________________
१६२
कविधनपालकता कम्पितकुचयुगा कथमपि निरुन्धती कण्ठदेशागतमाक्रन्दशब्दमुपसृत्य सप्रश्रयमग्रतः परमया भक्त्या प्रसारितसकलगात्रयष्टिस्ताडयन्ती कुट्टिमे मुहुर्मुहुर्ललाटमाबद्धकरसंपुटा प्राणसिषम् । उत्थाय च पुरो निविष्टा विष्टपत्रयगुरोरास्यचन्द्रमसि निहितनिस्तरङ्गदष्टिर
नवरतनिर्यद्वाष्पमनिवार्योत्कण्ठमशक्यमावेदयितु स्वसंवेद्यमानन्दशोकमिश्र किमप्यवस्थान्त5 रमनुभवन्ती निश्चलाङ्गयष्टिश्चिरमतिष्ठम् । प्रवर्तिता च सहचरीभिरर्णवं द्रष्टुमभ्यर्णवर्तिनैकेन सोपानवर्त्मना दक्षिणां देवतागृहप्राकारभित्तिमध्यरोहम् ॥
२२७) तस्याश्च संघट्टविघटमानमुखरवीचिशिखरशङ्खश्रेणिना वारिधिजलेन प्रतिवेलमास्फालितस्फाटिकशिलायास्तलविभागे निविष्टदृष्टिः उत्कृष्टनौयानाधिरुढम् , अध्यासित
मकरमिव यादसां नाथम् , ईशाननयनानलादुपद्रुतमयुग्मेषुमिवागत्य संश्रितजलदुर्गम् , उदधि10 सौहृदाकृष्टहृदयमवतीर्णमन्तरिक्षादिव नक्षत्रनाथम् , इतस्ततो विनिहितैरसिगदाचक्रचापैः
प्रकाशितपौरुषप्रकर्षमर्णवनिवासिदानवशासनाय शेषशयनमुत्सृज्य चलितमिव जलशायिन देवम् , उभयतः स्थापितमृदुस्थूलहसतूलोपधाने धौतनेत्रप्रच्छदाच्छादिते कुमुदगर्भच्छदावदातद्युतिनि दत्तपट्टशयने निविष्टम् , अनुपृष्ठमुपहितस्य महतो हेमपीठस्य शिरसि
विनिवेशितद्विगुणदक्षिणेतरभुजस्तम्भमभ्यर्णोपविष्टैः कैश्चिदुद्धतधवलचामरैः कैश्चिदु. 15 त्सङ्गितचरणयुगलैः कैश्चिदुत्क्षिप्तताम्बूलवीटकैः कैश्चित्प्रवर्तितरजनीवार्तालापैत्रिचतुरैरेव
चतुरैस्तरुणपरिचारकैः परिगतम् , अनासन्ननिःसहनिष्पन्दनिद्राक्लान्तकतिपयकर्णधारम् , उदारतेजसातुलबलेन दीर्घबाहुना सुवर्णकटकोद्भासितेन प्रशस्तायतिना प्रकामकान्तालोकेन सुकुमारेण सम्राजेव वपुषा जिताशेषभुवन, भवनभिव सौभाग्यस्य, स्वरूपमिव
रूपस्य, लयनमिव लावण्यस्य, किंचिदधिकाष्टादशवर्षवयसमुर्वीपतिकुमारमद्राक्षम् । दृष्ट्वा 20 चोपजातविस्मया चेतस्यकरवम्-'अहो, निरवधिरत्नसंभारा भगवती भूतधात्रीति सत्यः
प्रवादोऽयम् , येन पृथुपार्थिवोपदेशात्सुमेरुमुख्यैः शिखरिभिः प्रयत्नदुग्धनिःशेषरत्नाया अप्यमुष्या दृश्यन्त ईदृशान्यद्यापि पुरुषरत्नान्युत्पद्यमानानि, येषां रूपलावण्यादिगुणगणः कुसुममार्गणस्यापि रूपगर्वमपहरति' इति ।
२२८) चिन्तयन्त्या एव मे साभ्यसूयः स्वरूपमाविष्कर्तुमिव हृदयमविशद्25 गृहीतशृङ्गारो मकरकेतुः । तदनुमार्गप्रविष्टरतिचरणलाक्षारसलाञ्छितेष्विव प्रससार सर्वाङ्गेषु
रागः । वीतरागदेवतागारसंनिधौ विरुद्ध रागिणामवस्थानमिति क्षायितुमिव तमक्षारीस्वेदविसरः। स्वेदजलजनितजाडयाद्रकेव बद्धप्रबलकम्पा किमपि रोमाञ्चजालकमुच्चममुचत्कुचस्थली । ततोऽह लज्जयानुरागेण च युगपदास्कन्दिता; 'शीतलो जलधिवेलानिलः' इति
विमुक्तसीत्कारा मुहुः सहचरीजनमन्तरे कृत्वा, 'कर्कशो बालातपस्पर्शः' इति मुहुरुत्तरीयां. 30 शुकेनानन स्थगयित्वा, 'श्रान्तातिदीर्घसोपानपथलङ्घनेन' इत्यङ्गभार शालशृङ्गोत्सङ्गस
ङ्गिन ऋत्वा, कृतोपसर्पण कृतसंलाप कृताकारनिरीक्षण कृतपरिहास न केवलमात्मन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org