________________
तिलकमारी
धानामकाले परकलत्रदर्शनम् । अलं च पवनातिना क्लेशितेन । इयमेव चित्रलेखा बालभावात्प्रभृति तस्याः प्रियसखी निजप्रेम्णैव विज्ञाय कथयिष्यति यथावस्थित सर्वमपि तवृत्तान्तम् । अपरं च यदि सा सत्यमेव वत्सा गन्धर्वदत्ता, ततस्तया सह दर्शनमस्माकमचिरकालभावि । स एव भगवता तेन त्रिलोकविख्यातयशसा कालत्रयज्ञेन ज्ञानचक्षुषा प्रत्यक्षीकृतोऽस्या एव मलयसुन्दर्या विवाहसमयो मयैव प्रस्तुतः साधयिता । कृतमौत्सु- 5 क्येन ।' इति चिरं मया मन्त्रिणा च सार्धमारब्धसंलापस्य खेचरपतेः प्रशंसनिव वचनमुपतोरणं रराण प्रभातशङ्खः॥
२२४) श्रुत्वा च त स विद्याधरेश्वरो विरतसंगीतकरसावेशो निवेशितमतिः स्नानदेवार्चनप्रभृतिनि प्राभातिके कर्मणि समासन्नोपविष्टानवलोक्य दृष्टया प्रसादस्निग्धया सर्वानेव देवयात्रादर्शनागतान्विद्याधरपतीन्क्रमेण विससर्ज । निक्षिप्तदृष्टिश्च मयि नरेन्द्र- 10 कन्यकासु च तासु किमपि स्वचेतसा संप्रधार्य युगपन्न्यश्चितोभयभ्रुसंज्ञया मनोज्ञवपुष पुरुषमाप्ततममाजुहाव । सजवमुपसृत्य स्थित च त पुरस्तादास्यविन्यस्तवस्त्रपल्लवव्यञ्जित. प्रश्रयम् , 'अरे तपनवेग ! त्वरितमस्याः काञ्चीनृपदुहितुः, किंचिदस्मत्कृत' दर्शयित्वा बहुमानमद्भुतवस्तुदर्शनेन, कुरु सफलमिहत्यमागमनम् । एताभिश्च सह समस्ताभिरवनिपालतनयाभिः प्रापथैनां प्रच्छन्नरूपामेव निजसदनम्' इति शिक्षयित्वा कृत्वा च देवता- 15 प्रणाममासनादुत्तस्थौ । अनूत्थितासन्नखेचरपरिवृतश्च गत्वायतनमण्डपद्वारमध्यासितमहा. हमणिमयविमानो विलोकयन्त्या एव मे ज्ञगिति नवनिशात निविंशनिर्मलमाकाशमुदपतत् ॥
___ २२५) प्रस्थिते च तत्र त्रिकूटाचलाभिमुखमौत्सुक्यतरलेक्षणस्तत्क्षणमेव पुरुषः स तासां क्षितिपकन्यानामाधिपत्ये सगौरव मामतिष्ठिपत् , प्रवर्तयामास च पुनः पुनः समासन्नरम्योद्देशदर्शनाय । ततोऽहमुत्साहिता तस्य वचनैरुत्थाय, ताभिगृहीतवेत्रच्छत्र. 20 चामराभिरनुगम्यमाना सहचरीभिः, प्रथममेव प्रविश्य परितः प्रेषितानिमेषदृष्टिदृष्टमिव पुरा, सेवितमिव भवान्तरे, कारितमिवात्मना परिमलितमिव सर्वकालमवलोक्य प्रीतहृदया प्रासादमग्रतो, गर्भगृहगर्भे प्रतिष्ठितम् , अदभ्रदेहप्रभाप्रसरदूरापसारितज्वलदुदन. दीपिकालोकम् , इभमृगेन्द्रचक्राध्यासिते सुराचल इव मरीचिमालिनम् , अमलरोचिषि हिरण्मये महति सिंहासने समासीनम् , अचिराभिषेकनिष्पङ्कपरिकरम् , आचरणमामो- 25 दिना हरिचन्दनेनाङ्गरागेणानुलिप्तम् , प्रतिकुसुमोपविष्टनिष्पन्दषट्पदनिपीयमानमकरन्दाभिराजानुलम्बिनीभिरभिनवसुरद्रमस्रम्भिरुपरचितसर्वावयवपूजम्, उत्क्षिप्तसान्द्रकालागुरुक्षोदधूपम् , अतिमहाप्रमाणवनमणिशिलामयम् , अतिशयप्रशान्तदर्शनम् , अपश्चिमस्य भगवतो महावीरजिनवरस्य जन्ममरणार्णवावर्तवर्तिजन्तुनिकुरम्बैकावलम्बन बिम्बमद्राक्षम् ॥
२२६) दृष्ट्वा च तत्पितरमिव चिरात्प्रवासागत स्वामिनमिव सर्वदा कृतोप- 30 .. कारमारूढगाढोत्कण्ठा स्मरन्तीव पूर्वसंसृष्टस्य कस्यचिदभीष्टजनस्य निर्निमित्तोदीर्णमन्युवेग२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org