________________
कविधनपाल कृता
विज्ञातम् ' ? ' तात ! विज्ञापयामि । अतः समयादतिक्रान्तसंवत्सरे त्रिकालदर्शी मुनि - महायशो नाम महातपोभिरनेकैः परिवृतो महर्षिभिः काञ्च्यामुपाययौ । बाह्योद्यानविनिविष्ट ं च द्रष्टुमाविष्ट इव कौतुकेन सर्वोऽपि नगरनिवासी निर्गतो जनः । जनन्यपि मे, प्रयुकान्त शिकविज्ञापितेन कृताभ्यनुज्ञा तातेन, परिमितपरिच्छदा मामादाय गता 5 तदर्शनाय । दृष्टश्च स महात्मा । पृष्टश्च विधिप्रयुक्तपूजया प्रस्तावमुपलभ्य - "भगवन् ! अखिलभुवनख्यातविद्याधरवंशसंभवाहमपुण्यभागिनी शिशुरेव नगरविप्लवे विप्रयुक्ता बन्धुभिः ; भूयांच कालो वर्तते ममात्र तिष्ठन्त्या ; न केनापि निष्करुणेनान्विष्टाहम
दोषा; मम गुरुस्नेहोऽपि गुरुजनो जनः संजातः; तत्किमेवमेव सर्वदा शोकहुतभुजा दह्यमानदेहायाः प्रयास्यन्ति दिवसाः, उत समागमो भविष्यति समं तैः ?" इत्यभिधाना 10 श्रुता मया' | 'वत्से ! ततः किमुक्तं तेन भगवता ? किं च तवाम्बया पुनः' ? 'तात ! तेनेदमभिहिताम्बा--"वत्से ! मा विषीद । भविष्यत्यचिरेण ते सर्वैर्ज्ञातिभिः सह समागमः” | अम्बयापि तच्छ्रुत्वा समुपजातपरमपरितोषया पुनर्विज्ञापितोऽसौ प्रणम्य सादरम् — “भगवन् ! उद्धृताहमनेन तव वचनानुग्रहेण महादुःखपङ्कमना । तत्प्रसीद | पुनरादिश कदा भविष्यति मे समागमो बन्धुभिः " ? अथ संजातपक्षपातः क्षणं ध्यात्वा 15 सविधवर्तियां मुहूर्तमारोपितदृष्टिः “महाभागे ! यदा तवेयमायुष्मती दुहिता – ” इत्यादि किमप्यवादीत्' | 'वत्से, कथय किमुदीरितम्" । 'तात, न मया सम्यगवधारितम् ! 'वत्से ! कथमन्तिकस्थयापि नावधारितम्' ? ' तात ! तस्मिन्क्षणे मनाख्यप्रमानसेवाहमतिष्ठम् ' । ' देव ! किं क्रियत इतीदृश एव व्यग्रताहेतुरस्याः स क्षणः संपन्नः' ! 'आर्य ! ज्ञायते किं तेन ज्ञानिना गदितम् ' ? ' देव ! किमत्र ज्ञेयम् ?' 'यदा तवेयमात्मजा 20 जामातुरासादयिष्यति करग्रहणोत्सवं तदा ते ज्ञातिभिः सह समागमः' इति । 'वत्से !
किमेवम्' । ' देव, दूरावनतविलक्षवदनया करनखशुक्तिर्निभृतमुल्लिखन्त्या मणिकुट्टिम किमयमर्थोऽनया न प्रकाशितो येन वारंवारमेनां प्रश्नेन खेदयसि ? शतशोऽपि प्रेरिता नैनमर्थमयं वचनवृत्त्या व्यक्तीकरिष्यति । 'आर्य ! तथापि पृच्छामि' | 'वत्से, किं न 'कथयसि परमार्थम्' ? ' तात ! कथितमेवार्येण सर्वे यथावस्थितम्' | 'वत्से, प्रस्तुते विवा 25 होत्सवे केनाप्यनावेदितवृत्तान्तानां कथमिह ज्ञातीनामागमनमिति कस्मान्न पृष्टोऽसौ दिव्यदृष्टिस्त्वन्मात्रा' ? ' तात ! सर्वमपि पृष्टः । तेनापीदमादिष्ट' भगवता - " महाभागे ! मा त्वरस्व । स्वत एव ज्ञातवृत्तान्तस्त्वत्पिता स्वगृहमानेष्यति त्वया सहैनाम्, अनुष्ठास्यति च सर्व स्वयमेव करणीयमस्याः" इत्युदीरितवान्' । 'देव ! किमुत्पन्ननिश्चयैरपि प्रश्नानुबन्धेन खेद्यते राजपुत्री' ? 'आर्य ! किमुत्पन्नो भवतां निश्चयः' १ ' देव ! " अहमपुण्य30 भागिनी शिशुरेव नगरविप्लवे विप्रयुक्ता बन्धुभिः" इत्यपि यावदाकर्णितं तावदपि संदेहः ' 'आर्य ! किं करोमि ? एतदपि श्रुत्वा न मे निसर्गदुर्विदग्धं श्रद्दधाति दग्धहृदयम्' । ' देव ! यदि संदेहस्तदादिश्यतां पवनगतिः । इहैवानयतु ताम्' । ' आये ! गर्हितमस्मद्वि
१६०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org