________________
तिलकमारी
इति । स्तुताह खेचराधिपेनाधिकमधोमुखीभूय लज्जया पाणिनखशिखाभिः क्षोणिमलिखम् । 'पुत्रि ! जनकनिर्विशेषे मयि किमियमपत्रपा १ स्वकीय तव स्थानमिदम् । अशङ्किता ब्याहर ।' इति च पुनः पुनरुच्यमाना तथैवाधोमुखी शनैरवदम्-'तात ! नैकः कश्चिदुपदेष्टा नाटयविद्यायां ममाभूद्यं विज्ञापयामि । अपि तूपदेशकाले कुतूहलाविष्टमानसेन मत्पित्रा पृथिव्यामपि ये केचिदुपलब्धाः प्रकृष्टा नाटयतन्त्रे भरतपुत्रास्ते समस्ता अप्युपसंगृहीताः। 5 तत्र च कोऽपि कुतश्चिदवगतः प्रयोगः। ये पुनरिहातिरमणीयतया विशेषतः प्रतिपन्नास्तातेन ते स्वयं मया नृत्यन्तीमम्बावलोकयन्त्या पृच्छन्त्या च तामनवरतमवगताः' । 'वत्से ! तयापि ते कुतो विज्ञाताः' ? 'तात ! विद्याधरलोके कचित्' । 'वत्से ! किमभिधाना तव जनयित्रीं' ? 'तात! गन्धर्वदत्ता नाम' । श्रुत्वा मद्वचनमिदमीषदुल्लसितचेताः समीपवर्ती भर्तुरतिपरिणतवया वीर्यमित्रो नाम मन्त्री शनैर्व्याजहार-'देव, कञ्चिन्न सा 10 देवस्यैव दुहिता राजपुत्री गन्धर्वदत्ता? जन्यते हि नाम्ना नाट-चक्रमेण च सुतासंक्रान्तेन महती मतिभ्रान्तिः' । 'आर्य, न केवल नाटयक्रमो रूपविभ्रमोऽपि भ्रमयति मनः । तथा हि-ताशमेव शरद्विबुद्धशतपत्रानुवादि वदनम् , तादृशा एव चन्द्रोदयक्षभितदुग्धोदद्धितरङ्गायताश्चक्षुषो विक्षेपाः, तागेव ग्रस्तसहकारकोकिलाकूजितकलं जल्पितममुष्याः ' । 'देव ! यद्येवं ततः पुनरनुयुज्यतां विशेषावगमार्थमत्रभवती' । 'वत्से ! अपि 15 ध्रियते तव सवित्री' १ 'तात ! सर्वान्तःपुरपरीता शुद्धान्तसौधशिखरात्पुरजनप्रवर्तित कौमुदीमहोत्सवमवलोकयन्ती निरामयशरीरा संप्रत्येव मुक्ता मया' । 'वत्से ! कियत्प्र. माणम् ? कीडशो वर्णविशेषः ? कियती वयोऽवस्था १ किमनुकारिणी च शरीराकृतिरस्याः ? । 'तात । प्रमाणतो नातिह्रस्वा न चात्यायता । वर्णेन विकचचम्पकावदाता । वयसापि यादृग्मयि प्रथमगर्भसंभवायां संभवति तादृशेनोपेता । रूपेण तु न किंचित्तादृशमपरमिह सदसि 20 मानुषमङ्गनासु पुरुषेषु वा पश्यामि । यदि परं, देवस्यैव किंचिदनुकरोति' । 'देव ! संवादकानि सर्वाण्यपि चिनानि यदि यथावेदितानि तथैव, ततो निःसंशयं सैव राजपुत्री गन्धर्वदत्ता' । 'वत्से ! कस्तस्याः पिता' ? 'तात, तापसः कश्चित्' । 'आर्य ! दुर्वारतनयादुःखदावाग्निदग्धे मनसि वन इव चिराल्लब्धजन्मा, पश्य कथमन्तराले संयोज्य तापसमपास्तकरुणेन विधिना, समूलमुद्धृतस्तरुस्कन्द इव मे मन्दभाग्यस्यानन्दः ? 25 'देव । मा विषीद । न जानाति तत्त्वतो राजपुत्री तस्याः पितरम् , अन्यथा न कश्चिदिति कथयेत्' । 'वत्से ! दृष्टस्त्वया स तापसः' ? 'तात ! न कचिदृष्टः । जनप्रवादादवगतः' । 'वत्से ! त्वज्जननी किमाचष्टे' ? 'तात, न किंचिदाचष्टे । प्राक्तनं निजवृत्तान्तं केवल पृष्टा कथाप्रसङ्गेषु सखीभिरधोमुखी मुक्तदीर्घनिःश्वासा निःशब्दमविरता. श्रुबिन्दुदर्शितदुर्दिना रोदिति' । 'आर्य ! किमप्रतिपादने रोदने च तस्याः कारणम्' १ 30 'देव ! सर्वलोकोत्तरनिजवंशव्यसनप्रकाशनलज्जा बन्धुजनानुस्मरणदुःख च'। 'वत्से ! यदि न किंचित्कथयति, ततः कथं विद्याधरलोकेनाटयप्रयोगास्तयाधिगता इति त्वया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org