________________
યુદ્ધ
विधनपालकृता
हृदयवर्तिनो रसस्य परिपोषम् । एष ते प्रकाशयितुमतिचिरकाल शिक्षितं प्रसाधनकर्मवैचक्षण्यं च क्षणः' । इति स्मिताननेनाभिहिता नभश्वरभूमिपालेन सा विलासिनी सहासविकसितेक्षणा तत्क्षणमेवोदतिष्ठत्, अन्वतिष्ठ्च सर्वे यथादिष्टम् ॥
२२२) अत्रान्तरे समारभ्यत त्रिभुवनैकभर्तुरभिषेकमङ्गलविधिः । व्यधीयन्त 5 वैणिकैरितस्ततः प्रहततन्त्रीपरीक्षितकलध्वनिभिर्निश्चलाः कला वल्लकीषु । वितीर्णविविधमार्जनानि सज्जान्यक्रियन्त नानावादित्राणि भरतपुत्रैः । निचुलका कृष्टप्रकृष्टवेणवोऽग्रे गायनीगणमुपाविशन्यांशिकाः । प्रक्षालनपवित्रपाणिभिरुपानीयन्त पानीयेन सकलतीर्थाहृतेन पूरिताः शातकुम्भकुम्भाः पुंभिः । उत्तम्भिताभिषेककाञ्चनकुम्भा इवाभोगशालिभिः पयोधरैरुपलक्ष्यमाणा बभूवुरासन्ना बभ्रमुच ससंभ्रममितस्ततः काश्चित्कुसुमपटलकहस्ताः, काश्चि10 दनुलेपनपात्रधारिण्यः, काश्चिद्गृहीतगन्धोदकभृङ्गारा वारयुवतयः । क्षणेन च प्रथमतरकलशवारिप्रवाहपतनशंसी, समकालचलितोभयपक्षताडितनितम्बावलम्बितगर्जन्मेघमुरजै
भक्तितो दत्तसमहस्तैरिव निशम्यमानः साध्वसादूर्ध्वमुत्पतद् द्भिरुदधिगोचरै गिरिविहङ्गः, त्रासतरलिततीरशायिमहानक्रचक्रवालहेला पतन दूरोच्छलित भूरिजलनिवहेन सहसोत्थाय निपुणं निरूप्यमाण इव पुनरप्यमृतमथनोत्प्रेक्षिणा मकराकरेण, मुखरीचकार दिक्चक्रमक्रमाहतानां 15 दिव्यतूर्याणामदृष्टमर्यादो नादः । क्रमेण च समाप्ते परमदेवस्य मज्जनविधौ, निर्मापिते सविस्तरं पूजाकर्मणि, प्रवर्तिते गाथकगणेन मधुरमृदङ्गध्वनिमिश्रे विश्राणितश्रावक श्रोत्रमुदि मङ्गलगीतध्वनौ, प्रनृत्तासु पर्यायेण तासु क्षितिपालकन्यकासु, क्षीणभूयिष्ठायां क्षपायामहं चित्रलेखया विरचितविचित्रवेषप्रभाबद्धपरिवेषैः प्रलघुभिर्मणिभूषणैः समन्तादलंकृतमनुल्बणघृताङ्गरागमङ्ग दधाना रङ्गमध्यमध्यासितवती, प्रवृत्ता च सखीभिरिव साकं 20 प्रेक्षक मनोवृतिभिः प्रनर्तितुम् ॥
२२३) अवसिते च नृत्यकर्मणि कृतरङ्गप्रणामामधिगताधिकोल्लासैः श्रमश्वासोद्रमैः किंचित्सायासकुचमण्डल मुल्लसित विरलस्वेदाम्बुकणकर्बुरीकृत कपोलपत्रभङ्गां चित्रलेखायाः समीपे निविशमानामाहूय दर्शितावकाशः स विद्याधरराजराजो निजासनस्यैकदेशे मामुपवेशयन्, निविष्ठायाश्च मे शङ्कासंकोचित तनोरवनितलनिहित निस्तरङ्गदृष्टेर्नर्तनायासवि25 घटित संनिवेशं संयम्य हस्ताभ्यां केशहस्तम्, आरोग्य विस्रस्तमीषद्विलासावतंसपल्लवं श्रवसि, किंचिदावलितकन्धरो दक्षिण कराङ्गलियुगेनोन्नमय्य चिबुकदेशे त्रपाभरावनतमाननं, सबहुमानमभ्यधित – 'वत्से मलयसुन्दरि ! दूरमावर्जितानि त्वया सामाजिकमनांसि । कथय कुतस्तस्यास्य विद्याधरलोकेऽप्यतिविरलप्रचारस्य सकलखेचरचमत्कारकारिणो नाटयवेदस्याधिगतिः १ कथं शिक्षिता स्वल्पेन कालेन ललितानेतावतः करणप्रयोगान् १ केन 30 संक्रमिता कृतिना वरेण समस्तरङ्गरागहेतुरियमङ्गहाराणां गतिः १ अतिमहत्कुतूहलं मे । न हि कदाचित्क्षितिचारिणीष्वबलासु दृष्टा श्रुता वास्माभिरेवंविधा वैदग्धी नाटयकर्मणि'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org