; किमारब्धमुकुलया किं विकाशोत्तानया किं स्तिमितया किं तरत्तारकया कि मुग्धया किमङ्गीकृतप्रागल्भ्यया किमालम्बितकुटिलभावया किं प्राञ्जलया, तत्कालमहमपि न जानामि कीदृश्या दृशा तमद्राक्षम् ॥
२२९) सोऽपि नृपकुमारः सविभ्रम परिभ्रमन्तीनामाकर्ण्य तासां राजकन्या- 10 नामाभरणमणिरणितमनणुतरमुपरि तस्य प्राकारस्य संक्रमितदृष्टिराविष्कृततथाविधानेकविभ्रमां मामपश्यत् । दर्शनादेव चासौ जन्मसहभुवं पुमानिव सांख्यपरिकल्पितः प्रकृतिममुञ्चन्निसर्गधीरोऽपि सागर इव तरङ्गानितस्ततस्तरलकुटिलानक्षिपत्कटाक्षान् । अस्पृष्टो. ऽपि जलनिधिमारुतेन प्रत्यङ्गमुद्गतपुलकपद्धतिरकम्पत । चिरोत्सृष्टमुक्तनिद्रोऽपि तत्क्षणप्रतिबुद्ध इव साङ्गभङ्गमज़म्भत । प्रगल्भवागपि सगद्गदस्वरः स्वकर्मसु कर्णधारानतत्वरत् । 15 दर्शथितुमिव मे भुजाश्लेषलीलामुदीरितचतुरवचनां चामरग्राहिणी सहासमाश्लिक्षत् । प्रकाशयितुमिव वदनचुम्बनप्रपञ्चमीषदामीलितदले लीलांबुजन्मनि प्रवालपाटलमधरपल्लवपुटमजीघटत् । निवेदयितुमिव दन्तच्छदच्छेदमनिमित्तमेवादाय नागवल्लिदलशकलमग्रदशनसंदशेन शनकैरखण्डयत् । कथयितुमिव नखच्छेदवैदग्ध्यमायताङ्गुष्ठकररुहाग्रेण तरुणकेतकगर्भपत्रमनतिदीर्घलेखालाञ्छितोदरमकार्षीत् । प्रपञ्चयितुमिव ताडनक्रममकाण्डदर्शिताश्ली. 20 लचेष्टां समासन्नसंवाहिका सहासः करतलाग्रेण स्कन्धदेशे पुनः पुनरवधीत् ॥
२३०) निनोतुकामश्च लज्जयात्मनो मन्मथविकाराननेकानि चित्तहारीणि चेष्टितान्यकरोत् । तथा हि-मदवलोकनाबद्धस्यन्दमानानन्दाश्रुबिन्दुविसरमतिभास्वरेण रत्नादर्शतेजसा जनितमिति मुहुर्मुहुरपप्रथत् । मदीयलीलालापप्रदत्तावधानः शून्येन मनसा बन्दिनं सुभाषितान्यपाठयत् । मत्समागमध्यानमीलिताक्षः पुरःस्थापिते पृथैव तूलिकया चित्रफलके 25 रूपमलिखत् । मदीयविभ्रमोत्पादितरिरंसश्चेतसा नीरसेन मुकुलितेक्षणो वीणारवानभावयत् । प्रयत्नानीतधैर्योऽपि मुहुर्मम सखीभिः सार्धमारब्धमुग्धसंलापायाः पर्यस्तसान्द्रदशनदीधितावधरदन्तवाससि, मुहुरवस्रस्तकेशहस्तोन्नमनाय साचिसंचारितवामकरतलायाः प्रकटपरिणाहे बाहुमूले, मुहुर्मुक्तसविकारसीत्कारायाः शिशिरनीरधिमरुन्निरोधाय झगिति विन्यस्तबाहुस्वस्तिके स्तनयुगोत्सङ्गे, मुहुश्चटुलनेत्रकञ्चकाग्रपल्लवप्रकाशितनाभिदेशाया नगरसीम्नीव सरोमा- 30 लिनि मध्ये, मुहुस्तन्मुखार्पितदृशः कृत्वान्तरे सहचरी सयत्नमाबद्धपरिधानकक्षायाः सहास
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org