________________
तिलकमक्षरी
स्वयंग्राहविलुप्तसकलगृहस्वापतेयस्य कुसुमपुरसततवाससफलीभूतजन्मनो मनस्विनां धौरेयस्य मगधेश्वरस्य सूरकेतोः शकुन्तला । यापि विरतनिद्रनीलोत्पलश्यामाभिरामवर्णा दानलेखेव सर्वतःपरिमला स्वैरापतद्भिरलिकदम्बकैराकुलीकृता मत्तवारणमलंकरोति, असावपि सैन्यभरदलितपाश्चात्यसिन्धुरोधसः क्रीडवरोधसुन्दरीस्वच्छन्दोपभुक्तरैवतकपरिसरोद्यानस्य सौराष्ट्रमण्डलपतेर्महाबलस्य बन्धुमती । याश्चैता विचित्रवेषधारिण्यः स्फाटिकवितर्दिकोपविष्टाः 5 क्षोभविरतविभ्रमैः ससंभ्रममितस्ततो वलद्भिरीक्षणैर्मण्डपक्षणेषु विकचेन्दीवरदलोपहारमिव पातयन्ति, एता अपि कलिङ्गवङ्गाङ्गकोशलकुलूतादिदेशस्वामिनामवनिपालानामिन्दुलेखालीलावतीमालतिकामदनलेखाप्रायाभिराख्याभिरधिगतप्रख्यातयो देशान्तरेषु दुहितरः' इति ।
२२१) अभिधाय तूष्णीमास्थिते तस्मिन्स राजा स्मेरतारकः सविस्मयमालोक्य ताः समस्ता अपि प्रत्येकं कन्यका मां च किंचिद्वलितकन्धरो नातिनिकटे समु- 10 पविष्टामुत्कृष्टवसनालंकारभूषितविग्रहामग्राम्येण मण्डनप्रकारेणाकारेण च परं प्रसाधितामितस्ततोऽभिव्यज्यमानजरसि प्रौढे वयसि वर्तमानामेकां विलासिनी सपरिहासमवोचत्'चित्रलेखे, त्वं हि वत्सायाः पत्रलेखायाः परं प्रसादभूमिः प्रधानसैरन्ध्री, स्वकर्मकौशलेन कृत्स्नेऽपि जगति लब्धजयपताका, जानासि विविधाभिर्भगिभिरलंकर्तुमित्यनेकशः श्रुतमस्माभिः । अमूलमन्त्रं कार्मणं तव प्रतिकर्म किमपि सुभगकरणमङ्गनानाम् । तथाहि- 15
प्रसादपरया त्वया रचितचतुरसाधनाः ।
परिणतवयसोऽपि सद्यस्तरुणतां प्रतिपद्यन्ते ॥८५।। प्राजापत्या अपि पराजयन्तेऽन्तःपुरिकाजनस्य रूपम् । कुरूपा अप्यप्सरायन्ते स्त्रियः । वचनचातुर्य तु ते जन्मान्तराभ्यस्तमिव शरीरेणैव सार्धमाविर्भूतम् । अर्भकत्वेऽपि भुजङ्गजनगोष्ठीषु परां प्रतिष्ठामागतासि । प्रागल्भ्येन स्वभावमधुराः सर्वजनहृदय- 20 हारिणः क्षणमात्रपरिचितेऽपि जने जनितविश्रम्भाः कस्य नाम न विस्मयमावहन्ति, कं वा विधेयं न कुर्वन्त्यपूर्वाभिर्भङ्गिभिरुद्भासिताः पदे पदे तव विनोदकथालापाः १ कथयामि वामिनि, विवक्षितम् । या इमाः पवनगतिना संग्रत्युपदर्शिताः कन्यकाः, इमाः खलु निखिला अपि भारतक्षेत्रदक्षिणार्धमध्यमखण्डवासिनां मण्डलपतीनामात्मजाः । कथञ्चिद्वगतस्वरूपैरेवं रूपवत्य एवं कलाकुशला इति पूर्वमेव निवेदिता विद्याधरैरानीताश्च संप्रति 25 कुतूहलतरलितैरलंकर्तुमिय यात्रोत्सवम् ; अत्र चास्य भगवतश्चराचरगुरोरभिषेकमङ्गलानन्तरमेव प्रवर्तयिष्यन्ति संगीतकम् । अतस्तथा प्रसाधय, यथैताः शिथिलयन्ति स्त्रीस्व. भावसुलभं साध्वसम् , विस्मरन्त्याकस्मिकबन्धुजनवियोगजनितमुद्वेगम् , आसादयन्ति परतन्त्रतादर्शनदूरीकृतं प्रमोदं, गृह्णन्ति महाजनसमाजलज्जास्तम्भितं लास्यलालाभ्युपगमम् , अवतरन्त्यनाकुलाभिरङ्गयष्टिभिरङ्गीकृतशृङ्गारचेष्टा रङ्गभूमिम् , अभिनयन्ति सम्य- 30. गभिनेयमर्थजातम् , आरोपयन्ति प्रेक्षकजनस्य प्रमोदमग्रभूमिम् , आवहन्ति च सहृदय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org